प्रथमः प्रत्यक्षपरिच्छेदः
आचार्यधर्मोत्तरविरचिता
न्यायबिन्दुटीका
आचार्य्धर्मकीर्त्तिप्रणीतो न्यायबिन्दुः
प्रथमः प्रत्यक्षपरिच्छेदः ।
ऊँ नमो वीत्तरागाय1 ।
सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिरिति तद् व्युत्पाद्यते ॥१॥
1b 2सूत्राभिधर्मविनयाः सुगतस्य वाचो बाधा विनाद्भुततया सततं जयन्ति ।
आभान्ति दर्पण इव प्रतिबिम्बितानि तत्त्वानि यत्र सकलस्य पदार्थराशेः ॥
श्रीधर्मकीर्त्त्यभिमुखानि जगद्धितानि धर्मोत्तरस्य विपुलानि पदान्यमूनि ।
सम्यक् प्रकाश्य सुकृतं समुपार्जयामि तेनापि दुःखजलधेर्जगदुद्धरामि ॥
न्यायबिन्दुटीकां चिकीर्षुरेष धर्मोत्तरो भगवत्पूजापुण्ययोः साध्यसाधनभावमतीन्द्रिय
मीदृशि विषये गत्यन्तरविरहादभ्युपेयप्रामाण्यादागमादवगम्य, पुण्यस्य चापुण्यविरोधित्वाद
पुण्यफलविध्नाद्यभावो व्यापकविरुद्धविधिना सम्भवी, तेनाविध्नेन ग्रन्थकरण4तत्समाप्तौ
2
तदध्ययने च भगवद्गुणगणश्रवणजनितातिशयविशेषासादितपुण्यस्य तथैवाविध्नेन जिज्ञासित
शास्त्रार्थतत्त्वावगमो भविष्यति, दृष्टशिष्टाचारोप्यनुपालितो भविष्यतीत्यभिसन्धाय वाग्विजया
ख्यानद्वारां भगवतः पूजां स्तुतिमयीमारभते ।
स्यादेतत्--पूजायाः पुण्योपजननमात्रप्रयोज5नस्य सम्पादकत्वादारिप्सितारम्भात्प्राक्
कायमयीमेवेष्टदेवतापूजामारचय्य किमिति न तदारभ्यते ? अथोच्यते--तत्पूर्विकायामपि
प्रवृत्तौ स्तुतिपूजैव प्रवृत्तिपुरःसरी किन्न कृता इति चोद्यमापद्येत । तथा चाशोकवनिकाचोद्य
सदृशमिदमिति नानुवाद्यमपि विदुषामिति । असदेतत् । एवं हि6कायपूजाया आरचने स्तुति
पदानि प्रयुञ्जानस्याऽतद्व्याख्यानभूतस्यास्य श्लोकस्याप्रकृतस्य करणं नापद्येत । कायपूजा तु
सुखासनोपदेशनादीतिकर्त्तव्यतास्थानीयत्वान्नाप्रकृतकरणचोद्येनोपद्रूयत इति ।
अत्रोच्यते--स्यादेवैतद् यदि स्वार्थमुद्दिश्य स्तुतिरीदृशी पूजा विधीयते । किं तर्हि ?
श्रोतृजना7र्थमुद्दिश्यापि भगवतो गुणकीर्त्तने कृते श्रोतृभिरन्ततः काव्यगुणजिज्ञासयापि
श्लोकोऽवश्यं ज्ञातव्यः । तज्ज्ञानात् तथागतगुणास्तावत्कालं तावच्छोतृसन्तानमध्यासते । तत्र
ये तावद् भगवति प्रागतिप्रसन्नमनसस्तेषामेवंविधगुणातिशयशालिनि स्थान एवास्माकं मनः
प्रसन्नम्इति निश्चिन्वतां स्थे8मानमासादयति चित्तम् ।ये च मध्यस्थास्तेषाम् एवंभूतगुणरत्ना
लङ्कृते महतो महीयसि चित्तमावर्जयितुमुचितं स्वहितावहितैः, तद्वयमियन्तं कालं प्रमाद्यन्त
एवोदास्महे स्म इति निर्विद्यमानानां चित्तमतिमत्तं प्रतिष्ठते । येऽप्यनतिप्रसन्नास्तेषामपि—
एवंविधगुणनिकेतने किमस्माभिरकस्माद्विद्विष्यते इति मननान्मनागावर्जनं माध्यस्थ्यं वा
9स्यादित्यतिप्रसन्नमध्यस्थयोः पुरुषयोश्चित्तप्रसादस्थैर्य-मनःप्रसादोपजननाभ्यां पुण्यातिशयो
जायते । तृतीयस्यापि मनागावर्जनेपि पुण्यप्रसवः । माध्यस्थ्ये तु भगवद्विद्वेषोपचयोपनेय
नरकेष्वनतिपतनं विद्वेषोपशमाद् भवति । असत्यां तु स्तुतिमयपूजायामित्थं त्रिविधश्रोतृजन
प्रयोजनं यत् तन्न कृतं स्यात्--इति स्वपरार्थो2a द्देशेन स्तुतिमयी पूजा विधीयत इति
स्थितम् ।
तत्रानेन श्लोकेन भगवान् स्वार्थसम्पदा परार्थसम्पदुपायसम्पदा परार्थसम्पदा च स्तूयते ।
तासां तिसृणामपि सम्पदामवश्यवक्तव्यत्वात् । तथाहि चिरकालाभ्याससात्म्यीकृतमहाकृपस्य
भगवतः परार्थसम्पत् प्रधानं प्रयोजनम्, इतरदप्रधानम्, आनुषङ्गिकं तथागतत्वमपीति सा
तावदवश्याभिधेया ।
तदाह भट्टवराहस्वामी--
साक्षात्कृताशेषजगत्स्वभावं प्रासङ्गिकं यस्य तथागतत्वम् । इति ।
सा चोपायसम्पदमन्तरेणासम्भविनीति तदभिधानमप्यावश्यकम् । इयञ्चानधिगत
स्वाथसम्पदो न सिध्यतीति तदभिधानमपि नियतमापतितम् । तदाह स एव--
तत्र स्वार्थसम्पन्नस्य परार्थसम्पादनोपायसम्पत् तत्साध्या च परार्थसम्पादनसम्पदिति
प्रथमं जातीत्यादिना सुगतस्येत्यन्तेन स्वार्थसम्पत्तिरुक्ता । अनुपायस्य परार्थसम्पत्तिर्न सम्पद्यत
3
इति तदनु वाच इत्यनेन परार्थोपायसम्पदुक्ता । ईदृशं वस्तुनो रूपम्, इदञ्चानुष्ठेयम् इत्यादि
रूपेण धर्मदेशनैव हि भगवतो जगद्धितावगमनलक्षणपरार्थसम्पादनोपायसम्पद् वैद्यवरस्येव
व्याधिस्वरूपप्रतीतिशक्तिभैषज्योपदेशो रोगोपशमसम्पादनोपायसम्पत् । तदनन्तरं तदुपाय
सम्पत्तिसाध्या परार्थसम्पदन्येन पदेनोक्ता ।
तत्र वाचो जयन्ति--इति सम्बन्धः । अविवक्षितकर्मत्वादकर्मत्वम् । वाचः सूत्राभि
धर्मविनयलक्षणाः । जयन्ति उत्कृष्यन्ते प्रकृष्टा भवन्ति । उत्कर्षश्च सजातीयापेक्षयेति
सामर्थ्यादीश्वरादिवचनेभ्यः प्रकृष्टा भवन्तीत्यर्थः । यद्वा जयन्ति अभिभवन्ति । अभिभवश्च
प्रतियोगिगोचर इति । अर्थात् तीर्थिकशास्त्राभिभवं कुर्वन्तीत्यर्थः । प्रमाणोपपन्नार्थप्रतिपादक
त्वादासाम् । तेषां तु तद्वैपरीत्यादिति बुद्धिसिद्धं कृत्वा केवलमेतदत्रोक्तम् । विनिश्चय
टीकायां पुनरनेन युक्तिप्रभावेत्यादि हेतुभावेन विशेषणमुपात्तम् ।
कस्य ता इत्याकाङ्क्षायामाह--सुगतस्य इति । सुशब्दोऽयमर्थत्रयवृत्तिर्द्रष्टव्यः । प्रशस्तं
गतः सुगतः । प्रशस्तं यथा भवति तथा गतः--संसारात् प्रक्रान्तः । कथं तथा गमनं तस्य ?
नैरात्म्यदर्शनेन संसारातिक्रमात् । तस्य च प्रज्ञानिश्रयात् । अथवा गत्यर्थानां ज्ञानार्थत्वादपि
प्रशस्तं गतः ज्ञातवानित्यर्थः । प्रशस्तञ्च तत् तत्त्वं नैरात्म्यलक्षणम् । तत्त्वरूपत्वञ्च
तस्य प्रमाणोपपन्नत्वात् । दृष्टश्चायं सुशब्दः प्रशस्तार्थवृत्तिः । सुरूपा रूपाजीवेति यथा ।
अपुनरावृत्त्या वा गतः सुगतः । गतः प्रयातः संसारात् । पुनरावृत्तिशब्दवाच्ययोर्जन्मदोषयो
रात्मदर्शनबीजोपघातेन भगवता समूलघातं निहतत्वात् । एतदर्थेपि सुशब्दो दृष्टः । सुनयो
ज्वर इति यथा । निःशेषं वा गतः सुगतः । निःशेषं यावद् गन्तव्यं तावद् गतः प्राप्तः ।
अक्लेशनिर्जरकायवाग्बुद्धिवैगुण्यलक्षणशेषलक्षणप्रहाणेन मुनेस्तत्पदप्राप्तेः । एवंवृत्तिरपि
सुशब्दो दृश्यते । सुपूर्णो घट इति यथा ।
तस्य सु2b गतस्य किम्भूतस्येत्याह--विजेतुः अभिभवितुः । कस्यासौ विजेते
त्याह--जगतो जीवलोकस्य । विजयश्च जगदपेक्षया परमपदप्राप्त्या तस्य प्रकृष्टत्वं द्रष्टव्यम् ।
अत एव जगदभिभूतं भवति । तस्य तद्वैपरीत्यात् । न पुना राजविजय इव राजान्तरापेक्षया
कायादितिरस्कारोऽभिभवोऽवसेयः ।
जगतः कीदृशस्य ? जायते संसरत्यनयेति जातिः तृष्णा । व्यस्यते विविधेन प्रकारेणे
तस्ततो अस्यते10क्षिप्यते अनेनेति, अस्यतीति वा व्यसनम् । जातिरेव व्यसन
मित्यन्तर्नीतनियमः समासः कर्त्तव्यः । तृष्यन्नेव हि प्राणी तत्तदाचरति येन संसारे संसरति ।
ततस्तयैवासौ इतस्तत उत्पादद्वारेण व्यस्तः क्षिप्तो भवतीति सैव व्यसनं युक्तम् । अथवा
जातौ उत्पत्तौ निकायविशिष्टायां व्यसनम् आसक्तिः विद्याधरोऽहं भूयासं, देवोऽहं भूयासम्
इत्याद्याकारोऽभिनिवेशः । यद्वा जात्याश्रितानि व्यसनानि दुःखानि11 रोगशोकादीनि ।
प्राक्तनव्याख्याने तस्य, अन्तिमव्याख्याने तेषां प्रबन्धः प्रवाहः । तदेव वा प्रकृष्टो बन्धः ।
प्रवाहपक्षे प्रबन्धेन । बन्धपक्षे प्रबन्धस्य । प्रसूतेः कारणस्य । एवञ्च प्रबन्धप्रसूति-
श्रुतिसहितं हेतुपदमुपाददानः परमतनिराकरणञ्चाभिप्रैति । तथा ह्येवमभिधाने सत्ययं
4
तात्पर्याथः--जगदेवानन्यसत्त्वनेयं स्वयमेव तथा तत्तदाचरति येन तथा संसारे संसरति । न तु
परप्रेरितं यथाऽन्ये मन्यन्ते--
इतरथा जातिव्यसनाश्रयस्येति तदन्यविशेषणसहितमेव ब्रूयादिति ।
किम्भूतस्य सुगतस्य ? रागादीनां क्लेशानाम् अरातेः शत्रोः सत्कायदृष्टिविगमेन,
तेन तेषां स्वसन्ताने समूलमुन्मूलितत्वात् । यत एव भगवान् रागाद्यरातिः, जगच्च जाति
व्यसनप्रबन्धप्रसूतिहेतुः, अत एवासौ ततः प्रकृष्टो भवति विजेता तस्य । अथवा रागाद्यरातेरिति
जगतो विशेषणम् । रागादयोऽरातयः प्रतिपक्षा नित्यमुपघातका यस्येति कृत्वा । तदा तु
तद्विजेता भगवान् सुगतत्वादेव बोद्धव्यः । जगतो ये रागादयस्तेषामरातेरित्यादिव्याख्यानं
तु क्लिष्टत्वात् नोक्तम् ।
किंविशिष्टा वाच इत्याह--मन इत्यादि । सदसदर्थविवेकविबन्धकत्वात् तम इव
तनोऽज्ञानमविद्या । तच्च मनसो विकल्पविज्ञानस्य कयाचिद्व्यपेक्षया धर्म इव भिन्नः कथ्यते ।
वस्तुतस्तु क्लिष्टमेव ज्ञानमविद्या । यद्वा क्लिष्टं मन एव तम इव तमः पूर्ववत् ।
केचित्तु मनस्तम इति शब्दसमुदायमज्ञानार्थवाचकमाचक्षते ।
तस्य तानवं तनुत्वं मन्दीभवनमित्यर्थात् । तद् आदधानाः कुर्वाणाः । तानवग्रहणेन
चेदमाचष्टे--न भगवतो वाचः सर्वथा जगदज्ञानमुपध्नन्ति, तच्छ्रवणमात्रेण मोहहान्या मुक्त
त्वात् मार्गभावनावैयर्थ्यप्रसङ्गात् । किन्तु कियन्तं कालमालोच्यमानाः समुदाचारतो मोहस्य
मान्द्यापादनेन तं तनूकुर्वन्तीति ।
अथवा अन्यथा व्याख्यायते--ता वाचस्तमो जयन्ति अभिभवन्ति13... ... ...
... ...3a ... ... ...मोहप्रचारम् आदधानाः । शेषं समानं पूर्वेण ।
यद्वा मनसि तमो यस्य स मनस्तमा मूढ उक्तः । तस्य भावो मनस्तमस्ता । तस्या
अनवो निष्ठा । तथाहि--नूतिर्नवः । तद्विरुद्धेन14... ... ...तमादधानाः
मूढत्व15... ... ...प्रवर्त्तनात् । शेषं समानं पूर्वेणेति व्याख्यातः श्लोकः ।
केवलमिदमालोच्यताम्--तथागतमभिस्तुवता धर्मोत्तरेणास्यैव विजयो मुख्यवृत्त्या
किं न कथितः ? किं पुनर्धर्मिविशेषणत्वेनानुषङ्गतः प्रतिपादित इति ? अत्र समाधीयते ।
आचायश्रीधर्मकीर्त्तिना भगवत्प्रवचनार्थसमर्थन16... ... ...
... ...प्रकृतत्वात् विजयो मुख्यतः प्रतिपाद्यते ।
यद्वा यस्य वाच एव तथा जयन्ति तस्य विजयो दण्डाज्जयन्यायेनातिशयेन प्रतिपादितः ।
सूचितश्चासौ विजेतृपदेन ।
5
सम्यग्ज्ञानपूर्विके17त्यादिनाऽस्य प्रकरणस्याभिधेयप्रयोजनमुच्यते ।
अथवाऽऽगमिकानां मतेन निरुपधिशेषे निर्वाणधातौ परिनिर्वृतो भगवान् । परिनिर्वृत
स्यास्य प्रवचनमयमेव वपुर्विद्यत इति आगमिको वाग्विजयमेव प्रतिपादयते स्मेति ।
सम्यग्ज्ञानेत्यादिना प्रकरणस्य यत् प्रयोजनं सम्यग्ज्ञानव्युत्पत्तिः, तस्या यत् प्रयोजनं
पुरुषार्थसिद्धिरूपं तदुच्यते । न च सम्यग्ज्ञानव्युत्पत्तेः सम्यग्ज्ञानपरिज्ञानं प्रयोजनं न पुरुषार्थ
सिद्धिरिति शक्यमभिधातुम् । विप्रतिपत्तिनिराकरणेन स्वरूपप्रतिपत्तिरि18व हि
सम्यग्ज्ञानस्य व्युत्पत्तिः । सा कथमात्मन एव प्रयोजनं भवेदित्यभिप्रायेण व्याख्यातवन्तौ
विनीतदेव-शान्तभद्रौ । तद्व्याख्यानमवमन्यमानोऽभिधेयप्रयोजनमुच्यते इति व्याचष्टे ।
अवज्ञाने चायमाशयः--अस्येदं प्रयोजनमिति खल्वन्वय-व्यतिरेकाभ्यामवधार्यते । नान्यथा ।
इयञ्च-स्वरूपा प्रसिद्धिः 19 सम्यग्ज्ञानव्युत्पत्तिमन्तरेणापि गोपालाङ्गनादीनां
भवन्ती सति सम्यग्ज्ञानि20, सत्यामपि तद्व्युत्पत्तौ असति सम्यग्ज्ञाने मनीषिणामभवन्ती
न तद्व्युत्पत्तेरन्वयव्य-तिरेकावनुविधत्ते । किन्तर्हि ? सम्यग्ज्ञानस्येति तस्यैव
प्रयोजनं भवितुमर्हतीति ।
सम्यग्ज्ञानेत्यादिना वाक्येन करणेन प्रकरणाभिधेयस्य सम्यग्ज्ञानलक्षणस्य प्रयोजनं दृष्टं
पुरुषार्थसिद्धिलक्षणमुच्यते वार्त्तिककृता कर्त्रेत्यर्थात् ।
ननु च यत्राभिधाव्यापारः समाप्यते स वाक्यार्थः । न चासौ पुरुषार्थसिद्धौ
विश्राम्यति । किं तर्हि ? श्रोतुः सम्यग्ज्ञानव्युत्पत्तौ । तत् कथं सा वाक्यार्थत्वेनोच्यते ? उच्यते ।
यद्यपि शब्दाभिधाव्यापारापेक्षया तत् सम्यग्ज्ञानं व्युत्पाद्यते शिष्य इति शिष्यसम्यग्ज्ञानविषया
व्युत्पत्तिक्रिया प्राधान्याद्वाक्यार्थः, तथाप्यस्य तात्पर्यार्थसम्भवे तन्निरूपणेनेदमुच्यते । तथा हि
तद्व्युत्पत्तिमेवासौ किमति कार्यते ? यतः सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिः21... ... ...
... ... ...मुच्यते । यत्र पुनरभिधाविषय एवार्थः सम्भवी न तु तात्पर्यार्थो 3b 22...स्तत्र
स एव वाक्यार्थः कल्प्यते । द्वितयसम्भवे तु यत्परं वाक्यं तथा च तस्यार्थ इत्यार्थेन न्यायेना
भिधेयस्य प्रयोजनं पुरुषाथसिद्धिर्वाक्यार्थत्वेनोच्यत इति व्याख्यायत इति ।
केचित् पुनरिदं धर्मोत्तरीयं वाक्यमन्यथा व्याचक्षते । नात्र प्रयोजनशब्देन फलमभिप्रेतं
किन्तु प्रयुज्यते प्रवर्त्त्यतेऽनेनेति, प्रयोजयतीति वा प्रयोजनम् । तच्च पुरुषार्थसिद्धिहेतुत्वम् ।
अभिधेयस्य हि सम्यग्ज्ञानस्य पुरुषार्थसिद्धिहेतुत्वेन प्रयुक्तः पुरुषः प्रवर्त्तत इति ।
उत्तरत्रापि प्रयोजनमिदमेव विवक्षितम् । अत एव--अत्र चेत्यादिवाक्ये सर्वपुरुषार्थसिद्धिहेतुत्वं
प्रयोजनं प्रवर्त्तकमुक्तमिति स्पष्टीकरणं घटत इति । तच्च नातिश्लिष्टमुत्पश्यामः । तथा
हि अत्र च प्रकरणाभिधेयस्य सम्यग्ज्ञानस्य पुरुषार्थसिद्धिहेतुत्वं प्रयोजनमुक्तमिति
वक्ष्यमाणेन व्यक्तीकृतत्वादिहापि अभिधेयस्य प्रयोजनम् इति षष्ठीतत्पुरुषोऽवश्यकार्यः । तथा चाय
मसमर्थः पदविधिर्भवेत् । तद्धि पुरुषार्थसिद्धिहेतुत्वं नाभिधेयस्य सम्यग्ज्ञानस्य प्रवर्त्तकमपि
तु पुरुषस्य । तत् कथमभिधेयपदेन समस्येत प्रयोजनपदम् ? न च केनचिद्रूपेणाभिधेयसम्बन्धि
6
त्वऽस्य समर्थयोरेकार्थीभावो भवतीति । न हि यज्ञदत्तपुत्रो भृत्यत्वादिना रूपेण देवदत्त
सम्बन्धी भवन्देवदत्तपुत्र इति षष्ठीसमासस्य विषयो भवितुमर्हति ।
अथ भावप्रधानत्वान्निर्देशस्य प्रयोजनं प्रयोजकत्वमित्यर्थः । तच्चाश्रितस्य प्रयोजकतया
भवति सम्बन्धीति समर्थविधिः कल्प्यते ।
ननु यदि सम्यग्ज्ञानगतं पुरुषार्थसिद्धिहेतुत्वं प्रयोजनं प्रयोजकत्वं तर्हि सम्यग्ज्ञानं प्रयोजन
मित्यापन्नम् । यतो न प्रयोजनत्वमेव प्रयोजनं भवितुमर्हति । न च सम्यग्ज्ञानेन प्रयुक्तः
पु षः सम्यग्ज्ञाने प्रवर्त्तते, किन्तु पुरुषार्थसिद्धिहेतुत्वेन । तत् कथं प्रयोजनं भवितुमर्हति ?
किञ्च वृद्धव्यवहारो हि शब्दार्थव्यवहारभूमिः । न च वृद्धैः प्रयोजकः सत्यपि प्रयोजयितृत्वे
प्रयोजनमुच्यते । अन्यथा सम्यग्ज्ञानं व्युत्पद्यमानानामात्मानं व्युत्पादकं कर्त्तुं प्रवर्त्तमान आचार्यः
प्रयोजक इति सम्यग्ज्ञानव्युत्पत्तेः प्रयोजनमुच्येत । योऽपि कटं कुर्वन्तं कर्त्तुं प्रयुङ्क्ते सोऽपि
तत्प्रयोजनमुच्येतेत्येवंवादी न लौकिको न परीक्षक इत्युपेक्षणीय एव ।
अपि च किमेतदन्यथा नोपपद्यत एव येनैवं मृत्वा शीर्त्वोपपाद्येत । न चैवम्, अन्यथापि
सूपपादत्वात् । प्रयोजकत्वमिति निर्द्देशे च धर्मोत्तरः किं गौरवं पश्यति येनैवमवाचकमाचक्षीत ?
कथञ्च प्रकरणस्येति दुरुपपादं प्रयुञ्जीत ? किञ्च यदीप्सञ्जिहासन् वा पुरुषः प्रवर्त्तते
तदुपादानपरित्यागाभ्यां प्रवर्त्तितो भवति । यथाह अक्षपादः--यमर्थमधिकृत्य प्रवर्त्तते तत्
प्रयोजनम् न्यायसू० १. १. २४ इति । अधिकृत्य उद्दिश्येत्यर्थः । न च सम्यग्ज्ञानस्य भिन्नं
सदपि पुरुषार्थसिद्धिहेतुत्वम् ईप्सन् जिहासन् वा प्रवर्त्तते । किन्तर्हि ? हिताहितप्राप्ति
परिहारावुद्दिश्येति तावेव प्रयोजने युक्ते । किञ्चिदजिहासोरनुपादित्सोरर्थनिरीह4a स्य
सत्यपि पुरुषार्थसिद्धिहेतुत्वे अप्रवर्त्तनात् । स्मरणादभिलाषेण व्यवहारः प्रवर्त्तते इत्यलं
शब्दमात्रसमर्थनदृष्टेरर्थतत्त्वानवगाहिनो वचनेऽन्धादरेण ।
अथाभिधेयप्रयोजनं प्रवर्त्तकमिति समस्यते । ततोऽयमदोष इति चेत् । तदवद्यम् ।
न हि पुरुषाथसिद्धिहेतुत्वेन प्रयुक्तः पुरुषः सम्यग्ज्ञानलक्षणे अभिधेये प्रवर्त्तते किन्तु प्रकरणे
प्रवर्त्तते--ग्रन्थश्रवणलक्षणां प्रवृत्तिमनुतिष्ठति ।
अथ ग्रन्थस्य शब्दार्थस्वभावत्वाद् । एवमप्यसौ शब्देऽभिधेये च समुदाये प्रवृत्तो भवति ।
तद् ग्रन्थस्य प्रकरणस्येति षष्ठी कथम् ? अथ पुनरयमर्थोऽस्य प्रकरणस्याभिधेयेऽर्थादभिधाना
भिधेयसमुदाये प्रयोजनं प्रवर्त्तकमिति । तथा च प्रकरणस्य प्रकरणे प्रवर्त्तकमित्यसङ्गतमुक्तं
स्यात् । यदि चोक्तया व्युत्पत्त्या प्रयोजनशब्देन प्रयोजकं तथाभूतमस्य बुबोधयिषितं भवेत्
तदा सम्यग्ज्ञानपूर्विकेत्यादिना अभिधेयप्रयोजनमुच्यत इत्युक्तं स्यात् । मुख्यश्च सम्बन्धी
पुरुषः पुरुषस्येति दर्शितः स्यात् । न चैवम्, तस्मात् प्रयोजनशब्देन फलमेवास्याभिप्रेतमत्रो
त्तरत्रापि ।
अथोच्यते । फलार्थी चेत् प्रतिपत्ता फल एव किं न प्रवर्त्तते ? कि श्रमः सम्यग्ज्ञान
इति । हेयोपादेययोर्हानोपादानलक्षणफलार्थितैव तन्निबन्धनं ज्ञानं मृगयते । अन्यथा विसंवादन
मात्मीयमाशङ्कमान इति का क्षतिः ? फलपक्षे तु पुरुषप्रवृत्त्युपयोगि चास्याभिधेयमिति
तद् दर्शितं भवति ।
द्विविधं हि प्रकरणशरीरम्--शब्दः, अर्थश्च23 ।
तत्र शब्दस्य24 स्वाभिधेयप्रतिपादनमेव प्रयोजनम् । नान्यत् । अतस्तन्न25 निरूप्यते ।
26अभिधेयं27 तु यदि निष्प्रयोजनं28 स्यात् तदा 29तत्प्रतिपत्तये शब्दसन्दर्भोऽपि30
नारम्भणीयः स्यात् ।
ननु च नायं प्रत्यस्तमितावयवार्थः संज्ञाशब्दः । किं तर्हि ? प्रयुज्यतेऽनेन इति,
प्रयोजयतीति वा व्युत्पत्त्या फलेऽपि वर्त्तते । तत् कथमेतद् व्याख्यायत इति चेत् । सत्य
मेतत् । केवलं न पुरुषार्थसिद्धिहेतुत्वं सम्यग्ज्ञानस्यात्मन एव प्रयोजकं किन्तु पुरुषस्य । तत्र
चोक्ता दोषमात्रा । अभिधेये प्रयोजनमिति विग्रहे च भूयान् दोषो दर्शितः । तस्मात् तथाभूत
व्युत्पत्तिनापि प्रयोजनशब्देनात्र न तथाभूतं प्रयोजकं वाच्यम्, अपि तु फलमेवेति सर्वमवदातम् ।
ननु च प्रकरणे श्रोतृन् प्रविवर्त्तयिषुरयमभिधेयप्रयोजनमभिधत्ते तदनेनास्यैव तदाख्यातु
मुचितम् । तच्च यथास्वमभिधेयप्रत्यायनलक्षणमित्याशङ्क्याह--द्विविधं हि इत्यादि ।
हिर्यस्माद् द्विप्रकारं प्रकरणस्य शरीरं स्वभावः । तदुक्तं काव्यालङ्कारे--शब्दार्थौ सहितौ
काव्यम्32 का० १. १६ इति । तस्मादभिधेयप्रयोजनमुच्यत इति ।
कथं द्वैविध्यमित्याह--शब्द इति । चः शब्देन सहार्थं प्रकरणशरीरत्वेन समुच्चिनोति ।
एतदुक्तं भवति--शब्दार्थयोरवच्छेद्यावच्छेदकत्वेन स्थितयोः प्रकरणत्वं नान्यथेत्युभयस्वभाव
त्वात् प्रकरणस्याभिधेयप्रयोजनाभिधाने प्रकरणस्यैवाभिहितं भवतीति ।
यद्येवं शरीरत्वाविशेषात् अभिधेयस्येवाभिधानात्मनोपि तत् किन्नोच्यते ? किञ्च, न
निष्कृष्टरूपेऽभिधेये पुरुषः प्रवर्त्तते किन्तु ग्रन्थ एव श्रवणलक्षणां प्रवृत्तिमाचरति अभिधेयज्ञानाय ।
तदस्यैव प्रयोजनं वाच्यमिति पूर्वपक्षद्वितयं पश्यन्नाह--तत्रेति निर्धा4b रणे चैतत् ।
नान्यदिति पुरुषप्रवृत्त्युपयोगि ।
अयमस्याशयः--न हि शब्दस्य स्वार्थप्रत्यायनलक्षणं फलमस्तीति शब्दसन्दर्भ आरभ्यते
श्रूयते वा, तस्य काकदन्तपरीक्षासाधारणत्वेनागण्यमानत्वात् । किन्तर्हि ? तदर्थस्य
सप्रयोजनत्वेन । अतः किमनेनोक्तेनापीति ? तर्हि अभिधेयस्यापि तत् किमुच्यत इत्याह—
अभिधेयं तु इत्यादि । तुरभिधानादभिधेयं भेदवद्दर्शयति । अपिशब्दो नारम्भणीय इत्यस्मात्परो
द्रष्टव्यः । तदयमर्थः--तत्प्रतिपत्तये शब्दानां सन्दर्भो नारम्भणीयोऽपि स्यात्, किं पुनः
श्रवणीय इति ।
8
यथा काकदन्तप्रयोजनाभावात् न तत्परीक्षा आरम्भणीया प्रेक्षावता ।
तस्मादस्य प्रकरणस्यारम्भणीयत्वं दर्शयता अधियप्रयोजनमनेनोच्यते । यस्मात्
सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिः, तस्मात् तत्प्रतिपत्तये33 इदमारभ्यत इत्ययमत्र वाक्यार्थः ।
34अत्र च प्रकरणाभिधेयस्य सम्यग्ज्ञानस्य सर्वपुरुषार्थसिद्धिहेतुत्वं प्रयोजनमुक्तम् ।
यथेति सामान्येनोक्तस्यार्थस्य विषयोपदर्शने । यथैतद्दर्शितं तद्वत् सर्वं द्रष्टव्यमिति
यथाशब्दार्थः ।
तत्परीक्षेतीक्षेत्थमित्थञ्चेति कर्मोपदेशः । पदसंहतिरिति च बुद्धिस्थम् । परीक्षणं
वा परीक्षा विमृष्यावधारणं तादर्थ्यात् शास्त्रमपि तथा ।
ननु निष्प्रयोजनाभिधेयं मारम्भि, वचनेन त्वनेन किं क्रियत इत्याह--तस्माद् इत्यादि ।
यस्मान्निष्प्रयोजनाभिधेयं नारभ्यते तस्मादारम्भणीयत्वं दर्शयता आरम्भयोग्यमेवेदं मयारभ्यत
इति प्रकाशयता, आरम्भणीयत्वे च दर्शिते श्रवणीयत्वमपि निमित्तसाम्याद् दर्शितं भवतीति ते
प्रवर्त्तिता भवन्ति ।
ननु च सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिरित्यनेनैकदेशेनाभिधेयप्रयोजनमुवतम्, न
समुदितेन । तत् कथम् अनेन वाक्येनोच्यते इत्युच्यते ? उच्यते । वाक्यं हि नामैकस्मिन्नर्थे
प्राधान्येन प्रतिपाद्ये गुणगुणिभावमनुभवतामर्थद्वारेणान्योन्यापेक्षिणां सम्बद्धानां पदानां समूह
उच्यते । तत्र यदि सर्वेषां पदार्थानां प्राधान्यं स्यात् तदा परस्परानुपकारात् सम्बन्ध एव
पदानां न स्यादिति वाक्यरूपतैव हीयेतेति सूक्तमनेनेति । अभिधेयप्रयोजनाभिधानमेवास्य
सम्यग्ज्ञानेत्यादिपदसमूहात्मकस्य यथा तथा यस्मादित्यादिना कण्ठोक्तं करोति । तस्य
सम्यग्ज्ञानस्य प्रतिपत्तये शिष्यस्येत्यर्थात् । एतच्च तद् व्युत्पाद्यत इत्यस्य सामर्थ्यावस्थितार्थ
कथनं द्रष्टव्यम् । इतिना वाक्यार्थस्य स्वरूपम्, इदमा च बुद्धिसिद्धत्वेन तदेवाङ्गुली
व्यपदेशयोग्यमिव दर्शयति । अनेन च पुरुषार्थसिद्धेरुपेयत्वात् प्राधान्यम्, प्रतिपाद्यमानस्य च
सम्यग्ज्ञानस्य तदुपायत्वादप्राधान्यम् । अत एव चार्थेन न्यायेन पुरुषार्थसिद्धेर्वाक्यार्थत्वम् ।
शाब्द्या तु वृत्त्या शिष्यसम्यग्ज्ञानविषया व्युत्पत्तिक्रिया वाक्यार्थ इति दर्शितम् ।
ननु सम्यग्ज्ञानेत्यादिना वाक्येन सम्यग्ज्ञानस्य पुरुषार्थसिद्धौ हेतुभावः परं प्रदर्शितो न
पुनरिदं तस्य प्रयोजनमिति दर्शितम् । तस्यैव प्रयोजनमनेनोच्यत इति चोक्तम् । तत् कथं
युज्यते ? अथ न35तावतापि न ज्ञायते कस्य किं तदभिधेयं किञ्च तस्य प्रयोजनमित्या
शङ्क्याह--अत्र चेत्यादि ।
अथ सम्यग्ज्ञानस्य पुरुषार्थसिद्धिहेतुत्वं प्रयोजनमित्यवद्यम् । मूलविरोधाद् युक्ति 36मस्मिंश्चार्थ उच्यमाने सम्बन्धप्रयोजनाभिधेयानि38 उक्तानि39 भन्वित
विरोधाच्च । तथा हि पुरुषार्थसिद्धिमेवाचार्यीयं सम्यग्ज्ञानेत्यादिवचनं प्रयोजनमनुजानाति न
तु पुरुषार्थसि5a द्धिहेतुत्वम् । अवयवार्थव्याख्याने तस्य तामेव प्रयोजनतया व्यक्ती
करिष्यति । न च हेतुत्वं हतोर्भिन्नमिष्यते युज्यते वा । तत् कथमस्यैव सम्यग्ज्ञानस्य प्रयोजनं
9
भविष्यति । न चात्र प्रयोजनं प्रयोजकं वाच्यम्, उक्तन्यायात् । इहापि प्रवृत्तिसम्बन्धिन
उपादानप्रसङ्गाच्च । न च राजशासनं सामान्यं किञ्चिदस्ति येन भावप्रधानः प्रयोजनशब्दः
कल्प्येत । तदिष्टौ पूर्वोक्तं दूषणं परावर्त्तेतेति ।
सत्यम् । न पुरुषार्थसिद्धिहेतुत्वं सम्यग्ज्ञानस्य प्रयोजनमभिप्रेतम् । किन्तर्हि ?
पुरुषार्थसिद्धिरेव ।
अशाब्दिकाऽसौ कथमुच्यतामिति चेत् । उच्यते । चशब्दोऽत्र यस्मादर्थे । ततो
यस्मात् प्रकरणाभिधेयस्य सम्यग्ज्ञानस्य पुरुषार्थसिद्धिहेतुत्वमुक्तम्, तस्मात् प्रयोजनमुक्तमिति
द्विरावर्तनीयम् । तच्चात्रार्थात् पुरुषार्थसिद्धिरेवावतिष्ठते । सम्यग्ज्ञानस्य तां प्रति हेतुत्वोक्तौ
च सा प्रयोजनमुक्तेति किं साक्षाद्वाचकेन पदेन क्रियत इति भावः । एतावतैव तावदिदं
समाधीयते । बहवः पुनरत्रायास्यन्ति ।
सर्वा पुरुषार्थसिद्धिर्यतो हेतुत्वात् तत् सर्वपुरुषार्थसिद्धि तथाविधं हेतुत्वं यत्र प्रयोजनं
तत् तथा । तच्च पुरुषार्थसिद्धिरेवेति । अनया व्युत्पत्त्या अनेन शब्देन सैवोक्ता ।
कस्य तादृशमित्यपेक्षायामिदमुक्तम्--प्रकरणाभिधेयस्य सम्यग्ज्ञानस्येति केचित् प्रत्ति
पद्यन्ते । अन्ये त्वर्ष 40 41आदित्वे प्रयोजनमस्यास्तीति मत्वर्थीयमतं विधाय प्रधानवन्निर्देशं
विवक्षित्वा प्रयोजनवत्त्वमिति प्रतिजानते । एवं चार्थं समर्थयन्ति--यत एव पुरुषार्थसिद्धिः
सम्यग्ज्ञानसाध्या तत एव सा प्रयोजनम् । तस्यापि यदेव तां प्रति हेतुत्वं तदेव
प्रयोजनवत्त्वमिति ।
एके तु यतः सम्यग्ज्ञाने सति पुरुषार्थसिद्धिहेतुत्वं व्यवस्थाप्यते, ततः प्रमाण-फलवद्
व्यवस्थाप्य-व्यवस्थापनभावमाश्रित्येदमुक्तं ततो न किञ्चिदवद्यमिति मन्यन्ते ।
अपरे तु चशब्दं भिन्नक्रमं कृत्वा पुरुषार्थसिद्धिहेतुत्वमुक्तम्, प्रयोजनं चोक्तमिति
योजयन्ति ।
इतरे तु पुरुषार्थसिद्धिहेतुशब्देन कारणे कार्यमुपचर्य पुरुषार्थसिद्धिमेवाभिदधति । अनन्यो
पायसाध्यतादर्शनार्थं चोपचारकरणं समादधते ।
केचित्तु निबन्धकृतः कथञ्चिदपीदं समर्थयितुमनीशानाः सहितशब्दपातात् प्रमादपाठ
एवेति वर्णयन्ति ।
अत्र सारासारं सन्त एव विवेचयिष्यन्ति ।
स्यादेतत् । यथा प्रवृत्त्यङ्गतया अभिधेयप्रयोजनमुच्यते, तद्वत् सम्बन्धादिकमपि 42तथाहि--पुरुषार्थोपयोगि सम्यग्ज्ञानं व्युत्पादयितव्यमनेन प्रकरणेनेति ब्रुवता तस्मादभिधेयभागप्र योजनाभिधानसामर्थ्थात् सम्बन्धादीनि उक्तानि भवन्ति । 43न
किं नोच्यत इत्याह--अस्मिंश्चेति । चो यस्मादर्थे ।
10
सम्यग्ज्ञानमस्य शब्दसन्दर्भस्याभिधेयम्, तद्व्युत्पादनं प्रयोजनम्, प्रकरणं चेदमपायो व्युत्पादन
स्येत्युक्तं भवति ।
त्विदमेकं धाक्यं सम्बन्धम्, अभिधेयम्, प्रयोजनं च वक्तुं साक्षात् समर्थम् ।44 एकं तु वदत् त्रयं
सामर्थ्यात् दर्शयति । 45तत्र--
कथं पुनरन्यस्योक्तावन्यदुक्तं भवतीत्याह--तथा हि इति । निपातसमुदायश्चायं
यस्मादित्यस्यार्थे सर्वत्र वर्त्तते ।
पुरुषार्थो हेयोपादेयहानोपादानलक्षण उपयोगो व्यापारः । सोऽस्यास्तीति तथा ।
एवं सति किं सिद्धमित्याह--तस्माद् इति । तच्छब्देनानन्तरोक्तो वाक्यार्थः
प्रत्यवद्र46ष्टव्यः ।
अभिधेयभागोऽङ्ग एकदेशः । सम्बन्धादिभागापेक्षया ।
सम्बन्धादीत्यादिग्रहणेनाभिधेयप्रयोजनयोः संग्रहः । 5b उक्तानीति उक्तानीव
उक्तानि प्रकाशितानि । न तु तत्राऽभिधाऽस्य सम्भविनी ।
अथाभिधेयप्रयोजनं यथा वाक्येन साक्षादुच्यते, तथा सम्बन्धादीन्यपि किन्नोच्यन्त
इत्याह--न त्विति । तुरवधारयति विशिनष्टि वा ।
अयमाशयः--यदि सर्वेपदार्थाः प्राधान्यमश्नुवीरन्, वाक्यमेव तदा विशीर्येतान्योन्याऽव्य
पेक्षाभावेनैकार्थाप्रत्यायनात् । ततो वाक्यमेकार्थमभिधेयतया उपादातुं कल्प्यते नानेकम् ।
यदि साक्षान्न समर्थम्, कथं नासमर्थम् ? अथासमर्थमेव । न साक्षात् समर्थमिति
तर्हि न वाच्यमिति । आह--एकं तु--इति । तुरत्रापिवद् ग्राह्यः । साक्षाद्वाच्यत्वेन
एकं व्यवच्छिनत्ति । दर्शयति प्रकाशयति, तत्र वाक्यस्याभिधाव्यापारासंभवात् । अत एवो
क्तानीवोक्तानीति तथाऽस्माभिर्व्याख्यातम्, अन्यथा तदनेन विरुध्येत ।
ननु यदि नामाभिधेयादिकं वाक्यस्य प्रकाश्यम्, नाभिधेयम् तथापि पदार्थेन तेनावश्यं तद् इति अभिधेयपदम् । 47व्युत्पाद्यत इति प्रयोजनपदम्48 । प्रयोजनं चात्र वक्तुः49 तथा हि--सर्वे प्रेक्षावन्तः प्रवृत्तिप्रयोजनमन्विष्य प्रवर्त्तन्ते । ततश्चाचार्येण50 प्रकरणं
भाव्यम् । तथा च कस्य किं वाचकं पदमित्याशङ् क्याह--तत्र इत्यादि--तेषु अभिधेयादिषु ।
11
प्रकरणकरणव्यापारस्य चिन्त्यते, श्रोतुश्च श्रवणव्यापारस्य ।
किमर्थं कृतम्, श्रोतृभिश्च किमर्थं श्रूयत इति संशये51 व्युत्पादनं प्रयोजनमभिधीयते । सम्यग्ज्ञानं
52व्युत्पद्यमानानामात्मानं व्युत्पादकं कर्त्तुं प्रकरणमिदं कृतम् । शिष्यैश्चाचार्यप्रयुक्तामात्मनो
व्युत्पत्तिमिच्छदिभः प्रकरणमिदं53 श्रूयत इति प्रकरणकरण-श्रवणयोः प्रयोजनं54 व्युत्पादनम् ।
तदिति द्वितीयान्तमेतत् । यतो व्युत्पाद्यत इत्यत्र लकारः प्रयोज्यकर्मणि विहितो न प्रयोज्य
क्रियाकर्मणीति । वाक्येऽपि लोके पद्यते गम्यतेऽनेनाऽर्थ इति व्युत्पत्त्या पदप्रयोगो दृश्यते ।
ततो व्युत्पाद्यत इति प्रयोजनपदमित्याह । अन्यथा पदवृन्दमिदं न पदम् । यद्वा व्युत्पाद्यत
इत्यत्रेति द्रष्टव्यम् ।
ननूक्तम्--प्रयोजनं पुरुषार्थसिद्धिः । तत् किं पुनश्चिन्त्यते । कथञ्च तदन्यथोच्यत
इत्याह--प्रयोजनं चात्र इति । चो वक्तव्यान्तरसमुच्चये । तदयमर्थः--नोक्तं प्रयोजनमिति
चिन्त्यते किन्तु गुणभूतार्थप्रयोजकपदस्य व्युत्पाद्यत इत्यस्य प्रयोजनम् । तद्व्युत्पत्तिः क्रियत
इति णिचः किं प्रयोजनमिति प्रश्ने तस्य प्रयोजनं चिन्त्यत इति यावत् ।
अत्र--इति गुणभूतार्थनिरूपणे प्रकरणकरणमेव व्यापारः ।
ननु कस्मादियमाशङ्का--वक्त्रा किमर्थं क्रियते, श्रोतृभिश्च किमर्थ श्रूयते इति । तौ
खल्वेवमेव प्रवर्त्तेयातामित्याशङ्क्याह--तथा हि इति यस्मात् ।
अथ कथमुभयोर्व्युत्पादनं प्रयोजनमुच्यते ? यद्यतो व्युत्पद्यते तस्य व्युत्पत्तिः प्रयोजनम् ।
यस्तु व्युत्पादयति तस्य व्युत्पादनमिति । नैतदस्ति । प्रयोजकव्यापारवती हि व्युत्पत्तिः
प्रयोजनमिष्टेत्युभयोर्व्युत्पादनमेव प्रयोजनम् । केवलमेकोऽन्यथा प्रवर्त्ततेऽन्यश्चान्यथा । कथं
नाम मद्व्यापारवशेन श्रोतृसन्तानवर्त्तिनी व्युत्पत्तिर्भूयादिति आचार्यः प्रवर्त्तते । अत एव
स्वप्रयोजकव्यापाराधिष्ठिता श्रोतृसन्तानवर्त्तिनी व्युत्पत्तिः कर्त्तुः प्रयोजनम् । एवमेवासौ
व्युत्पादको भवति । श्रोता तु कथं नामैतदाचार्यव्यापारवसे55न मत्संतानवर्तिनी व्युत्पत्ति
र्भूयादिति प्रवर्तते ।
अत एवाचार्यव्यापाराधिष्ठिता व्युत्पत्तिः श्रोतुरपि प्रयोजनम् । एवमेवासौ तद्व्युत्पाद्यो 56सम्बन्धप्रदर्शनपदं तु न विद्यते । सामर्थ्यादेव तु स प्रतिपत्तव्यः । प्रेक्षावता हि सम्यग्ज्ञानवव्युत्पादनाय प्रकरणमिदमारब्धवता अयमेवोपायो नान्यः
12
इति दर्शित एवोपायोपेयभावः प्रकरणप्रयोजनयोः सम्बन्ध इति ।
भवति । ततो व्युत्पादनं प्रयोजकव्यापारवशवर्त्तिनी व्युत्पत्तिर्द्वयोरपि प्रयोजनमिति इतिशब्दं
हेतुपदं कृत्वोपसंहरन्नाह--प्रकरणकरणश्रवणयोः प्रयोजनं व्युत्पादनमिति ।
ननु च णिचि कृते व्युत्पादनं कथमुभयोः प्रयोजनम्, इत्थमिति 6a प्रश्नविसर्जने
स्याताम् । तेनैव तावता दर्शितेन किं प्रयोजनम् ? सम्यग्ज्ञानव्युत्पत्तौ कथञ्चिन्निमित्त
मात्रात् दधिभोजनादेराचार्यस्यासाधारणकारणताप्रतिपत्तिः प्रयोजनम् । अयमर्थः--अस्ति
प्रयोजकव्यापारप्रदर्शने सम्यग्ज्ञानव्युत्पत्तावुपयोगित्वमात्रेण स्वास्थ्यादिना साम्यमाचार्यस्य
दर्शितं स्यात् । अस्ति चास्य तद्व्युत्पत्तावुपदेशलक्षणोऽसाधारणो व्यापारः । स कथं नाम
प्रतीयेतेति णिचा निर्देशः कृत इति ।
अथ भोजनादेस्तद्व्युत्पत्तौ साक्षाद्व्यापाराऽसम्भवाद् आचार्यव्यापारः प्रतिपत्स्यत इति
चेत् । नैतत् । एवं हि व्याख्यातृणामिदं प्रतिपादनकौशलं स्यान्न कर्त्तुरिति न्याय्यो णिचा
निर्देशः ।
ननूक्तम्--अभिधानस्य प्रयोजनं न निरूप्यत इति । तत् किमिदानीं तदेव व्याजान्तरेण
निरूप्यते ? सत्यम् । केवलं वाक्यार्थत्वेन न निरूप्यत इत्यभिसन्धिना तन्न निरूप्यते
इत्युक्तम् । न तु पदार्थत्वेनापीति किं विरोधः ?
सम्यग्ज्ञानं व्युत्पद्यमानानाम् इत्यसाधुरयं शब्दः--व्युत्पत्त्यर्थस्य पदेरकर्मत्वाद् इति
भागवृत्तिकारः । तन्नातिश्लिष्टम् ज्ञानार्थस्य पदेः सकर्मकस्य व्युत्पन्नः सङ्केतः इत्यादौ
बहुशः प्रयोगदर्शनात् । यथाऽवादि प्रमाणवार्त्तिके वार्त्तिककृता--
मनोऽव्यु57त्पन्नसंकेतमस्ति तेन स चेन्मतः प्रमाणवा० २. १४३ इति ।
यद्यभिधेयादयः पदार्थाः, सम्बन्धस्तर्हि कस्य पदस्यार्थ इत्याह--सम्बन्धेत्यादि ।
सामर्थ्याद् इति नाभिधाव्यापारेण । एवकारेण पदस्याप्यभिधामपोहति । तुशब्दः
केवलमित्यस्यार्थे ।
कथं सामर्थ्यादित्याह--प्रेक्षावता इति । उपायः कारणम् । उपेया सम्यग्ज्ञानव्युत्पत्तिः
साध्या । तयोर्भावः । यद्वशेनोपायोपेयज्ञानाभिधाने भवतः । एवकार उपायशब्दात् परो
द्रष्टव्यः । प्रतियोगिनोपायायोगस्यैव शङ्कितत्वात् । तदन्ययोगस्य च शङ्किष्यमाणत्वात् ।
अनर्थाशङ्कोपस्थापितान्ययोगनिरासे तु कर्त्तव्ये सामर्थ्यगम्यमवधारणान्तरं कार्यम् । न त्विदमेव
वाच्यम् । नान्य इति च नान्य एवेत्यवसेयम् ।
13
ननु च प्रकरणश्रवणात् प्राग् उक्तान्यपि58 अभिधेयादीनि प्रमाणाभावात् प्रेक्षावद्भिर्न
गृह्यन्ते । तत् किमेतैरारम्भप्रदेशे उक्तैः ?
सत्यम् । अश्रुते प्रकरणे कथितान्यपि न निश्चीयन्ते । उक्तेषु त्वप्रमाणकेष्वप्य
भिधेयादिषु संशय उत्पद्यते । संशयाच्च प्रवर्त्तन्ते । अर्थसंशयोऽपि हि प्रवृत्त्यङ्गं प्रेक्षावताम् ।
एवंरूपस्य सम्बन्धो व्युत्पाद्यत इति प्रयोजनाभिधानादेव दर्शितम् । तदुक्तम्--
अभिधेयादिप्रकाशनद्वारेणादिवाक्यं प्रवर्त्तकमिति असहमान आह--ननु च इति ।
निपातसमुदायश्चायं चोदयामि, अभिमुखो भव इत्यस्यार्थस्य द्योतकः । श्रवणानन्तरं तेषां
प्रतीयमानतया प्रमाणाभावासिद्धेः श्रवणात्प्राग् इत्याह । अयं पूर्वपक्षवादिनोऽभिप्रायः--श्रवणात्
प्राक् शब्दाश्रयेण प्रवर्त्तमानमनुमानमन्यद्वा शब्दस्यार्थनान्तरीयतायां प्रवर्त्तयितुमर्हति ।
असम्बन्धनिबन्धनायाः परोक्षार्थप्रतिपत्तेः प्रामाण्यायोगात् । सा च शब्दस्यासम्भविनी ।
आचार्यस्य चाप्तभावो दुर्बोधो येनाप्तोपदेशतया शब्दोऽर्थतथात्वं प्रत्याययेदिति । आरभ्यत
इत्यारम्भः प्रकरणम् । तस्य प्रदेशः एकदेशः । सामर्थ्यात् तदादिः ।
सच्चोद्ये सत्यम् इत्याह । यदि सत्यमिदं किमर्थं तर्हि 6b ते कथ्यन्त इति ? उक्तेषु
इति । तुरनुक्तपक्षादुक्तपक्षस्य विशेषं दर्शयति । अनेनैतदाह--साधकबाधकप्रमाणाभावे येनर्ते
ब्याहारात् प्रतिनियताधिकरणो यौक्तः संशयो भवितुमर्हतीति । अपि न्यायतः सम्भावनां
दर्शयति, अतिशयं वा । अन्यथा किं सप्रमाणकेष्वपि संशयो जायते येनापिश्रुतिः संगच्छेत् ।
ननु प्रवृत्तिफलमादिवाक्यं, प्रवृत्तिश्चेन्नास्ति किं संशयेनोत्पादितेनापीत्याह--संशयाच्च
इति । चो यस्मादर्थे ।
अथ ये तावन्मदाः श्रद्धया वाऽऽचार्यमुपसन्नास्ते तद्वचनादर्थं निश्चित्यैव प्रवर्त्तमाना न
संशयात्प्रवर्त्तन्ते । येऽपि तद्विपरीताः संशेरते तेषामपि न संशयात्प्रवृत्तिः । प्रवृत्तौ वा
प्रेक्षावत्त्वहानिरित्याशङ्क्याह--अर्थसंशयोपीति । न केवलमर्थनिश्चय इत्यपिशब्देनाह । शक्य
निश्चये हि निश्चयमन्तरेण प्रवर्त्तमानाः प्रेक्षावत्ताया हीयेरन् । यत्र त्वर्थसंशयेनार्थितया प्रवर्त्त
मानाः, नोपालम्भमर्हन्तीति भावः । यदि च युक्ता द्वितीयाकारानुप्रवेशेन संशयानस्य न
क्वचित्प्रवृत्तिः, तर्हि न कस्यचिद् वचनात् क्वचित् प्रवर्त्तितव्यमिति भूयान् व्यवहारो
विलुप्येत ।
ननु निवृत्तिरनर्थनिश्चयनिबन्धना । अनर्थनिश्चयश्च प्रमाणात् । तच्चेह नास्ति । अनर्थं संशयोऽपि60 निवृत्त्यङ्गम् । अत एव शास्त्रकारेणैव61 पूर्व सम्बन्धादीनि युज्यन्ते वक्तुम् । 62व्याख्यातृणां हि वचनं63 क्रीडाद्यर्थमन्यथापि सम्भाव्यते । शास्त्रकृतां तु प्रकरणप्रारम्भे
निवृत्तीतरस्तु प्रवृत्तिव्यातिरेकी प्रकारो नास्ति । ततोऽथत्नसिद्धा प्रवृत्तिः । तत्किं तदर्थेनादि
14
न विपरीताभिधेयाद्यभिधाने प्रयोजनमुत्पश्यामो नापि प्रवृत्तिम् । अतस्तेषु संशयो युक्तः ।
अनुक्तेषु तु प्रतिपत्तृभिर्निष्प्रयोजनमभिधेयं संभाव्येताऽस्य प्रकरणस्य काकदन्तपरीक्षाया इव64,
अशक्यानुष्ठानं वा ज्वरहरतक्षकचूडारत्नालङ्कारोपदेशवद्, अनभिमतं वा प्रयोजनं
मातृविवाहक्रमोपदेशवद्, अतो वा प्रकरणात् लघुतर उपायः प्रयोजनस्य, अनुपाय एव वा
प्रकरणं सम्भाव्येत ।
वाक्येनेत्याह--अनर्थेत्यादि । न केवलमनर्थनिश्चयोऽपीत्यपि शब्दः ।
यद्यवश्यं वक्तव्यान्यभिघेयादीनि तर्हि व्याख्यातार एव तानि वक्ष्यन्ति । तत्किं
शास्त्रकृतो व्याहारेणेत्याह--शास्त्रकारेणैव न व्याख्यातृभिः ।
अथोच्यते--प्रवृत्त्यङ्गत्वाच्च व्याचक्षते । अभिधेयाद्यनभिधाने तु प्रवृत्तेरेवासम्भवात्कथं
सम्भविनो व्याख्यातारो येनाशङ्क्य तेषां व्याहारमयं निरस्यतीति । अत्रोच्यते । न सर्वथाऽ
भिधेयादिप्रकाशनं केनचिन्न कर्त्तव्यमेवेति चोद्यं प्रवृत्तम्, किन्त्वादिवाक्यं तदर्थं न
कर्त्तव्यमित्यभिसन्धिना । तत्र ये तावत् साक्षादाचार्योपसन्नारतेषां तद्वचनादेव तत्प्रतीतौ
प्रवृत्तिज्ञानयोः सम्भवात् सम्भवि व्याख्यातृत्वम् । तेभ्योऽपि तदुपसन्नानामिति किमवद्यम् ?
ननु च न शास्त्रकृद्वचनमपि प्रसह्य प्रवर्त्तयति, किं तर्हि प्रयोजनाद्यभिधानेन प्रवृत्ति
विषयोपदर्शनात् । तच्च व्याख्यातृवचनेऽपि सम्भवतीति किमुच्यते शास्त्रकारेणैवेत्यत
आह--व्याख्यातॄणां हि इति । हिर्यस्मादर्थे । शास्त्रकारेष्वपीदं समानमित्याह--शास्त्र
कृतामिति । तुना व्याख्यातृभ्यः शास्त्रकृतां वैधर्म्यमाह । विपरीतं च तदभिधेयाद्यभिधानं
चेति विग्रहः । अथवा विपरीतं च तदसत्यत्वादभिधेयञ्चाभिधेयतया प्रकाशनात् । तस्या
भिधानमिति विग्रहीतव्यम् । उत्पश्याम उत्प्रेक्षामहे । अनेनैतदाह--तेषामपि तथाभिधाने
किमस्माकं बाधकं प्रमाणम् ? केवलमेषां महीयसाऽऽशयेन शास्त्रं प्रणेतुमिच्छतां परार्थ
प्रवृत्तानां नैतत्सम्भावयाम इति ।
प्रकरणस्य प्रारम्भ आदौ । एतच्च प्रयोजनाद्यभिधाननियतसन्निधेर्यथाभूतार्थचिन्ता
विधानविषयस्य कालस्य निर्देशो न तु प्रकरणस्य 7a मध्येऽवसाने वा तत् सम्भवति
सप्रयोजनं चेति ।
65
15
एतासु66 चानर्थसम्भावनास्वेकस्यामप्यनर्थसम्भावनायां न प्रेक्षावन्तः प्रवर्तन्ते ।
अथयद्येवंविधा प्रवृत्तिः शास्त्रकृतां दृश्यते त्वयाऽप्यस्य किं न सम्भाव्यत इत्याह—
नापि इति । अपिरप्रयोजनापेक्षया समं प्रवृत्तिदर्शनं समुच्चिनोति । तदेवोत्पश्याम इति
सम्बध्यमानमिह पश्याम इत्यास्यार्थे सम्बद्ध67व्यम् । पश्याम इति वाऽध्याहार्यम् ।
अनेनैतदाह--तथापि सम्भावयामो यदि तेषामीदृशी पश्यामो न त्वेवमिति । अतो हेतोस्तेष्वभि
धेयादिषु यद्वा तेषु शास्त्रकारेषु वक्तृषु सत्सु तदुक्तेष्वभिधेयादिष्विति प्रकरणात्संशयो
ऽर्थोन्मुख इति द्रष्टव्यम् ।
ननु सत्यप्यर्थसंशयेऽर्थित्वाभावे प्रवृत्तिर्नास्ति । तन्निमित्ता तु सा संशयमात्रादपि
भवति । तन्मात्रञ्च साधकबाधकविरहादप्यर्थे सिद्धम् । तत् किं तदुत्पादार्थेन वाक्येने
त्याह--अनुक्तेषु--इति । तुरुक्तावस्थाया अनुक्तावस्थां भेदवतीं दर्शयति ।
निर्गतं प्रयोजनं यस्मान्निष्कान्तं वा प्रयोजनात् । काकदन्ता ह्यभिधेयाः । ते च न
क्वचित् पुरुषार्थ उपयुज्यन्ते । सप्रयोजनं वाभिधेयमशक्यानुष्ठानं सम्भाव्येत । किंवदित्याह—
ज्वरेत्यादि । ज्वरं हरतीति ज्वरहरः । तक्षकाख्यस्य नागराजस्य चूडा शिखा । तस्या
रत्नं रतिं तनोतीति विशिष्टं वस्तु । तेनालङ्करणम् अलङ्कारः । ज्वरहरश्चासावेवंभूतश्चेति
विग्रहः । स उपदिश्यते येन ग्रन्थेन तद्वत् ।
सतोर्वा सप्रयोजनशक्यानुष्ठानत्वयोरस्य प्रयोजनमनभिमतमेवास्तिकानां सम्भाव्येत ।
मातुर्विवाहस्य क्रमः परिपाटिरुपदिश्यते येन पारसीकशास्त्रेण तद्वत् । पारसीकशास्त्रेण हि
मृते पितरि माता प्रथममग्रजेन पुत्रेण परिणेतव्या, तदनु तदनुजेनेत्युपदिश्यते ।
अतो वा प्रकरणाल्लघुरल्पग्रन्थः प्रयोजनस्य सम्यग्ज्ञानव्युत्पत्तिलक्षणस्य । अनुपाय
एव अनिमित्तमेव ।
चत्वारोऽपि वाशब्दाः पूर्वपूर्वापेक्षया पक्षान्तरमवद्योतयन्ति । सम्भावना च सर्वा
वर्णिताऽनर्थोन्मुखा प्रतिपत्तिः युक्त्या द्वितीयाकारानुप्रवेशाच्च संशयपदाभिलाप्या प्रत्येतव्या,
सर्वत्रेवाकारान्तरस्य प्रतियोगिनः समुदाचारतोऽदर्शनात् । तथाविधाऽनर्थसम्भावनायाश्च
बीजमिदमस्त्यादिवाक्ये-यद्यस्य प्रयोजनादिकं भवेद् बहुभिरन्यैरिवानेनाप्यादावुक्तं भवेत् । न
चानेन किञ्चिदवादीति मतिः ।
कामममूरनर्थसम्भावना भवन्तु का नो हानिरित्याह--एतास्विति । न केवलं सर्वा
इत्यपिशब्देनाह । प्रयोजनाद्यनभिधान इव यद्यभिधानेऽपि भवन्ति तास्तदा किमभिधेयादिभि
रभिहितैरपीत्याह--अभिधेयादिषु इति । तुरुक्तेषु इत्यस्यानन्तरं द्रष्टव्यः, अनुक्तपक्षाच्च
विशेषस्य द्योतकः ।
अथ कथमनयोरर्थानर्थसम्भावनयोर्विरोधो यतः सम्भावना संशय उच्यते । स चोभयां अभिधेयादिषु68 तूक्तेष्वर्थसंभावना70 अनर्थसम्भावनाविरुद्धा उत्पद्यते । तया71 प्रेक्षावन्तः
16
प्रवर्तन्ते इति72 प्रेक्षावतां प्रवृत्तन्यङ्गमर्थसम्भावनां कर्तुं सम्बन्धादीन्यभिधीयन्त इति स्थितम् ।
शावलम्बन इत्यन्योन्यस्यामन्याकारोऽस्तीति कुतः सहानवस्थानम् । उच्यते । एकस्या
मनर्थांकार उद्रिक्तोऽनुभूयते, युक्तेस्तु द्वितीयाकारानुप्रवेशः । इतस्यां नू 73 द्रिक्तोऽ7b
र्भाकारोऽनुभूयते युक्तेस्त्वनर्थाकारानुप्रवेश इत्युभयोरप्यन्योन्यवैपरीत्येनानुभवाद् कथ
मविरोधः ।
भवत्वेवं तथापि कथमस्याभिधानेऽनर्थाशङ्का निरस्तेति चेत् । उच्यते । पुरुषार्थ
सिद्धिरूपाभिधेयप्रयोजनाभिधानेनाऽऽदिमाऽनर्थसम्भावना निरस्ता । अभिधेयतत्प्रयोजनयो
रूपनिरूपणेन च द्वितीयतृतीये निरस्ते । अन्तिमाऽपि सामर्थ्यगतिसम्बन्धप्रतिपादना
न्निरस्ता । तुरीयां तु परमविवेकशालिन आचार्यस्य प्रकरणारम्भसामर्थ्यान्निरस्यते । तथाहि
न समानेऽप्युपायान्तरे सम्भवति महतो महानयं प्रेक्षापूर्वकारी प्रकरणमीदृशमारभते, किमङ्ग
पुनर्लघूनीति ।
अथ स्यात्--समसमयसम्भवी देशान्तरवर्ती च कश्चिदेतदग्रतो लघूपायान्तरकाकः 74 स्यात् । तत्कथं तत्प्रणीतलघूपायान्तरनिरासः ? अत्रापि तत्प्रेक्षावत्तैव महती निबन्धनम् ।
प्रेक्षापूर्वकारित्वादेव तथाभूतात्तेनास्मिन्नार्यावर्तेऽन्यत्र वा लोके नेदानीन्तनेनैतदर्थं प्रकरणं
प्रणीतमिति बहुधाऽनुसर्त्तव्यम् । अनुसृत्य दृष्ट्वा तल्लघुरुपाय इति च निश्चित्येदं प्रणेतुमुचितं
नान्यथेति । सर्वत्रैव प्रकरणे सत्यादिवाक्ये लघूपायान्तरनिरासे गतिरियमेव । नहि अन्यत्रा
प्यभिधेयतत्प्रयोजनादिप्रकाशनमन्तरेण लघूपायान्तरनिरासाभिधानमस्तीति किं नानुमन्यते ?
यद्येवमितरासामप्यनर्थसम्भावनानामेवमेवास्तु निरासस्तत्किमादिवाक्येन ? नैतत् ।
नहि सूचीप्रवेशैत्येव मूष75 लप्रवेशः । तथाहि--असत्यादिवाक्ये प्रेक्षापूर्वकारिप्रयुक्तत्वमेव
प्रकरणस्य न शक्यते कल्पयितुम, प्रत्युताप्रेक्षापूर्वकारिप्रयुक्तत्वमेव शक्यकल्पनम् । दृश्यन्ते
हि प्रेक्षापूर्वकारिणः प्रकरणादौ सर्वत्र प्रयोजनाद्यभिधायकमादिवाक्यं प्रणयन्ते76 । न चानेना
दिवाक्यं तदर्थमकारि । तस्मान्नायं प्रकरणकारः प्रेक्षापूर्वकारीतिसङ्कल्पादु77पाददीति 78 ।
ननु च प्रवृत्त्यर्थोऽयं प्रयासः । सा चेन्नास्ति किं तयोत्पन्नयापीत्याह तया--इति ।
यद्यर्थसम्भावना प्रकरणे पुरुषस्य प्रवर्त्तयित्री तर्हि किमभिधेयाद्यभिधीयत इत्याह--इति—
इति । यस्मादर्थसम्भावनया प्रवर्त्तन्ते इतिस्तस्मादर्थसम्भावनां कर्त्तुम् । किम्भूतां ?
प्रवृतेरङ्गं निमित्तम् । अङ्गादिशब्दानामसति बहुव्रीहौ परलिङ्गाग्रहणात्स्वलिङ्गेन निर्देशः ।
इतिरेवमर्थे स्थितं निश्चितम् ।
17
अविसंवादकं ज्ञानं सम्यग्ज्ञानम् ।
79लोके च पूर्वमुपदर्शितमर्थं प्रापयन् संवादक उच्यते । तद्वज्ज्ञानमपि स्वयं 80प्रदर्शितमर्थं
प्रापयत् संवादकमुच्यते । 81प्रदर्शिते चार्थे प्रवर्त्तकत्वमेव प्रापकत्वम्, नान्यत् । तथा हि--न
एवमनेन प्रवन्धेन सम्यग्ज्ञानेत्यादिवाक्यस्य समुदायार्थं व्याख्यायावयवार्थमिदानीम्
अविसंवादकम् इत्यादिना व्याचष्टे ।
अत्रायं पूर्वपक्षः । किमिदं सम्यक्त्वं ज्ञानस्याभिप्रेतम् ? यद्योगात्सम्यग्ज्ञानमुच्यते ।
यद्येवं वस्तुतत्त्वग्रहणं सम्यक्त्वम्, अथापि गृहीतवस्तुप्रापणम् ? उभयथाऽपि अनुमानमवस्तुग्रहणा
दसम्यग्ज्ञानम् । अगृहीतप्रापणाद् वा सम्यग्ज्ञानत्वे जलज्ञानमप्युपदर्शितमरीचिकाः प्रापयतीति
न किञ्चित्सम्यग्ज्ञानं न स्यादिति ।
सिद्धान्तवाद्यप्यमीषां पक्षाणामनभ्युपगमेन निरासं मन्यमानः--अविसंवादकत्वं सम्यक्त्वं
विवक्षितमिति 8a दर्शयति । अविसंवादकं संवादकमुच्यते । विशब्दो हि संवादकप्रतिषेधे
वर्त्तते । तत्प्रतिषेधस्य विधिरूपत्वात् संवादक एवावतिष्ठत इति संवादकार्थोऽविसंवादकशब्दः ।
तदयमर्थः--अविसंवादकं प्रवृत्तिविषयवस्तुप्रापकं सम्यग्ज्ञानमिति ।
स्यादेतत्--वृद्धव्यवहारो हि शब्दार्थनिश्चयभूमिः । तत्र च संवादकशब्दो नोपदर्शितार्थ
प्रापके वर्त्तते । किं तर्हि ? सत्यवादिनि । न च ज्ञानस्य ताद्रूप्यमस्ति । तत् कुतस्तत्र
संवादकशब्द इत्याह--लोके च--इति । चो यस्मादर्थे अपिशब्दार्थे वा । लोके व्यवहर्त्तरि
जने । अयमाशयो यथा लोके सत्यवादिशब्दप्रवृत्तिनिमित्तस्योपदर्शितार्थप्रापणस्य पुरुषे
सम्भवात्संवादकशब्दः प्रवर्त्तते, तथा ज्ञानेऽपि तत्सम्भवादिति ।
अथोच्यते नोपदर्शितार्थप्रापणनिमित्तकः पुरुषे संवादकशब्दः किन्तु प्रतिज्ञातार्थप्रापण
निमित्तकः । तत् कथमिह निमित्तसम्भव इति ? तदवद्यम् । तत्रापि प्रतिज्ञयोपदर्शनस्योप
लक्षणात् । तदेव तूपदर्शनं क्वचिद् वचनेन, क्वचिदध्यवसायेना82... ...पि क्वचिद् वस्तुप्रति
भासपूर्वकेण क्वचिदन्यथा वृत्तेनेति विशेषः । संवादकशब्दःप्र83वृत्तिनिमित्तं तु सर्वत्र
समानमिति ।
प्रापयन् इति 84लक्षणहेत्वोरिति हेतौ शतुर्विधानात् प्रापणादित्यर्थः । एवमुत्तरत्रा
प्यवसेयम् ।
18
ज्ञानं जनयदर्थं प्रापयति, अपि त्वर्थे पुरुषं प्रवर्त्तयत् प्रापयत्यर्थम् । प्रवर्त्तकत्वमपि प्रवृत्तिविषय
प्रदर्शकत्वमेव । न हि पुरुषं हठात् प्रवर्त्तयितु शक्नोति 85विज्ञानम् ।
ननूपदर्शितार्थप्रापकं संवादकमिति ब्रुवता ज्ञानस्यैकस्योपदर्शकत्वप्रापकत्वे प्रतिज्ञाते ।
प्रवृत्तिमन्तरेण प्राप्तेरनुपपत्तेरर्थतः प्रवर्त्तकत्वमपि । न चैकस्यैते व्यापाराः सम्भवन्ति ।
यतोऽन्यत् प्रदर्शति येन जानीते, अन्यत्प्रवर्त्तयति यदनन्तरं प्रवृत्तिमाचरति, अन्यच्च
प्रापयति यतः प्राप्त्याभिसम्बद्ध्यते पुरुष इत्याशङ्क्याह--प्रदर्शिते च--इति । चो यस्मादर्थे ।
प्रवर्त्तकत्वमेव प्रापकत्वं ब्रुवतोऽयमभिप्रायः--यद्यप्यर्थं साक्षात्कृत्यानुरूपं निश्चयं
जनयत्प्रदर्शकं किञ्चित्, अपरं प्रदर्शयद् वा बाह्यायाः प्रवृत्तेः कारणं भवत्प्रवर्त्तकम्, इतरत्प्र
वर्त्तनद्वारेण बाह्यायाः प्राप्तेर्निमित्तं भवत् प्रापकं व्यपदिश्यते, तथापि स एव बाह्यप्रवृत्ति
कारणभावः प्रवर्तयितृत्वादिप्रयोजकव्यापाररूपो ज्ञानस्य पुरुषप्रेरणेनार्थजननेन च प्रवर्त्तन
प्रापणयोरसम्भवेन प्रदर्शनादन्यो नोपयुज्यत इति वस्तुतः सर्वस्यैव ज्ञानस्य निश्चयानुगतस्याधि
गमान्नापरौ प्रवर्त्तन-प्रापणव्यापारौ । अत एव तत्राद्यमेव ज्ञानं प्रमाणं व्यवस्थाप्यते । ततो वस्तुतः
प्रदर्शकत्वादीनामभेदः, व्यावृत्तिनिबन्धनस्तु भेदोऽस्त्येव । अत एवैते प्रदर्शक-प्रवर्त्तक-प्रापकशब्दाः
कृतकत्वानित्यत्वादिवन्न पर्याया इति ।
स्यान्मतम्--किं पुनः प्रयोजनं येन प्रर्वत्तनात् नाऽपरः प्रापणव्यापारो ज्ञानस्य, अधि
गमाच्च नान्यत्प्रवर्त्तन प्रयत्नेन साध्यते ? यद्युत्तरज्ञानस्य प्रामाण्यनिषेधार्थम्, तदा गृहीत
ग्राहितैव तन्निषेत्स्य8b तीति किं तदर्थेन प्रयासेनेति ? अत्रोच्यते । यदि प्रवर्त्तयितृत्वं प्रापयि
तृत्वं च प्रदर्शकत्वात्परमार्थतोऽन्यत् स्यात् तदा गृहीतग्राहितैव न शक्यते प्रतिपादयितुमिति केन
प्रामाण्यं निषेध्येत ? तथा हि न तज्ज्ञानं गृहीतं गृह्णाति, अपि तु गृहीते प्रवर्त्तयति ।
अपरं तु गृहीतं प्रापयति । तथाकारिणोश्च भिन्नोपयोगत्वात्प्रामाण्यं कथमपाक्रियते ? यदा
तु प्रवर्त्तनान्नापरः प्रापणव्यापारो ज्ञानस्य प्रदर्शनाच्च नान्यत्प्रवर्त्तनम्, प्रथमेनैव च प्रत्यक्षा
नुमानक्षणेनार्थक्रियासमर्थो वस्तुसन्तानः प्रवृत्तिविषयीकर्त्तुं निश्चयात् शक्यते, तदोत्तरेषां
तत्सन्तानभाविनामभिन्नयोगक्षेमतया प्रामाण्यमपास्यत इति ।
एतेन तदपि प्रत्युक्तं यत् केनचिदभ्यधायि धर्मोत्तरे--यद्युपदर्शकत्वमेव प्रापकत्वं तर्हि
यदुक्तं उपदर्शितमर्थं प्रापयत् संवादकमिति तस्यायमर्थः स्यात्--उपदर्शितमुपदर्शयदिति । न
चैतद् युक्तमर्थभेदाभावात् । तथा हि यदि परमार्थतोऽर्थाभेद उच्यते तदा न किञ्चिदवद्यम् ।
अथ तदापि नैवं वक्तव्यः । अत्यल्पमिदमुच्यते । कृतकत्वमनित्यत्वं प्रतिपादयतीत्यपि न
वक्तव्यम्, अर्थाभेदादित्यपि किं नोच्यते ? अथ शब्दप्रवृत्त्यपेक्षयाऽर्थाभेद उच्यते तदाऽसावसिद्धो
व्यावृत्तिभेदस्य दर्शितत्वात् । तेनायमर्थः--उपदर्शितं साक्षात्कृत्य जनितानुरूपनिश्चयमर्थं
प्रवर्त्तनद्वारेण बाह्यायाः प्राप्तेः साक्षाद् योग्यतया वा निमित्ततां गच्छत् संवादकमिति ।
वास्तवस्तु प्रवर्त्तकप्रापकयोः प्रमेयाधिगतिलक्षणात्प्रदर्शनव्यापारादन्यो व्यापारो नास्तीति
न प्रवर्त्तयितृत्वं प्रापयितृत्वं च प्रयोजक-व्यापारोऽनयोर्भिन्नः इति ।
19
86अत एव 87चार्थाधिगतिरेव प्रमाणफलम् । अधिगते चार्थे प्रवर्तितः पुरुषः प्रापित
श्चार्थः । तथा च सत्यर्थाधिगमात् समाप्तः प्रमाणव्यापारः । 88अत एव 89चानधिगतविषयं
प्रमाणम् । येनैव हि ज्ञानन प्रथममधिगतोऽर्थः, तेनैव प्रवर्त्तितः पुरुषः, प्रापितश्चार्थः । तत्रैव
चाथ90 किमन्येन ज्ञानेनाधिकं कार्यम् ? 91अतोऽधिगतविषयमप्रमाणम् ।
स्यान्मतम्--यद्यधिगतिरेवोत्तरेषामपि फलं स्यात् तदोपयोगान्तराभावाद् भवेदप्रामाण्यं
यावता प्रवर्त्तकस्य प्रवृत्तिः फलम्, प्रापकस्य प्राप्तिरिति फलभेदनिष्पत्तेर्भिन्नो व्यापार इत्याह—
अत एव--इति । यतो नार्थजननद्वारेणार्थप्रापणं ज्ञानस्य, यतश्च न प्रसह्य प्रेरणेन प्रवर्त्तनम्,
अत एवास्मादेव कारणादर्थस्याधिगतिः परिच्छित्तिः फलम्, न प्रवृत्त्यादि ।
ननु तत् प्रमाणस्य फलं व्यवस्थाप्यते, यस्मिन् सति तद्व्यापारः परिसमाप्यते । न
चाधिगतावपि प्रवृत्ति-प्राप्त्योरभावे स परिसमाप्यत इत्याह--अधिगते च--इति । चो
यस्मादर्थे । यस्माद् येनार्थः सम्यग्ज्ञानेन दर्शितस्तत्र तेनाप्रवर्त्तितोऽपि पुरुषः प्रवृत्तियोग्योप
दर्शनात्, तद्गतस्य च व्यापारान्तरस्याभावात्प्रवर्त्तित इत्युच्यते । सत्यर्थित्वे प्रवर्त्तनमेव ।
ज्ञानेन तावत्प्रवृत्तियोग्यः कृत इति यावत् ।
अस्तु पुरुषस्तथा प्रवर्त्तितोऽर्थस्तु न प्रापितः, तथा च व्यापारान्तरमन्याधीनमस्तीत्याह
प्रापित इति । चः पूर्ववत् । अर्थोऽप्यसावप्राप्तोऽपि शक्यप्राप्तिको दर्शित इति प्रापित
उच्यते । अत एव प्रापणशक्तिरेव ज्ञानस्य प्रामाण्यम् । सा च प्राप्यादर्थादात्मलाभनिमित्तेति,
यतो 9a येन प्रवर्त्तते तदपि प्रापणयोग्यमेव । शक्तिनिश्चयस्त्वर्थक्रियानिर्भासस्य सर्वस्यानु
मानस्य च स्वत एव । प्रवर्त्तकाध्यक्षस्य च कस्यचित्स्वत एव यदभ्यासेन परितो निरस्तविभ्रमा
शङ्कम्, यन्निद्राद्यनुपप्लुतं सद् आसन्नदेशमनाशङ्क्यव्यञ्जकाधीनाऽन्यथाभिव्यवित च वस्तु
गृह्णाति । तद्रूपसंवेदनादेव सत्यार्थं निश्चीयते । कस्यचित्तु परतोऽर्थक्रियानिर्भासात्मकात्
स्वतः प्रमाणादन्यतो वा यतः कुतश्चिन्नान्तरीयकार्थदर्शनान्मध्यकालवर्त्तिभ्रान्तिशङ्कापनोदेन
निश्चीयत इति । प्रापितश्चार्थमिति क्वचित्पाठः । स तु युक्तरूपः प्रवृत्तियोग्यीकरणात्प्रवर्त्तितः
प्राप्यार्थोपदर्शनात्प्रापितोऽर्थमित्येकवाक्यतयोपदर्शनात् । एवमुत्तरत्राऽप्येष एव पाठोऽवदात
इति । तथा च सति तस्मिंश्च प्रकारे सति । समाप्तः पर्यवसानं गतः । तस्मादधिगमस्य
फलत्वं युक्तमिति भावः । यतोऽधिगमादन्यत्फलं नोपपद्यते, जाते च तस्मिन् समाप्यते व्यापारः,
अतोऽस्मात्कारणाद् अनधिगतो ज्ञानान्तरेणापरिच्छिन्नो विषयोऽर्थो यस्य तत् प्रमाणं भवति ।
ननु अधिगतविषयमुदीचीनं ज्ञानं तत्रार्थे किञ्चिदधिकमादधानं प्रमाणं भविष्यति । न हि 92तत्र योर्थो दृष्टत्वेन ज्ञातः स प्रत्यक्षेण प्रवृत्तिविषयीकृतः93 । यस्माद् यस्मिन्नर्थे
विषयभेदादेव प्रमाणभेदोऽपि तूपयोगभेदादपीत्याह--येनैव--इति । हिर्यरमात् । पूर्वाद् योग्य
तया प्रवर्त्तितः प्रापित इति चोक्तं तत्रैव पूर्वज्ञानादधिगते किमधिकमतिरिक्तं कार्यं कर्त्तव्यम् ?
20
प्रत्यक्षस्य साक्षात्कारित्वव्यापारो विकल्पेनानुगम्यते94 तस्य प्रदर्शकं प्रत्यक्षम्; तस्माद् दृष्टतया
ज्ञातः95 प्रत्यक्षदर्शितः । अनुमानं तु 96लिगदर्शनान्निंश्चिन्वत्98 प्रवृत्तिविषयं दर्शयति ।
न किञ्चित् । आद्येनैव कर्त्तव्यस्य कृतत्वादिति भावः । अतोऽस्माद् हेतोरिधगतषियं तदधि
गन्तृसजातीयं विजातीयं वा न प्रमाणम् । तेन प्रमाणसम्प्लवो नाम नास्त्येवेति प्रकाशितम् ।
ननु च प्रबन्धेनानेन प्रवृत्तिविषयोपदर्शकं सम्थग्ज्ञानमिति दर्शितम् । वक्ष्यमाणया नीत्या
प्रत्यक्षानुमाननामनी द्वे सम्यग्ज्ञाने । तत्र यदि समानमनयोः प्रवृत्तिविषयोपदर्शनं तदिदं
प्रत्यक्षं सत्प्रमाणम्, इदमनुमानं सदिति भेदो न स्यात् । अतस्तदनयोरसमानविषयत्वमेव
कथितव्यम् । एवं च कस्य कथं तदिति वक्तव्यमित्याह--तत्र इति । तयोः प्रत्यक्षानुमानयो
र्मध्ये दृष्टत्वेन ज्ञातो निश्चितः । यदि ज्ञात इत्येव क्रियते तदाऽनुमेयोऽपि निश्चितः सन्
प्रत्यक्षेण प्रवृत्तिविषयीकृतः प्रसज्येतेति दृष्टत्वेनेति कृतम् । अथ यो दृष्ट इति किं नोच्यते ?
नोच्यते । क्षणिकत्वादेरपि दृष्टत्वेन प्रत्यक्षविषयत्वादनुमानावताराभावप्रसङ्गादिति ।
ननु न प्रत्यक्षस्य निश्चयनाद् ग्रहणमपि तु प्रतिभासात् । तत्किमुच्यते ज्ञातो निश्चित
इत्याशङ्क्याह--यस्माद् इति । विकल्पेनानुगम्यतेऽनुस्त्रियतेऽध्यवसीयते पश्यामीत्याकारेण ।
तस्माद् दृष्टत्वेन ज्ञात इत्युच्यते । विकल्पेनेति तत्पृष्ठभाविनाऽनुरूपेणेति द्रष्टव्यम् । अननु
रूपविकल्पानुगतव्यापारस्य तत्राप्रामाण्यात् क्षणिकत्व इव । एवं ब्रुवतश्चायमभिप्रायः—
सांव्यवहारिकस्य प्रमाणस्येदं लक्ष9b णमुच्यते । ततो वस्तुवृत्त्या प्रकाशमानमप्यनुरूप
विकल्पेनाविषयीकृतं सदप्रतिभासमानं नातिशेते, व्यवहारायोग्यत्वात् । एवं तद्ग्राहकमपि
तथाविधविकल्पेनाननुगम्यमानव्यापारं व्यवहारयितुमपर्याप्तं सत् तृणस्यापि कुब्जीकरणेऽसमर्थ
मग्राहकं नातिवर्त्तते । तेन यदुक्तं प्रदर्शकत्वमेव प्रवर्त्तकत्वादीति, यच्चोक्तम्--अधिगतिरेव
फलमिति तदनुरूपनिश्चयानुगतव्यापारमनुरूपनिश्चयानुगताविति द्रष्टव्यम् । एवं यत्र यत्रोच्यते
प्रत्यक्षं वस्तूपदर्शकं वस्तुग्राहकमित्यादिना शब्देन तत्र सर्वत्रानुरूपनिश्चयानुगतव्यापारमेव
बोद्धव्यम् ।
अथैवं सति विकल्पस्यापि प्रामाण्यं प्रसज्येतेति चेत् । एतत्स्वयमेव धर्मोत्तरेणाशङ्क्य तथा च प्रत्यक्षं प्रतिभासनं नियतमर्थं दर्शयति । अनुमानं च लिङ्गसम्बद्धं नियतमर्थं प्राप्तुं शक्यमर्थमादर्शयत्102 प्रापकम् । प्रापकत्वाच्च प्रमाणम् ।
निराकरिष्यत इति नेहोच्यते । यदि प्रत्यक्षमेवं प्रवृत्तिविषयमुपदर्शयति अनुमानमप्येवं तदा
99
21
दर्शयति । अत एते 100नियतस्यार्थस्य प्रदर्शके । तेन ते प्रमाणे । नान्यद्विज्ञानम् ।101
कथं भेदव्यवस्थेति ? आह--अनुमानं तु--इति । तुः प्रत्यक्षादनुमानस्य वैधर्म्यमाह । प्रत्यक्षं न
स्वयं निश्चिन्वत् प्रवृत्तिविषयं दर्शयति किन्तु निश्चाययत् । अनुमानं तु स्वयमेव निश्चिन्वदिति ।
कथमप्रतिभासमानं निश्चेतुमीष्टे तदित्याह--लिङ्गदर्शनाद् इति । लिङ्गस्य साध्या
विनाभूतस्य धूमादेर्दर्शनात् । दर्शनं च स्वरूपग्रहणपूर्वकं सर्वत्रेदं साध्याविनाभूतमिति ज्ञानम्,
सर्वत्र साध्याविनाभूतमिति स्मरणपुरःसरं वा क्वचित् स्वरूपग्रहणमिह विवक्षितम् ।
ननु च प्रत्यक्षानुमानज्ञानवदन्यस्यापि ज्ञानस्य यथा प्रवृत्तिविषयप्रदर्शनं तथा किं न
प्रदर्श्यते ? अथाप्रामाण्यान्नोपदर्श्यते । कथं पुनरप्रामाण्यमन्यस्य ? अनियतप्रवृत्तिविषयप्रदर्शक
त्वादिति चेत् । तर्हि प्रत्यक्षानुमानयोरपि तथात्वेन प्रामाण्यं न स्यादित्यागूर्य ज्ञानान्तराद
भेदमनयोर्दर्शयन्नाह--तथा च--इति । तस्मिश्च प्रत्यक्षस्य स्वव्यापारानुसारिविकल्पोपजननेन
निश्चयनात्, प्रवृत्तिविषयप्रदर्शनप्रकारे103... ... ...मन्यदा लिङ्गदर्शनात्स्वयं निश्चयेन प्रवृत्ति—
विषयप्रदर्शनप्रकारे । प्रत्यक्षं ज्ञानं प्रतिभासमानं स्वरूपेण प्रकाशमानं नियतमर्थक्रियाक्षमे भावरूप
एव व्यवस्थितं दर्शयति । तेन नानर्थं नाप्यनियतं दर्शयतीत्याकूतम् । अनुमानं च नियतमर्थं
दर्शयति । चः प्रत्यक्षेण सममनुमानं नियतप्रदर्शकत्वेन समुच्चिनोति । लिङ्गसम्बद्धम् इति
हेतुभावेन विशेषणम् । तदयमर्थः--यस्माल्लिङ्गं विजातीयव्यावृत्तेऽर्थेक्रियाकारिणि तादात्म्येन
तदुत्पत्त्या वा सम्बद्धमायत्तं तस्मात् तत्प्रभवमप्यनुमानं नियतं दर्शयति अध्यवस्यतीति । तेनानु
मानमपि नानर्थं नाप्यनियतं भावात्मन्यभावात्मनि वा दर्शयतीति प्रकाशितम् । इयांस्तु
विशेषोऽनुमानं सम्बन्धग्रहणकालदृष्टसाधारणं रूपमाश्रित्योदयमानं स्वलक्षणमध्यवस्यदपि न
सन्तानान्तरासाधारणमध्यवस्यतीति प्रवृत्तिविषयापेक्षमपि सामान्यविषयमेव । प्रत्यक्षं तु
प्रवृत्तिविषयापेक्षमप्यसाधारणविषयमेव । सन्तानान्तरासाधा10a रणेनैव रूपेण विषयस्य
निश्चायनादिति ।
इदानीं यस्यायमाशयः--अस्तु प्रत्यक्षं नियतार्थदर्शकम्, अर्थस्य साक्षात्करणात्; अनुमानं
तु परोक्षार्थस्यासाक्षात्करणात्कथं नियतं दर्शयति ? तस्मान्न द्वयोर्नियतार्थप्रदर्शकत्वम्, अपि तु
एकस्यैव इति । तं सामस्त्यनिषेधवादिनं प्रत्युपसंहरन्नाह--अत इति । यस्माद् वस्तुप्रकाशात्
प्रत्यक्षं नियतं दर्शयति । परोक्षस्यान्तरा साक्षादनवभासेऽपि तत्सम्बद्धतया चानुमानं कार्य
स्वभावजमेकान्तनियतं भावम्, अनुपलम्भजमेकान्तनियतमभावं तथाभूतं दर्शयति । अतोऽस्माद्
हेतोरेते द्वे अपि तथारूपे । ततोऽनेन सामस्त्यनिषेधस्य निषेध उपसंहृतः । अन्यथा
व्याख्यायमाने तु यतोऽस्तु104 नियतमर्थं प्रदर्शयतोऽत एते नियतार्थोपदर्शके इत्यर्थः स्यात् ।
एतच्च परिस्फुटस्यैव स्कुटीकरणमनर्थकमापद्येतेति ।
22
आभ्यां प्रमाणाभ्यामन्येन105 च106 ज्ञानेन 107दर्शितोऽर्थः कश्चिदत्यन्तविपर्यस्तः । यथा
मरीचिकासु जलम् । 108स चासत्त्वात् प्राप्तुमशक्यः । कश्चिदनियतो भावाभावयोः109 । यथा
संशयार्थः । न च भावाभावाभ्यां युक्तोऽर्थो जगत्यस्ति । ततः प्राप्तुमशक्यस्तादृशः ।111
सर्वेण 112चालिङ्गेन113 विकल्पेन 114नियामकमदृष्ट्वा प्रवृत्तेन 115भावाभावयोरनियत
भवतामेते नियतार्थोपदर्शके, प्रमाणे तु कथमित्याह--तेन--इति । तेन नियतार्थप्रदर्श
कत्वेन । नियतार्थप्रदर्शकत्वाभावात् किलाप्रामाण्यमनयोः शङिकतम् । सत्यपि तस्मिन्
कथं तत् स्यादिति भावः । अनयोः प्रवृत्तिविषयप्रदर्शनप्रकारोपदर्शने तदन्यस्य ज्ञानस्य च
तदप्रदर्शने यद् बुद्धिस्थमासीत्, तदिदानीं नान्यदित्यादिनाऽभिव्यनक्ति । नान्यद् विज्ञानं
प्रमाणमिति वचनविपरिणामेन सम्बन्धः ।
यद्येवं ज्ञानत्वाविशेषादमू अपि प्रमाणे मा भूतामित्याह--प्राप्तुम् इति । आदर्शयदिति
हेतौ शतुर्विधानाद्धेतुपदमेतत् । तेनायमर्थः--यतः प्राप्तुं शक्यमर्थमादर्शयति तेन प्रत्यक्षादिकं
प्रापकमिति । भवतु प्रापकम्, प्रमाणं तु कस्मादित्याह--प्रापकत्वाच्च--इति । चोऽवधारणे ।
ननु आभ्यामन्येनापि दर्शितोऽर्थः शक्यप्रापण एव ततस्तदुपदर्शकमपि किं न प्रापकं
प्रापकत्वाच्च किं न प्रमाणमित्याह--प्रमाणाभ्याम् इति । चो यस्मात् । अत्यन्तग्रहणेन
संशयज्ञानविषयाद् विशेषं दर्शयति । तथाविधोऽपि किं न प्राप्येत इत्याह--स च इति ।
चो यस्मादर्थे । नियतोपदर्शकत्वेऽप्यनर्थोपदर्शकत्वादप्रामाण्यमस्य दर्शितम् । यदि कश्चि
दीदृशस्तदन्यज्ञानविषयोऽन्यादृशो भविष्यति । तदुपदर्शकं च प्रमाणं भविष्यतीत्यत आह—
कश्चिद् इति । संशयार्थः संशयालम्बनः स्थाणुर्वा पुरुषो वाइति हि प्रत्ययः स्थाणुमुल्लिख्य
पुरुषो वेत्यालम्बयंस्तदभावमुल्लिखति । ततः स्थाण्वभावाव्यभिचारिणं पुरुषं पुरुष116
भावाव्यभिचारिणं च स्थाणुमवस्यन्न भावे नाप्यभाव117 नियतं स्थाणं पुरुषं वा दर्शयतीति
भावाभावयोरनियतं दर्शयति । यत एवायमेकान्तनियतं दर्शयितुमनीशानो दोलायते, तत
एव संशय इत्युपपद्यत इति ।
अथ विपर्ययार्थोऽसत्त्वान्न प्राप्यताम्, अयं तु कस्मान्न प्राप्यत इत्याह--न च इति ।
चो यस्मादर्थे ।
ननु भवतु संशयविपर्यययोरप्रामाण्यं10b किं नश्छिन्नम् ? एतदतिरिक्तं प्रत्यक्षानु एवार्थो दर्शयितव्यः । स118 च प्राप्तुमशक्यः । तस्मादशक्यप्रापणम्--अत्यन्तविपरीतम्,
मानाभ्यामन्यत्प्रमाणं भविष्यतीत्याशङ्क्याह--सर्वेण च--इत्यादि । चो यस्मात् । सर्वान्त
23
भावाभावानियतं चार्थं दर्शयद् अप्रमाणमन्यज्ज्ञानम् । अर्थक्रियार्थिभिश्चार्थक्रियासमर्थ119
वस्तुप्राप्तिनिमितं ज्ञानं मृग्यते । यच्च तैर्मृग्यते तदेव120 शास्त्रे विचार्यते । ततोऽर्थक्रिया
समर्थवस्तुप्रदर्शकं सम्यग्ज्ञानम्121 ।
र्गतत्वादनुमानस्यापि तथात्वं स्यादित्याह--अलिङ्गेन--इति । नास्य लिङ्गमुत्पादकत्वेन
विद्यत इत्यलिङ्गम् । यद्यलिङ्गेन सर्वेण तत्करणीयं तदा प्रत्यक्षपृष्ठभाविनोऽपि विकल्पस्य
तदाऽऽयातमित्याह--नियामकम् इति । विषयाधीनो हि नियतार्थपरिग्रहो ज्ञानस्येत्यर्थो
नियामकः । तमदृष्ट्वा ।
ननु किं प्रत्यक्षपृष्ठभाव्यपि नियामकमर्थं दृष्ट्वा प्रवर्त्तते, येन ताद्रूप्यविरहादन्येषां
विकल्पानां तथात्वमाशङ्क्यते । उच्यते । प्रवर्त्तेनेत्यत्रान्तर्भूतो णिजर्थो द्रष्टव्यः । ततोऽयमर्थः
नियामकमदृष्ट्वा प्रवर्त्तितेनेति । तथा च सति प्रत्यक्षपृष्ठभावी विकल्पो नियामकं दृष्ट्वैव
प्रत्यक्षेण प्रत्ययेन प्रवर्त्त्यत इति तथात्वेन परिहृतो भवति । इतरे त्वलिङ्गविकल्पा येन प्रवर्त्त्यन्ते
जायन्ते न तेन साक्षान्नियामको दृष्ट इति तेषां तथात्वानुषङ्गः ।
अन्ये तु अनुमाननिवृत्त्यर्थमलिङ्गेति योजयित्वा कथं पुनरवसायात्मकेनाप्यलिङ्गेन
तेनैवं करणीयमित्याशङ्क्य नियामकमदृष्ट्वेत्यस्य तु हेतुभावेन विशेषणत्वान्नियामकमदृष्ट्वा
प्रवृत्तत्वादित्यर्थः, इति व्याख्याय तात्पर्यार्थमपि दर्शयन्ति । यद्यपि शब्दादिजन्मानो विकल्पा
नोभयपक्षसंस्पर्शेन दोलायन्ते, तथापि ते नियामकानाश्रयेण प्रवर्त्तमाना न यौक्ति122संशयरूप
तामतिवर्त्तन्त इति । पूर्वव्याख्यानेऽप्ययमेवाशयः । सर्वस्य तस्य समुदाचरतोर्विरुद्धयोराकार
योरभावेऽपि युक्त्या द्वितीयाकारानुप्रवेशात्संशयरूपत्वेन भावाभावानियतार्थोपदर्शकत्वमिति ।
एके तु नियामकं विकल्पयितव्यं वस्तुनान्तरीयकं वस्त्वदृष्ट्वा प्रवृत्तेनेति योजयन्ति ।
अलिङ्गेनेति चास्यैवार्थस्य हेतुभावेन विशेषणमाहुः । उभयेऽपि तु प्रत्यक्षपृष्ठभाविविकल्पेनाति
प्रसङ्गमनधिगतार्थाधिगन्तुर्विकल्प्य123स्य प्रामाण्यचिन्ताऽधिकारेण निराकुर्वते । तेनायमर्थः—
सर्वेण तेनानधिगतत्वा124धिगन्तृतयाऽभिप्रेतेनैवमवश्यकरणीयमिति ।
अनियतार्थप्रदर्शकमपि तत्प्रापकं स्यादित्याह--स च इति । चो यस्मादर्थे । अशक्य
इत्यस्यानन्तरं स अवधारणार्थो द्रष्टव्यः । सोऽनियतोऽर्थो न प्राप्तुं शक्योऽशक्यत्वादिति भावः ।
ननु च तादृशं सर्वं मा भूत्प्रापकम्, प्रमाणं तु कस्मान्न भवतीत्याशङ्क्य पूर्वोक्तमेवोप
संहरति तस्माद् इति । यस्मात्प्रापकत्वादेव प्रमाणं तस्मात् । अर्थस्याशक्यप्रापणत्वेऽत्यन्त
विपरीतत्वानित्य125त्वे हेतू हेतुभावेनानयोर्विशेषणत्वात् । चोऽप्राप्तिकार्थसमुच्चये ।
कश्चिदत्यन्तविपर्यस्तः, कश्चिदनियत इत्यादेर्यथाक्रममुपसंहारः--अन्यज्ज्ञानमिति नान्यज्ज्ञान
मित्यस्य ।
24
स्यादेतत्--शक्यप्राप्तिकार्थोपदर्शकमेव सम्यग्ज्ञानं11a नान्यदिति निर्निमित्तमिदम् ।
तथा चान्यदपि किं न परीक्ष्यत इत्याह--अर्थक्रियार्थिभिः--इति । चो यस्मात् । अर्थस्य
दाहादेः, क्रियानिष्पत्तिः । तामर्थयन्ताति तथा । एतैरर्थक्रियायां शक्तस्य वस्तुनः प्राप्ते
र्यन्निमित्तं तन्मृग्यतेऽन्विष्यते । अर्थक्रियार्थित्वादेव च तदन्वेषणमेषामवसेयम् । तैश्च
प्रेक्षावद्भिरिति प्रकरणाद् द्रष्टव्यम् । इतरथार्थक्रियार्थिभिरप्यप्रेक्षावद्भिर्मिथ्याज्ञानमपि
निभाल्यत इति तत्परीक्षाऽप्यापतेत् ।
यदि नाम तैस्तन्मृग्यं तथापि तदितरदपि ज्ञानं किं न परीक्ष्यत इत्याह यच्च--इति ।
चोऽवधारणे । विचार्यते परीक्ष्यते । ईदृशं तत्सम्यग्ज्ञानं प्रवर्त्तकं यदनुसरन्ति भवन्त इति
विभज्य प्रतिपाद्यते । अयमस्याशयः--न व्यसनितयाऽऽचार्येण ज्ञानं विचार्यते । किन्तर्हि ?
अर्थक्रियार्थिजनानुरोधेन । ते तथाभूतमेव ज्ञानं मृगयन्ते नान्यदिति तदेव विचार्यत इति ।
तदेवेति च मुख्यवृत्त्यभिप्रायेणोक्तम् न तु मिथ्याज्ञानं शास्त्रेऽस्मिन् न विचार्यते एव ।
प्रसङ्गात्तु तस्यापि कल्पनाप्रभृतौ विचारसम्भवादिति ।
ननु शक्यप्रापणार्थोपदर्शकमेव सम्यग्ज्ञानं कुतो व्यवस्थाप्यते नान्यदिति प्रश्ने किमिदम
प्रकृतमुच्यत इत्याह--तत इति । यतोऽर्थक्रियार्थिनां प्रेक्षावतां नान्यन्मृगयणीयम्, तदन्वेषणीय
मेव विचारणीयम्, व्यसनितया विचारासम्भवात् । ततोऽर्थक्रियासमर्थस्य वस्तुनः प्रदर्शकं
सम्यग्ज्ञानं नान्यदिति अर्थात् ।
अस्तु सम्यग्ज्ञानमीदृशमेव । तत्पुनरन्यदुपदर्श्य अन्यत् प्रापयदपि किं न सम्यग्ज्ञानं
सत् प्रमाणं व्यवह्रियते ? तथा च पीतसंख्या131दिज्ञानमपि प्रामाण्यान्नापैति । आह--यच्च
इति । चोऽवधारणे । अनेन पीतसं132खादिज्ञानमप्यंशे संवादात् प्रमाणमिति यत्कैश्चि
दिष्टिं तदपि सम्यग्ज्ञानव्यवच्छेद्यमिति दर्शयति ।
ननु चानुक्तसममिदं पीतशङ्खादिज्ञानेनानुपदर्शितस्यापि शुक्लशङ्खस्य, जलज्ञानेनानुप
दर्शितस्यापि मरीचिकानिचयस्य प्रापणदर्शनात् । नैतदस्ति । यतो न तज्ज्ञानपूर्विका सा
प्राप्तिः, तस्याऽज्ञातवस्तुविषयत्वात् । न च तेन शुक्लशङ्खवस्तु मरीचिवस्तु वा ज्ञातम् । यथा
तु ज्ञानान्तरादेव तथाविधार्थप्राप्तिर्न ततस्तथा अनेनैव प्रामाण्यपरीक्षायां निर्लोठितमिति
नेहोच्यते ।
25
तत्र प्रदर्शितादन्यद्वस्तु भिन्नाकारम्, भिन्नदेशम्, भिन्नकालं च । विरुद्धधर्मसंसर्गाद्धि अन्यद्
वस्तु । देशकालाकारभेदश्च विरुद्धधर्मसंसर्गः ।
तस्माद् अन्याकारवद्वस्तुग्राहि133 नाकारान्तरवति वस्तुनि प्रमाणम् । यथा पीतशङ्खग्राहि
शुक्ले शङ्खे । देशान्तरस्थग्राहि च न देशान्तरस्थे प्रमाणम् । यथा कुञ्चिकाविवरदेशस्थायां
मणिप्रभायां मणिग्राहि ज्ञानं नापवरकस्थे134 मणौ । कालान्तरयुक्तग्राहि च न कालान्तरवति
वस्तुनि प्रमाणम् । यथार्द्धरात्रे मध्याह्नकालवस्तुग्राहि स्वप्नज्ञानं नार्धरात्रकाले135 वस्तुनि
प्रमाणम् ।
तदेव तेन प्रापणीयमिति कुत एतदित्याह--अर्थाधिगमेति । हिर्यस्मात् । उक्त
मिति प्रदर्शनादीनां वस्तुतोऽभेदं प्रतिपाद्य अत एवार्थाधिगतिरेव प्रमाणफलमिति अनेन
प्रकाशितत्वात्, न तु साक्षादभिहितम् । यद्यन्यदधिगम्यान्यत् प्रापयेत्, तदा प्रदर्शनप्रापणयो
र्भेद एव स्यात्, अभेदश्च प्रतिपादित इति भावः ।
कथं पुनरधिगतिरेव फलमित्यनेन तथात्वमस्योक्तम् ? यतः प्रापकत्वं प्रामाण्यम्, फलं च
तदव्यतिरिक्तमिति । अथवा प्राप्तुं शक्यमर्थमादर्शयत्प्रापकमित्यनेनैवमुक्तम् । तथाहि
तादृशमर्थमादर्शयदिति परिच्छिन्ददित्यर्थः । परिच्छेदश्च प्रापकत्वान्न भिद्यत इति ।
भवतूपदर्शितार्थप्रापकत्वमेव सम्यग्ज्ञानम् । यत्तु तदेव प्राप्य वस्तु शङ्खादिकं पीतरूपतया
प्रदर्शयति तत्कथमसम्यग्ज्ञानमित्याह--तत्र इति । तत्रेति वाक्योपक्षेपे चैतत् । प्रदर्शिताद् रूपाद्
भिन्नाकारादि सद् वस्त्वन्यदित्यन्यत्वं विधेयम् । आकारादिभिन्नमपि न ततोऽन्यत्, तदेवेद
मित्यध्यवसायादित्याह--विरुद्धेति । हिर्यस्मात् । यदि विरुद्धधर्माध्यासादन्यत्वम्, न
तर्हि देशादिभेदादित्याह--देशेति । चो यस्मादर्थे । भवत्वेवं तथाप्याकारादिभिन्नग्राहि
ज्ञानमाकारान्तरादियोगिनि वस्तुनि किं न प्रमाणमित्याह--तस्माद् इति । यस्मात्सम्यग्ज्ञानेन
यदेव हि दर्शितं तदेव प्रापणीयम्, आकारादिभिन्नं च ततोऽन्यत् तस्मात् । किमिव क्व
न प्रमाणमित्याह--यथेति । भिन्नदेशग्राहिणः का वार्तेत्याह--देशान्तरेति । किंवन्न
प्रमाणमित्याह--यथेति । अव136वरकशब्देन देशविशेषो लयनोदरादिशब्दवाच्य उच्यते ।
अपवरकशब्दस्याप्येतदर्थस्य भावात् । अपवरकदेशस्थ इति पाठेऽपि न दोषः ।
भिन्नकालग्राहिणः का व्यवस्था इत्याह--कालान्तरेति । उपदर्शनकालादन्येन कालेन ननु 137च देशनियतम्, आकारनियतं च प्रापयितुं शक्यम् । यत्कालं तु परिच्छिन्नं
व्यावहारिकेण युक्तं सम्बद्धं तद्ग्राहि भिन्नकालवस्तुग्राहीति यावत् । चः पूर्ववत् पूर्वेण सहेद
मप्रामाण्येन समुच्चिनोति । तदुदाहरन्नाह--यथेति । अयमस्यार्थः--अधरात्रे निद्राणस्य मध्याह्न
कालप्रतिभासमनुभवतो वणिज्यागतसुतवस्तुदर्शनहृषितरोम्ण एव झटिति बोधे काकतालीय
न्यायेन च सत्यपि पुत्रोपलम्भे तज्ज्ञानं न प्रमाणम् । तत्खलु परमार्थेनार्धरात्रकालसम्बद्धं
मध्याह्नकालाकलितं च प्रतीतमिति मध्याह्नकालत्वेनावभासनादेव च मध्याह्नकालं तद्वस्तूक्तम् ।
26
तत्कालं न शक्यं प्रापयितुम् । नोच्यते--यस्मिन्नेवकाले परिच्छिद्यते तस्मिन्नेव काले प्रापयि
तव्यमिति । अन्यो हि दर्शनकालः, अन्यश्च प्राप्तिकालः । किन्तु यत्कालं परिच्छिन्नं तदेव
तेन138 प्रापणीयम् । अभेदाध्यवसायाच्च सन्तानगतमेकत्वं द्रष्टव्यमिति ।
अर्धरात्रः काल आगमनकालो यस्य तस्मिन् न प्रमाणम् । अथवा योऽर्धरात्रे सुप्तोऽह्नो मध्यमुद्गते
सवितरि पुत्रमागतं दृष्टवा प्रभातायां रात्रौ सम्पन्ने मध्यन्दिने तस्मिन्नेव च देशे तमेव सुत139
प्रागतं प्रबुद्धोऽपि पश्यति । तस्य तज्ज्ञानं संवादमात्रभागपि न प्रमाणम्, यतोऽर्धरात्रे
मध्याह्नम्, तदानीमनागतमपि पुत्रवस्त्वागतम्, तेनावगतम् । न चार्धरात्रे देशकालनियतस्य
पुत्रस्य, तस्य च कालस्यास्ति सद्भावः । तदा त्वर्धरात्रः परमार्थतः प्रतिभासकालो यस्य
मध्याह्नकालयुक्तवस्तुन इति योज्यम् ।
एतेन सुप्तस्य केनचित् पठ्यमानं ग्रन्थं शृण्वतो ज्ञानमसत्यार्थं व्याख्यातमवसेयम् ।
यस्माद्देशकालभिन्नात्मानं श्रोतारं ग्रन्थं च श्रोतव्यं पश्यति निद्रोपहतः । न च तद्देशकालसम्बद्धौ
स्तः । यद्देशकालौ च स्तस्तथा न गृह्णातीति ।
अनयैव च दिशा वाजिस्वप्नोऽपि व्याख्यातो द्रष्टव्यः । यतस्तत्रापि घोटकस्वप्ने
यत्कालदर्शनवि12a षया भावा दृश्यन्ते न तथा सन्ति, यत्कालाश्च सन्ति तत्काला न दृश्यन्ते ।
अर्धरात्रादिषु हि स्वप्नदर्शनम्, सूर्योदयादिसम्बद्धाश्च ते भावा दृश्यन्ते । तस्मात्स्वप्ने केषाञ्चि
दनुभूतानामत्यन्तमभावादर्थक्रियाया नास्ति सत्त्वम् । केचित्तु अर्थक्रियाकारितया
अभिमताः सत्यस्वप्ने विषया दृष्टकालभेदव्यभिचारिणो न सन्त्येवेति प्रकरणार्थः ।
इदमीदृग्विशिष्टं स्वप्नज्ञानमुदाहरतो धर्मोत्तरस्यायमाशयः--एवंविधस्य स्वप्नज्ञानस्य
सदर्थत्वाभिमानः केषाञ्चित्सत्यस्वप्नवादिनामस्तीति तदभिमानशमनायेदं मयोदाहरणीकृतम् ।
न त्वस्मादन्यस्य स्वप्नज्ञानस्य कश्चिद् विशेषः । सर्वस्यैव स्वप्नज्ञानस्य निरालम्बनतया
मिथ्याज्ञानत्वादिति ।
इदानीं परिच्छिद्यमानस्य यत्कालं परिच्छेदनं तत्कालमेव प्राप्यमाणस्य प्रापणमभि
मतम्--एवं ब्रुवत इति मत्वाऽस्यार्थस्यानुपपत्तिं चोदयति--ननु च--इति । देशे नियत
माकारे नियतं च शक्यं प्रापयितुमित्यभिदधानोऽनयोरविप्रतिपत्तिमाह । इदं तु न सम्भाव्यत
इत्याह--यत्कालं तु--इति । तुनाऽनन्तरोक्ताभ्यां विधाभ्यां वैधर्म्यमाह । यः कालोस्य
परिच्छेदनस्य तद् यथा भवति तथा परिच्छिन्नम् । स कालो यस्य प्रापणस्य तद् यथा भवति
तथा न शक्यं प्रापयितुम् । यस्मिन् काले परिच्छिन्नं तस्मिन् काले न शक्यते प्रापयितुमित्यर्थः ।
एवं च ब्रुवताऽनेन कालान्तरग्राहीति यदुक्तं तदयुक्तमिति दर्शितम् । सर्वस्यैव ज्ञानस्य
एवंशीलत्वादिति ।
नोच्यत इत्यादिना सिद्धान्तवादी चोदकस्यानुक्तोपालम्भमाह । अनेनापि न किञ्चि सम्यग्ज्ञानं पूर्वं कारणं यस्याः सा तथोक्ता । कार्यात् 140पूर्वं भवत् कारणं पूर्वमुक्तम् ।
27
कारणशब्दोपादाने141 तु पुरुषार्थसिद्धेः142 साक्षात्कारणं 143गम्येत । पूर्वशब्दे तु पूर्वमात्रम् ।
त्कारणमुक्तम् । तत् किं त्वयैवं नोच्यत इति पार्श्वस्थं प्रत्यस्यैवाभिप्रायं प्रकाशयति--अन्यो
हि--इति । हीति यस्मात् । यद्येवं नोच्यते तर्हि किं नामोच्यत इत्याह--किन्तु--इति ।
निपातानिपातसमुदायोऽयं केवलमित्यस्यार्थे ।
ननु असङ्गतमिदं वाक्यम् । न हि यदेव परिच्छिन्नमित्यस्ति येनैवमुच्येत । यत्कालं
तु परिच्छिन्नं तत्कालमिति तु युक्तं वक्तुम्, न तदेवेति । सत्यमेतत् । केवलं बोधे यत्नः
करणीयः । यत्कालमित्यनेन हि तत्कालमिति प्राप्तम्, तदेवेति तच्छब्देन वस्तुविषयो यच्छब्द
आकृष्यते । ततोऽयमर्थः--यत्कालं परिच्छिन्नं यद् वस्तु तत्कालं तदेव वस्तु प्रापणीयमिति ।
अहो गडुप्रवेशेऽक्षितारानिर्गमो जातः । एवं खलु वाक्यं स्यात् समर्थितम्, पूर्वपक्षात्पुनरस्या
विशेषः प्राप्तः । अस्ति विशेषो महान्, केवलं भवता न समीचीनं निरूपितः । तथाहि
पूर्वपक्षावस्थायां यत्कालं तत्कालं इति चात्र बहुव्रीहिणा परिच्छेदनलक्षणा प्रापणलक्षणा च
क्रियाऽभिधीयते । इदानीं पुनर्वस्तुतो नायमर्थः । यद् वस्तु येन कालेन सम्बद्धं परिच्छिन्नं
तदेव तेन कालेन सम्बद्धं स्वरूपेण प्रापणीयं तदाऽन्यदा वा । परिच्छेदस्य यादृशः कालस्त
स्मिन् काले यद् विद्यमानं तदेव प्रापणीयमिति यावत् । ततश्च परिच्छेदका12b लाऽसतो
यद् ग्राहकं तन्न प्रमाणमित्यवतिष्ठते । नोच्यते यस्मिन् काल इत्यादिना च यदेतदुक्तं तद्
बाह्यप्रापणाभिप्रायेण द्रष्टव्यम् । परमार्थतस्तु ज्ञानस्य प्रदर्शनादन्यः प्रापणव्यापारो नास्तीति
यस्मिन्नेव काले परिच्छिद्यतेऽर्थस्तस्मिन्नेव काले प्राप्यत इति । एतच्चानन्तरमेवानेनैव विस्तरेण
प्रतिपादितमिति स्ववचनव्याघातोऽन्यथाऽस्य स्यादिति ।
नन्वेवमपि परिच्छेदकालवर्त्तिनः प्रापणं न सम्भवत्येव । सर्वस्यैव विषयस्य
क्षणिकत्वात् । तथा चोपदर्शितार्थप्रापकत्वं नाम कस्यचिदपि ज्ञानस्य नास्तीत्यसम्भवितैव सम्यग्
ज्ञानत्वलक्षणस्य स्यादित्याशङ्क्याह--अभेदेति । अभेदेनैकरूपत्वेन तदेवेदमित्याकारे
णाध्यवसायात् । उपादानोपादेयकृतक्षणप्रबन्धः सन्तानस्तद्गतस्तदाश्रितः ।
अयमस्य भावः--सांव्यवहारिकस्येह प्रमाणस्य लक्षणमुच्यते । तेन नैकान्तेन वस्तु
स्थितिरपेक्ष्यते । तत्र यद्यपि वस्तुस्थित्या परिच्छिन्नप्राप्ययोर्नानात्वं तथापि व्यवहर्त्तारो
निरन्तरापरापरोत्पत्तेरविद्यावशाच्च हेतुफलरूपं क्षणप्रचयं तदेवेदमित्येकत्वेनाधिमुञ्चन्ति ततः
परिच्छेदकालभाविनः प्रापणं सम्भवत्येव । इतिः सम्यग्ज्ञानपदव्याख्यानपरिसमाप्तौ ।
तदनेन प्रबन्धेन सम्यग्ज्ञानपदं व्याख्यायाधुना पूर्वशब्दं व्याचिख्यासुस्तेन सार्धमस्य
विग्रहमाह--सम्यग्ज्ञानम् इति ।
28
144द्विविधं च सम्यग्ज्ञानं--अर्थक्रियानिर्भासम्, अर्थक्रियासमर्थे च प्रवर्त्तकम् । 145तयोर्मध्ये
यत् प्रवर्तकं तदिह परीक्ष्यते । तच्च पूर्वमात्रम् । न तु साक्षात्कारणम् । सम्यग्ज्ञाने हि सति
पूर्वदृष्टस्मरणम् । स्मरणादभिलाषः । अभिलाषात् प्रवृत्तिः । प्रवृत्तेश्च प्राप्तिः । ततो
न साक्षाद्धेतुः ।
ननु पुरुषार्थसिद्धिः सम्यग्ज्ञानस्य प्रयोजनं कार्यत्वेन । तथा च सम्यग्ज्ञानकारणिकेति
वक्तुमुचितं तत्किमेवमुक्तमित्याह--कार्याद् इति । अनेन व्यवस्थावाची सन्नेव पूर्वशब्दः
कारणे वर्त्तत इति दर्शयति ।
भवदिति लक्षणहेत्वोः क्रियायाः पाणिनि. ३. २. १२६ इति हेतौ शतुर्विधानात्
हेतुपदमेतत् । यद्येवं कारणशब्द एव क्रियतामित्याह--कारणेति । अयं भावः--करोतीति
कारणमुच्यते, न त्वकुर्वद्रूपम् । अकुर्वति पुनः कारणव्यपदेशः कारणकारणत्वादीपचारिकः । न
च मुख्ये सम्भवति अमुख्ये प्रत्ययो युज्यते । ततो यदेव ज्ञानमव्यवधानेन पुरुषार्थसिद्धेर्निबन्धनं
तदेव कारणशब्देन प्रतीयेतेति । यदि पूर्वग्रहणेऽप्येवं प्रत्ययस्तदा को विशेष इत्याह--पूर्वशब्द
इति । तुः कारणशब्दाद् विशेषमस्याह । पूर्वमात्रमिति साक्षात्कारणमितरच्च ।
ननूभयोः सम्भवे साक्षात्कारणपरिहारेणेतरग्रहणाय पूर्वशब्दः शोभते । न चैवमस्ति,
सर्वस्यैव पुरुषार्थसिद्धिं प्रति साक्षात्कारणत्वादित्याह--द्विविधं च--इति । चो यस्मादर्थे ।
कथं द्वैविध्यमित्याह--अर्थक्रियेति । निर्भासतेऽस्मिन्निति निर्भासः । अर्थक्रियाया निर्भासो
यस्मात् तत् तथा । यतः साधनज्ञानादनन्तरं दाहादिप्रतिभासज्ञानमुत्पद्यते तदेवमुच्यते ।
केचित्तु क्षणेन कार्यकारणव्यवहारस्यार्वाग्दर्शनेन कर्त्तुमशक्यत्वाद् दाहादिप्रतिभासमेव
ज्ञानमेवं ब्रुवते । अर्थक्रियाया 13a निर्भासोऽस्मिन्निति कृत्वा । अपरम् अर्थक्रियासमर्थे च
प्रवर्त्तकम् । यत् प्रवृत्तिसमधिगम्यार्थक्रियागोचरं तदेवमुक्तम् । चोऽर्थक्रियानिर्भासापेक्षया
समुच्चये । अनयोः किं परीक्ष्यत इत्याह तयोः--इति । प्रवर्त्तकमपि साक्षात्कारणं तत् कोऽन्यत्र
विद्वेषो येनेदमेव विचार्यते ? किं वा पूर्वशब्देनेत्याह--तच्च--इति । चो यस्मात् ।
अयमाशयः--यतः प्रवर्त्तन्ते तत् सर्वमर्थप्राप्तेर्व्यवहितं कारणम् । अतश्च सम्भव
त्प्रतिबन्धं तत् प्रवृत्त्यङ्गत्वात्पूर्वमात्रम्, न त्वनन्तरं कारणमिति । पूर्वमात्राभिधानेन सान्तरम् ।
अमुमेव द्रढयन्नाह--न तु--इति । तुर्विशेषार्थः । कुत एतदित्याह--सम्यग्ज्ञान इति । हि
र्यस्मात् । तस्मिन् सम्यग्ज्ञाने प्रकरणात् साधननिर्भासे सति । स्मृतिबीजोपजननयोग्यज्ञान
ज्ञातस्य दाहादेः स्मरणम् । ततोऽभिलाषः--तत्प्राप्तीच्छा । ततः प्रवृत्तिः प्रवर्त्तकज्ञानोपदर्शितमर्थं
प्राप्तुकामा व्यापारसहाया बुद्धिः । तस्याश्च प्राप्तिरुपादित्सितलाभः । यस्मात् स्मरणादिना
व्यवधानं ततः तस्मात् न साक्षात् हेतुः प्राप्तेरुपायः पुरुषार्थसिद्धेरिति प्रकरणात् ।
29
अर्थक्रियानिर्भासं146 तु यद्यपि साक्षात्147 प्राप्तिः, तथापि तन्न परीक्षणीयम् । यत्रैव हि
प्रेक्षावन्तोऽर्थिनः 148साशङ्काः, तत् परीक्ष्यते । अर्थक्रियानिर्भासे च ज्ञाते149 सति सिद्धः
पुरुषार्थः । तेन तत्र न साशङ्का150 अर्थिनः । अतस्तन्न परीक्षणीयम् । तस्मात् परीक्षार्ह
मसाक्षात् कारणं सम्यग्ज्ञानमादर्शयितुं कारणशब्दं परित्यज्य पूर्वग्रहणं कृतम् ।
यदि परम्परयाऽपि प्राप्तिहेतुः परीक्ष्यते तर्हि साक्षात् हेतुरतितरां परीक्षणीय इत्याह—
अर्थक्रियानिर्भासमिति । तुः प्रवर्त्तकाध्यक्षादर्थक्रियानिर्भासं भेदवद् दर्शयति ।
यदा प्राप्तिहेतुरिति पाठस्तदा अर्थक्रियानिर्भासमित्यस्यान्त्यव्याख्यानपक्षे भिन्ना
सन्तोषादिप्राप्तिर्लोकाध्यवसायसिद्धा या तस्या हेतुः । प्राप्तिपाठे तु तद्व्याख्यानानवद्यता ।
पूर्वव्याख्याने तूपचारात् प्राप्तिहेतुः प्राप्तिशब्देन वक्तव्यः । करणसाधनो वा प्राप्तिशब्दो
द्रष्टव्यः ।
कस्मात् तत् न परीक्ष्यत इत्याह--यत्रैव हि--इति । हिर्यस्मात् । साशङ्काः ससन्देहाः ।
आशङ्काग्रहणस्योपलक्षणत्वात् सविपर्यासा इत्यपि द्रष्टव्यम् ।
एवं ब्रुवतश्चायमाशयः--न व्यसनमेतच्छास्त्रकृतो येन ज्ञानमपरीक्षमाणः स्वास्थ्यमलभमानः
परीक्षते । किन्तर्हि ? व्युत्पाद्यजनप्रयोजनोद्देशेनायमस्यारम्भः । संशयविपर्यासापसारणं च
व्युत्पाद्यजनप्रयोजनम् । ततो यत्रैव ते तथाप्रवृत्तयस्तदेव परीक्ष्यत इति । अर्थक्रिया
निर्भासेऽपि ते तथावृत्तय इत्याह--अर्थक्रियेति । चशब्दस्तुशब्दस्यार्थे ।
कुतो न तथावृत्तयः ? येन साक्षात्कारणेऽस्मिन् सति सिद्धः पुरुषार्थः, तेनानन्तरमेव
फलस्यानुभूयमानत्वात्, तदैव सन्तोषादिगमनाद् वा । व्याख्यानद्वयेपि अर्थक्रियानिर्भास
शब्दवाच्य द्वये स्थिते द्वयमेतत् शङ्कायाः कारणम्--अनन्तरफलादर्शनम्, अध्यवसायसिद्ध
भिन्नप्राप्त्यभावो वा । तदभावे तु कथं शङ्केरन्निति भावः ।
मा भूवंस्तत्र साशङ्कास्तत् किं सिद्धमित्याह--अत इति ।
यदि व्यवहितं प्रवर्त्तकं पुरुषार्थसिद्धेर्न कारणं तर्हि कथमुक्तम्--कार्यात् पूर्वं भवत् कारणं
पूर्वमुक्तम् इति ? असाक्षात् कारणे चाकारणे कारण13b विशेषणं साक्षादिति निरर्थक
मित्याशङ्क्याह--तस्माद् इति । यस्मात् साक्षात् कारणमाशङ्कानास्पदं सदपरीक्षणीयं तस्माद्
यदसाक्षात्कारणमत एव च परीक्षार्हं परीक्षायोग्यं प्रवर्त्तकं सम्यग्ज्ञानमादर्शयितुमादर्श
यिष्यामि--इति कारणशब्दं विहाय पूर्वग्रहणं कृतमाचार्येणेत्यर्थात् ।
एतदुक्तं भवति--योऽयं कारणशब्दो व्यवहिते कारणकारणे वर्त्तते नायं तत्राभिधायकत्वेन
वर्त्तते करोतीति कारणमिति व्युत्पत्तेः । किन्तर्हि ? तादर्थ्यादुपचारत इति ।
30
पुरुषस्यार्थः151 पुरुषार्थः । अर्थ्यत इत्यर्थः काम्यत इति यावत् । हयोऽर्थः, उपादेयो
वा । हेयो ह्यर्थो हातुमिष्यते, उपादेयोऽपि उपादातुम् । न च हेयोपादेयाभ्यामन्यो राशिरस्ति ।
उपेक्षणीयो152 ह्यनुपादेयत्वात् हेय एव । तस्य सिद्धिः--हानम्, उपादानं च । हेतुनिबन्धना153
हि सिद्धिरुत्पत्तिरुच्यते । ज्ञाननिबन्धना तु सिद्धिरनुष्ठानम् । हेयस्य च154 हानमनुष्ठानम्
उपादेयस्य चोपादानम् । ततो हेयोपादेययोर्हानोपादानलक्षणानुष्ठितिः 155सिद्धिरित्युच्यते ।
स्यादेतत्--सत्यपि कारणग्रहणे विचारार्हमेव सम्यग्ज्ञानं प्रतिपत्स्यते । यतस्तद्व्युत्पा
द्यत इत्यर्थः, साध्यत्वात् । प्रातिपदिकार्थस्तु कारकत्वाद् गुणः प्रधानानुयायी । तेन प्रधाना
नुरोधात् तच्छब्दो वर्णितया नीत्या मुख्यस्य कारणस्य सम्यग्ज्ञानस्य व्युत्पत्तिकर्मताऽनुपपत्तेस्तत्परि
त्यागेन लक्षणया तादर्थ्यभूतया प्रत्यासत्त्याऽर्थक्रियासमर्थप्रवर्त्तक एव प्रवर्त्तिष्यते । यथा मञ्चाः
क्रोशन्तीत्यत्र प्रधानानुरोधात् मञ्चशब्दः क्रोशनक्रियाकर्त्तृत्वानुपपत्तेर्मुख्यमर्थं त्यक्त्वा लक्षणया
तात्स्थ्यभूतया प्रत्यासत्त्या पुरुषेषु वर्त्तत इति । सत्यमेतत् । केवलमेवं सति व्याख्यातृणामिदं
कौशलं स्यान्न शास्त्रकृत इति सर्वमनवद्यम् ।
इदानीं पुरुषार्थसिद्धिपदं विवरिषुः पुरुषशब्देन सार्धमर्थशब्दस्य विग्रहम्, अर्थस्य च
स्वरूपं पुरुषस्येत्यादिनाचष्टे । अर्थ्यत इत्याचक्षाणो 156अर्थ याच्ञायाम् इत्यतो णिजन्तात्
कर्मण्यचं दर्शयति । अर्थ्यत इत्यस्यार्थं स्पष्टयति--काम्यत इष्यत इत्यनेन यावानेवार्थ
उक्तस्तावानेवार्थ्यत इत्यनेनापीति इति यावदित्यस्यार्थः ।
कोऽसावर्थ इत्याह--हेय इति । वाशब्दश्चशब्दस्यार्थे । अर्थ्यमान इष्यमाणोऽर्थः ।
न तर्हि हेयोऽर्थ इत्याह--हेय इति । हिर्यस्मात् । हेयो हातुं त्यक्तुमिष्यते तस्मादर्थः ।
अयमाशयः--इष्यमाणः खल्वर्थः । अत्र यद्यपि स्वीकरणेच्छा नास्ति तथापि परिहारेच्छा तावद
स्तीति । यदि हातुमिष्यमाणोऽर्थः कथमुपादेयोऽर्थ इत्याह--उपादेयोऽपीष्यते केवलमुपादातुम् ।
न केवलं हेय इष्यते इत्यपिशब्दः ।
ननु च न हेयोपादेयावर्थोऽपि तु अन्योपि । ततः सोऽपि कस्मान्न प्रदर्श्यत इत्याह—
न चेति । चोवधारणे यस्मादर्थे वा ।
ननूपेक्षणीयोऽपि राशिरस्ति । यत्र न प्रवृत्तिर्यतश्च न निवृत्तिः । तत् कथमनुभव
सिद्धस्यापह्नव इत्याह--उपेक्षणीय इति । हिर्यस्मात् ।
अत्र कश्चिदाह--यथाऽसावनुपादेयस्तथाऽहयोपि । तत्र यद्यनुपादेयत्वाद्धेयस्तदाऽहेय सर्वा चासौ पुरुषार्थसिद्धिश्चेति । सर्वशब्द इह द्रव्यकार्त्सन्ये157 वृत्तो न 158तु प्रकार
त्वादुपादेयः किं न भवति इति । साधूक्तं तेन भदन्तेन केवलं हेयशब्दार्थविचारे मनो न
31
कार्त्स्न्ये । ततो नायमर्थः--द्विप्रकारापि सिद्धिः सम्यग्ज्ञाननिबन्धनैवेति ।159 अपि त्वयमर्थः--या
काचित् सिद्धिः सा सर्वा कृत्स्नैवासौ सम्यग्ज्ञाननिबन्धनेति ।160 मिथ्याज्ञानाद्धि काकतालीयाऽपि
नास्त्यर्थसिद्धिः । तथा हि--यदि प्रदर्शितमर्थं प्रापयत्येवं161 ततो162 भवत्यर्थसिद्धिः ।
प्रणिहितम् । तथाहि--हीयते, त्यज्यते, न स्वीक्रियते इति हेयः । हानञ्चास्वीकरणम् ।
न तु गृहीत्वा परित्यागः । तेन अहिविषकण्टकादीनामपि हानं तत्रा14a ऽप्रवृत्तिरेव ।
सा चोपेक्षणीयेऽप्यस्ति । तथा च यदि तस्य स्वीकारो भवेत्, तदाऽहेयत्वं सिद्धिमध्यासीत ।
न च तत् स्वीक्रियत इति व्यक्तमयं हेतुरसिद्धस्तस्य । न त्वस्माकमसिद्धः । अनुपादेयत्वस्य
अस्वीकर्त्तव्यत्वस्य सिद्धत्वात् ।
अथानुभवसिद्धस्य तृतीयराशेरुपेक्षणीयस्यास्वीकरणमात्राद्धेयेन सार्धमैक्यप्रतिपादन
मयुक्तमिति चेत् । प्रियमुक्तं प्रियेण । न हि वयमपि प्रसिद्धयोर्हेयोपेक्षणीययोरर्थयोरेकस्वभावता
मातिष्ठामहे । किन्तु क्रियानिमित्तेन हेयशब्देनैकाभिधानम् तथाऽस्वीकरणार्थेन हानशब्दे
नोपेक्षाया अभिधानमिति किमवद्यम् ? एतच्च हेयोपादेयत्वमर्थस्यैकपुरुषैककालापेक्षया
प्रत्येयम् ।
अधुना सिद्धिशब्दस्यार्थपदेन विग्रहं ब्रुवन्नर्थमाह--तस्य--इति ।
ननु लोके सिद्धिर्निष्पत्तिरुच्यते, यथौदनस्य सिद्धिरिति । तत्कथमेवं वर्ण्यत इत्याह
हेतुनिबन्धनेति । हेतुः कारणं निबद्ध्यतेऽस्मिन्निति निबन्धनं प्रतिबन्धविषयः । हेतुर्निबन्धन
मस्या इति विगृह्य हेतुप्रतिबद्धेत्यर्थो वक्तव्यः ।
यदि जनकनिबन्धना सिद्धिरीदृशी तर्हि ज्ञाननिबन्धना कीदृशी भविष्यतीत्याह--ज्ञानेति ।
तुः पूर्वस्याः सिद्धेरस्या भेदं दर्शयति । एवं च व्याचक्षाण अर्थपदव्याख्याने अर्थः प्रयोजनं दाहादि,
सिद्धिपदव्याख्याने च तस्य दाहादेर्निष्पत्तिः इति यद् विनीतदेवशान्तभद्रौ व्याचक्षातां तद्
द्वयमप्यपास्यति । यतः स्वहेतोरेव वह्न्यादेर्दाहादेर्निष्पत्तिर्न तु ज्ञानात् तस्य तदकारकत्वादिति ।
ननु यदि सिद्धिरनुष्ठानं तर्हि हानमुपादानं च कथं सिद्धिरित्याह--हेयस्य च--इति ।
चो हेतौ, अवधारणे वा हानमित्यस्मात्परो द्रष्टव्यः । द्वितीयश्चकारः समुच्चयार्थः ।
किमेवं सति सिद्धमित्याह--तत इति । यतो ज्ञाननिबन्धना सिद्धिरीदृशी ततस्तस्मात्कारणात् ।
पुरुषार्थसिद्धिशब्दानां विग्रहमर्थं च व्याख्याय सम्प्रति सर्वशब्दं व्याख्यातुं विग्रहमाह— प्रदर्शितं च प्रापयत् सम्यग्ज्ञानमेव । प्रदर्शितं चाप्रापयत् मिथ्याज्ञानम् । अप्रापकं च
सर्वा च--इति । एवं च विगृह्णन् यद् विनीतदेवेन व्याख्यातं सर्वश्चासौ लौकिको लोकोत्तर
श्चासन्नदेशो दूरदेशश्च पुरुषार्थश्चेति, तथा तस्य सिद्धिः इतिः तद् दूषयति । एवं हि
32
कथमर्थसिद्धिनिबन्धनं स्यात्? तस्माद् यन्मिथ्याज्ञानं न ततोऽर्थसिद्धिः । यतश्चार्थसिद्धिस्तत्
सम्यग्ज्ञानमेव । अत एव सम्यग्ज्ञानं यत्नतो व्युत्पादनीयम् । यतस्तदेव पुरुषार्थसिद्धि163—
निबन्धनम् ।
व्याख्यायमाने सर्वशब्देन पुरुषार्थसिद्धेरविशेषणाद् मिथ्याज्ञानात् काकतालीयार्थसिद्धिरनि
वारिता स्यात् । न च सा सम्भविनी । यथा च सा न सम्भवति, तथाऽनन्तरमेव प्रतिपादयिष्यते ।
योऽपि शान्तभद्रः सर्वश्चासौ पुरुषार्थश्च, सर्वेषां वा पुरुषाणामर्थस्तस्य सिद्धिः इति
व्याचष्टे सोऽप्यनयैव द्वारा निराकृतः ।
ननु सर्वशब्दस्य प्रकारकार्त्स्न्यवृत्तेरपि दर्शनान्न ज्ञायते किंवृत्तिरत्राभिप्रेत इत्याह—
सर्वशब्द इति । द्रव्यस्य निःशेषतायां वृत्तः प्रवृत्तो वाचकभावेन । यथा सर्वोत्पत्तिमता
मीश्वरो निमित्तकारणम् इत्य14b त्र । द्रव्यशब्देन चेदं तदिति व्यपदेशयोग्यं ग्रहीतव्यम् ।
न तु वैशेषिकसिद्धान्तप्रसिद्धं पृथिव्यादि । तदुक्तम्--
पुरुषार्थसिद्धिरपीदं तदिति व्यपदेशयोग्या । तेन साऽपि द्रव्यम् । तथावृत्तेरस्य ग्रहणादन्य
वृत्तितया प्रसिद्धस्यापि प्रतिषेधं कण्ठोक्तं करोति । वृत्त इति वर्त्तते । यथा पूर्वे व्याचक्षते
सर्वरसभोक्ताऽयं भिक्षाकः इति । यथाऽयं सर्वशब्दः प्रकारकार्त्स्न्यवाची तद्वदत्रापीति ।
प्रकारकार्त्स्न्यवृत्तेरग्रहणे को गुण इत्याह--तत इति । ततः प्रकारकार्त्स्न्यवृत्तस्याग्रहणत् ।
तथापि कथमयमर्थो भवतीति चेत् । भवति हि प्रकारकार्त्स्न्यवचने सर्वशब्दे सत्ययमर्थः--न
सोऽस्ति पुरुषार्थसिद्धेः प्रकारः फललक्षण उपादानलक्षणो वा यो न सम्यग्ज्ञाननिबन्धन इति ।
सति चैवं द्विप्रकाराऽपि सिद्धिः सम्यग्ज्ञानपूर्विकेत्ययमर्थो भवति ।
ननु चास्मिन्नप्यर्थे प्रकारद्वितयस्य संगृहीतत्वात् किमसंगृहीतं नाम येनायमर्थो यत्नेन
महता हीयत इति? कथं न हीयतां कस्याश्चित् तत्प्रकारान्तःपतिताया हानव्यक्ते164... ... ...।
न हि षडपि रसप्रकारान् भुञ्जानः कश्चिन्मधुराम्लादिरसव्यक्तीः सर्वा एव भुङ्क्ते । न च
तथाऽकुर्वन् सर्वरसभोक्ता न भवतीति ।
यद्ययं नार्थः कस्तर्हीत्याह--अपि तु--इति । निपातसमुदायोऽयं किन्त्वित्यस्यार्थे
सर्वत्र वर्त्तते ।
ननु कृत्स्नैवासौ सम्यग्ज्ञाननिबन्धनेत्युच्यमाने मिथ्याज्ञानात् काकतालीयाऽप्यर्थसिद्धि
र्नास्तीति दर्शितं स्यात् । न चैतद् युज्यते । यतो यद्यपि मिथ्याज्ञानान्नियमवती नास्त्यर्थ
सिद्धिः, तथापि कादाचित्की विद्यत एव । यथा कश्चित् दहनोपरिवर्त्तिं मशकवर्त्तिं धूम
मवसायाग्निमनुमाय यदि प्रवृत्त्याऽग्निमासादयति । अत एव च मिथ्याज्ञानस्य कादाचित्कार्थ
33
सिद्धिनिबन्धनत्वात्, सम्यग्ज्ञानस्य तु नियमेनार्थसिद्धिनिबन्धनहेतुत्वात्सम्यग्ज्ञानमेव यत्नतो
व्युत्पाद्यते । न त्वेतावता मिथ्याज्ञानान्नास्त्येवार्थसिद्धिः । प्रकारकार्त्स्न्यवृत्तग्रहणे तु नायं
दोषः । एवं हि सम्यग्ज्ञानासाध्यः परप्रकारो निराक्रियते । न तु तत्प्रकारान्तःपातिन्याः
कस्याश्चित् सिद्धिव्यक्तेर्मिथ्याज्ञानसाध्यत्वम् । न च हानोपादानव्यक्तयः प्रत्येकं प्रकारशब्द
वाच्याः प्रकारानन्त्यप्रसङ्गात् । तस्मात् सर्वशब्दः प्रकारकार्त्स्न्यवृत्तिरेव ग्रहीतव्यः--इति
पूर्वेषां मतमाशङ्क्याह--मिथ्येति । काकतालयोः संयोग इवाकस्मिकी काकतालीया ।
कुतो नास्तीत्याह--तथा हीति । तत इति मिथ्याज्ञानात् । तदपि प्रापयत्येवेत्याह—
प्रदर्शितम् इति । चो यस्मात् ।
प्रदर्शितं प्रापयदपि मिथ्याज्ञानं भविष्यति । ततः सम्यग्ज्ञानमेवेत्यवधारणमयुक्त
मित्याह--प्रदर्शितम् इति । चोऽवधारणे अप्रापयदित्यतः परो द्रष्टव्यः । लक्षणहेत्वोःपाणिनि—
३. २. १२६ इति हेतौ शतुर्विधानात् । प्रदर्शितार्थाप्रापणादेव मिथ्याज्ञान 15a मित्यर्थः ।
मिथ्याज्ञानस्य हीदमेव तत्त्वं यत् प्रदर्शिताप्रापकत्वं नाम । प्रापके तु मिथ्याज्ञानव्यपदेशः समा
रोपितः स्यादिति भावः । मा भूत् प्रापकम्, तदर्थसिद्धेस्तु निबन्धनं किं न स्यादित्याह—
अप्रापकमिति । चो यस्मादर्थे ।
तस्मादित्यादिनोक्तार्थोपसंहारं करोति । यस्मादुपदर्शिताप्रापकमेव मिथ्याज्ञानं
तस्माद् यत्किञ्चिन्मिथ्याज्ञानं ततः सर्वत एव नार्थसिद्धिः । यः पुनरकस्माद् वह्नेरुपरि
मशकवर्त्तिं धूममवसाय वह्निमवस्यति, सोऽप्यनुमानकालात्पूर्वं यावन्मशकवर्त्त्यादिभ्यो व्यावृत्तं
वह्निकार्यं नियतं धूमरूपं निरूप्य विवेचितं तदानीमनुमानकाले नानुसरति, तदनुसरणे
भ्रान्त्ययोगात्, तावदनिवर्त्तिंते संशयहेतौ, तिष्ठतु तावन्मशकवर्त्तिदर्शनम्, सत्यधूमदर्शनेऽपि
सन्दिग्धवह्निकार्यत्वात्कथं निःशङ्को नाम सचेतनः । तस्मान्निश्चितनियतरूपादेव धूमाद्
वह्निनिश्चयः । अन्यस्मात्त्वेकांशावग्रहोऽप्यनिवर्तितशङ्काहेतुः संशय एव । संशयश्च भावाभावा
नियतस्यार्थस्याशक्यप्रापणस्य दर्शको नार्थसिद्धेर्निबन्धनम् । ज्ञानान्तरादेव तु सा प्राप्तिरित्य
स्याभिप्रायः । एवमन्यत्रापि मिथ्याज्ञाने यथा प्रामाण्यं न युज्यते, यथा च ज्ञानान्तरादेव सा
प्राप्तिस्तथा धर्मोत्तरेणैव विनिश्चयटीकायां विपञ्चितमिति नेह प्रतन्यते ।
कुतश्चिदर्थसिद्धिरपि स्यादित्याह--यतश्च--इति । चोऽन्यस्माद् भेदवद्रूपमुपदर्शयति ।
अर्थसिद्धिनिबन्धनं मिथ्याज्ञानमाचार्यस्यापि नाभिमतमिति सामर्थ्याद् दर्शयति । यदाऽऽह—
अत एवेति । यत एव मिथ्याज्ञानादर्थसिद्धिर्नास्ति, सम्यग्ज्ञानाच्चास्त्येव । अतोऽस्मादेव हेतोः ।
यत्नग्रहणमनुषङ्गेण मिथ्याज्ञानव्युत्पादनं दर्शयति । मिथ्याज्ञानस्यापि कस्यचिद् व्युत्पादना
दित्युक्तप्रायम् । अत एवेत्यनेन यदेव हेतुत्वेनापेक्षितं तदेव यत इत्यादिना सुखप्रतिपत्त्यर्थं
कण्ठोक्तं करोति । अयमाशयः--यद्याचार्यो मिथ्याज्ञानादप्यर्थसिद्धिं भवित्रीमभिप्रेयात्, तदा
न सम्यग्ज्ञानमेव प्रस्तारेण व्युत्पादयेत् । तदेव च तथा व्युत्पादितवान् । अतोऽवसीयते नैव
तस्येदमभिप्रेतमिति ।
ननु सम्यग्ज्ञानपूर्विकैवेत्यवधारणे सति मिथ्याज्ञानादर्थसिद्धिर्नास्तीति लभ्यते । न ततो यावद् ब्रूयात् 165या काचित् पुरुषार्थसिद्धिः 166सा सम्यग्ज्ञाननिबन्धनैवेति तावदुक्तं 170यद्यपि च171 समासे गुणीभूतं सम्यज्ञानं तथापीह प्रकरणे व्युत्पादयितव्यत्वात् 172व्युत्पाद्यते इति विप्रतिपत्तिनिराकरणेन प्रतिपाद्यते173 इति ॥
चोपात्तमवधारणम् तत्कथमयमर्थो लभ्यत इत्याह--तत इति । यतः सर्वशब्दे द्रव्यकार्त्स्न्य- 34
सर्वा सा167 सम्यग्ज्ञानपूर्विकेति । इतिशब्दस्तस्मादित्यस्मिन्नर्थे । यत्तदोश्च नित्यमभि
सम्बन्धः । तदयमर्थः--168यस्मात् सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिः, तस्मात् तत्169
सम्यग्ज्ञानं व्युत्पाद्यते ।
प्रधानम् । ततस्तस्यैव तच्छब्देन सम्बन्धः ।
वृत्तौ सति सर्वा कृत्स्ना पुरुषार्थसिद्धिः सम्यग्ज्ञानपूर्विका, न तु काचिद् व्यक्तिरस्ति या न
तत्पूर्विकेत्ययमर्थो लभ्यते, ततः कारणात् पुरुषार्थसिद्धिः सम्यज्ञाननिबन्धनैवेति सावधारणं
वाक्यम् । यत्परिमाणमभिधेयं ब्रूयाद् वक्तुं शक्नोति, तावत्परिमाणमुक्तम् सर्वा सम्यज्ञान
पूर्विकेत्यनेन । वर्त्ततामितिशब्दस्तस्मादित्यस्यार्थे । क्व पुनर्यत् शब्दोऽस्ति येन वक्ष्य
माणार्थसङ्गतिरित्याह--यद् इति । चो 15b व्यक्तमेतदित्यस्मिन्नर्थे । शब्दयोः साक्षा
दन्योन्यापेक्षाभावात् यत्तदर्थयोरिति द्रष्टव्यम् । अभिसम्बन्धो व्यपेक्षा । एवं सति कीदृशोऽर्थो
व्यवतिष्ठत इत्याह--तद् इति ।
ननु बहुव्रीहौ गुणीभूतं सम्यग्ज्ञानं तत्कथं तस्याप्रधानस्य प्रधानप्रत्यवमर्शिना तच्छब्दे चतुर्विधा चात्र विप्रतिपत्तिः संख्या-लक्षण-गोचर-फलविषया । तत्र संख्याविप्रतिप्रत्तिं द्विविधं सम्यग्ज्ञानम् ॥ २ ॥ द्विविधम्174 इति--द्वौ175 विधौ प्रकारावस्येति द्विविधम् । संख्याप्रदर्शनद्वारेण च
परामर्शः स्यादित्याह--यद्यपि चेति । यद्यपि चेति निपातसमुदायो विशेषाभिधानार्थाभ्युपगमे
बर्त्तते । महाभाष्ये चायं प्रायेण दृश्यते । समास इति समासार्थ इत्यर्थः । व्युत्पादयित
व्यत्वात्प्रधानमित्यभिदधतोऽयमाशयः--द्वेधा हि प्राधान्यं शब्दतोऽर्थतश्च । तत्र शाब्देन
न्यायेनासत्यपि प्राधान्ये सम्यग्ज्ञानस्य व्युत्पादयितव्यतया बुद्ध्यन्तरेणोपस्थापितस्य स्वतन्त्र
स्याऽऽर्थेन न्यायेन प्राधान्यं कोऽपहस्तयेदिति तच्छब्देन तस्य परामर्शो न विरुद्ध्यत इत्येवं
व्याचक्षाणो विनीतदेवव्याख्यां तिरस्करोति । एवं ह्यसौ व्याचष्टे--तदिति नपुंसकलिङ्गेन
निर्देशात् सम्यग्ज्ञानं परामृश्यत इति । सम्यग्ज्ञानस्याप्राधान्येन परामर्शानुपपत्तौ तल्लिङ्ग
ग्रहणस्यैवायोगात् कथमसिद्धेन साध्यतामित्याशयः । ततः प्राधान्यात्तस्यैव सम्यग्ज्ञानस्य
35
निराकर्त्तुमाह--
व्यक्तिभेदो दर्शितो भवति ।
तच्छब्देन सम्बन्धनं सम्बन्धः स्वीकार इति यावत् । ततोऽयमर्थः--तत् सम्यग्ज्ञानं कर्मभूतं
विप्रतिपत्तिनिराकरणेन प्रतिपाद्यते बोध्यते शिष्यजन इत्यर्थात् । अत एव तदिति द्वितीयान्त
मेतदिति सोपपत्तिकमाह ।176 समयं स्म177र्यते परः प्रमाणवा०--४. २६७ इति यथा ।
विप्रतिपत्तिनिराकरणेन प्रतिपाद्यत इति ब्रुवता लक्षणं नं विरुध्यते । प्रसिद्धानि प्रमाणानि
न्याया० २ इत्यादि तदपहस्तितं वेदितव्यम् ।
ननु वार्त्तिकादिनैव सम्यग्ज्ञानस्य व्युत्पादनात् कथमस्य न वैयर्थ्यमिति चेत् संक्षिप्तरुचीन्
प्राज्ञानधिकृत्येदं प्रकरणं प्रणीतमित्यदोषः ।
अथ काऽत्र विप्रतिपत्तिः यन्निराकरणेनेदं प्रतिपाद्यत इत्याह--चतुर्विधेति । चो
यस्मात् । चतुर्विधा चतुःप्रकारा । अत्र सम्यग्ज्ञाने विरुद्धा प्रतिपत्तिर्विप्रतिपत्तिः । किं
विषया सेत्याह--संख्येति । अनेन विषयभेदाच्चातुर्विध्यं विप्रतिपत्तेर्दर्शितम् । तथाहि
संख्याविप्रतिपत्तिस्तावत् प्रत्यक्षमेवैकं प्रमाणमिति लोकायतिकानाम् । प्रत्यक्षानुमानाप्तवचनानि
त्रीण्येव प्रमाणानीति सांख्यानाम् । आर्षस्य ज्ञानस्य प्रतिभापरनाम्नः कदाचिदिह लौकिकाना
मुत्पद्यमानस्य प्रत्यक्षानुमानयोरेकत्राप्यन्तर्भावाप्रदर्शनात्प्रत्यक्षानुंमानार्षाण्येवेति चिरन्तनवैशेषि
काणाम् । प्रत्यक्षानुमानोपमानशब्दा एवेति नैयायिकानाम् । प्रत्यक्षानुमानोपमानशब्दार्थापत्तय
एवेति प्राभाकराणामिति । प्रत्यक्षानुमानोपमानशब्दार्थापत्त्यभावा एवेति कौमारिलानाम् ।
लक्षणविप्रतिपत्तिरपि--सविकल्पकमेव प्रत्यक्षमिति वैयाकरणबार्हस्पत्यादीनाम् ।
सविकल्पकं निर्विकल्पकं चेति नैयायिक 16a मीमांसकादीनाम् । पीतशङ्खादिज्ञानं भ्रान्तमपि
प्रत्यक्षमित्यंशसंवादवादिनाम् । एकलक्षणहेतुजमनुमानमित्यह्रीकाणाम् । षड्लक्षणहेतुजमिति
पूर्वयौगानाम् । पञ्चलक्षणहेतुजं चतुर्लक्षणहेतुजं चे178ति नैयायिकानाम् ।
विषयविप्रतिपत्तिरपि--सामान्यविषये प्रत्यक्षानुमाने इति नैयायिकमीमांसकादीनाम् ।
फलविप्रतिपत्तिरपि--सर्वेषां प्रमाणा179व्यतिरिक्तमेव प्रमाणरू180पं फलमिति ।
तत्र तासु मध्ये संत्ख्यात्वजात्या निर्धार्यते । ततो निर्धारणे युक्तं द्वौ विधौ प्रकारावस्येति द्वे181 एव सम्यग्ज्ञानव्यक्ती इति । 182व्यक्तिभेदे च183 प्रदर्शिते प्रतिव्यक्तिनियतं सम्य
विगृह्णन् विधशब्दोऽप्यस्ति प्रकारवाचीति दर्शयति । तथा हि प्रकीर्णवृत्तिकृद्धर्मपालेनापि
36
ग्ज्ञानलक्षणमाख्यातुं शक्यम् । अप्रदर्शिते तु व्यक्तिभेदे सकलव्यक्तत्यनुयायि सम्यग्ज्ञान
लक्षणमेकं न शक्यं वक्तुम् । ततो लक्षण184 कथनाङ्गमेव संख्याभेदकथनम् । अप्रदर्शिते 185तु
व्यक्तिभेदात्मके संख्याभेदे लक्षणभेदस्य दर्शयितुमशक्यत्वात् । लक्षणनिर्देशाङ्गत्वादेव च
प्रथमं संख्याभेदकथनम् ॥
विधशब्दः प्रकारवाची प्रदर्शितः । न पुनरस्यायमभिप्रायः--विधा186शब्दो जातिवाचित्वात्प्रकार
वाची न भवतीति । अनेकार्थत्वात्तस्य प्रकारवाचिनोऽपि प्रयोगस्य चतसृषु चैवंविधासु
तत्त्वं परिसमाप्यते न्यायभा० पृ० २ इत्यादावनेन प्रायशो दृष्टत्वात् ।
ननु कथं नाम प्रमाणादेव प्रवर्त्तेय नाप्रमाणादिति प्रवर्त्तितुमनाः प्रमाणस्य लक्षणमेव
जिज्ञासते न सङ्ख्याम् । ततो लक्षणमेव व्युत्पाद्यं न सङ्ख्या । तच्च लक्षणं यद्येकस्यैवास्ति
तदेकमेव प्रमाणम् । अथ बहूनां तदा प्रमाणबाहुल्यमनिवार्यमेव । अथ तल्लक्षणं नैकस्यैवास्ति,
नापि बहूनाम् । तर्हि लक्षणव्युत्पत्तौ सामर्थ्यात्संख्याविप्रतिपत्तिर्निराकृता भवतीति किं पृथक्
संख्याविप्रतिपत्तिनिराकरणेनेत्याह--संख्येति । चो यस्मादर्थे । द्वारमुपायः ।
केनाकारेण दर्शितो भवतीत्याह--द्वे इति । इतिना व्यक्तिभेदस्य स्वरूपमाह । व्यक्ति
भेदेनैव दर्शितेन किं प्रयोजनमित्याह--व्यक्तिभेदे चेति । चो यस्मादर्थे । यद्यदर्शितेऽपि व्यक्तिभेदे
लक्षणाख्यानं शक्यं तथापि किं दर्शितेनेत्यन्वयमात्रादप्रतिपत्तेर्व्यतिरेकमपि दर्शयितुमाह—
अप्रदर्शित इति । तुः प्रदर्शनपक्षादप्रदर्शनपक्षस्य भेदमाह । सकलव्यक्त्यनुयायीति ब्रुवतोऽयं
भावः--व्यक्तिभेदानुपदर्शने प्रतिव्यक्तिनियतस्य लक्षणस्याख्यातुमशक्यत्वात् । लक्षणमुच्यमानं
सकलव्यक्त्यनुयायि तदेकं वक्तव्यम् । न च तद् वक्तुं शक्यमसम्भवादेवेति ।
ननु किमुच्यते सकलव्यक्त्यनुयायि वक्तुमशक्यमिति यावताऽविसंवादिज्ञानं प्रमाण
मित्यस्ति लक्षणमेकं सुवचमपीति । सत्यम् । केवलं ज्ञानानां यत्प्रातिस्विकं रूपं प्रवृत्तिकामानां
प्रवृत्त्युपयोगि, तदुपलक्षणं नास्तीत्यभिप्रायाददोषः । यद्वा विप्रतिपत्तिनिराकरणप्रवणं यत्सा
धारणं लक्षणं तन्नास्ति । यच्चाविसंवादित्वं लक्षणं न तेन विप्रतिपत्तिर्निराकृता भवति ।
अन्यत्रापि परैरविसंवादित्वस्येष्टत्वादित्यनेनाभिप्रायेणोक्तम्--न शक्यमेकं वक्तुमितिविशेषप्रति
षेधसामर्थ्यात् शेषविधिसिद्धौ च तथाभूतस्य साधारणस्य सम्भवादेव सकलशब्दोऽयमुपयुक्त
कार्त्स्न्ये प्रवर्त्त16b नीयः । तेनायमर्थः--प्रदर्शितव्यक्तिभेदात्मकचतुर्विधप्रत्यक्षानुयायि कल्पनाऽ
पोढाभ्रान्तत्वम्, प्रदर्शितव्यक्तिभेदात्मकद्विविधानुमानानुयायि त्रिरूपलिङ्गजत्वं शक्यं वक्तुमिति ।
यदि नामैवं ततः किमित्याह--तत इति । यतोऽप्रदर्शिते न शक्यमेकं तथाविधं दर्शयितुं तत
स्तस्मात् । लक्षणकथनाङ्गमिति प्रतिव्यक्तिनियतलक्षणकथनाङ्गमित्यवसेयम् ।
37
अथ तथाविधं लक्षणमेकं वक्तुं न शक्यतां नाम । किमतः ? केवलमदर्शितेऽपि संख्याभेदे
लक्षणभेदो दर्शयितुं शक्यताम् । तत् कस्मात्तत्कथनाङ्गं संख्याभेदकथनमित्याशङ्क्यान्वयमुखे
नोक्तमर्थं द्रढयितुं व्यतिरेकमुखेणाह--लक्षणेति । लक्षणभेदस्य प्रतिव्यक्तिभिन्नस्य दृष्टस्य ।
कदा दर्शयितुमशक्यत्वं यत एवं भवतीत्याकाङ्क्षायाम्--अप्रदर्शित इति पश्चाद् योजनीयम् ।
तुरवधारयति, प्रदर्शिताद् वा भिनत्ति ।
ननु च न संख्याभेद एव व्यक्तिभेदः । तत् कथं व्यक्तिभेदात्मक इत्युच्यत इति चेत् ।
वस्तुतः संख्येयादन्यस्याः संख्याया वास्तव्या अभावेन संख्यासंख्येययोरेकत्वविवक्षया चैवमुच्यते ।
पूर्वं तु कल्पनानिर्मितात्मनां188भिन्नामवलम्ब्य संख्याप्रदर्शनद्वारेणेत्युक्तम् । संख्यासंख्येययो
रेकत्वविवक्षयैव च संख्याविप्रतिपत्तिं निराकर्त्तुमाहेत्युक्तमवसेयम् । परमार्थतस्तु प्रत्यक्षमनुमानं
चेत्युक्तेः संख्यासंख्येयविप्रतिपत्तिरेव निराकृतेति । अथवा वस्तु189 भेदस्तदात्मा तथा
विधः कल्पनाशिल्पिनिर्मितो यस्य संख्याभेदस्य स तथोक्तः । परमार्थतो भिन्ने हि वस्तुनि
संख्याभेदः कल्प्यत इति वास्तवरूपानुवादमिदमुक्तमिति किमवद्यम् ? सर्वेण चानेन नै190
तदुक्तम्--प्रवृत्तिकामानामुपयोगित्वाल्लक्षणमेव वक्तुं युक्तं तदेतत्त्वन्यथा न शक्यमाख्यातु
मिति संख्याभेदप्रदर्शनमिति ।
नन्वसत्यपि द्विविधमिति संख्याभेदप्रदर्शने तत् सम्यग्ज्ञानं प्रत्यक्षमनुमानं चेत्युक्तेऽपि
व्यक्तिभेदो दर्शितो भवत्येव । सति चैवं लक्षणभेदाख्यानमपि सुकरमिति कृतं द्विविधशब्देनेति
चेत् । सिद्धे सतीदं वचनं द्विविधमेवेति नियमार्थमिति ब्रूमः । इतरथेह तावदेताव
द्व्युत्पाद्यतया प्रस्तुतमन्यत्र पुनरन्यदप्यस्ति व्युत्पाद्यं सम्यग्ज्ञानमित्याशङ्काहत्य न निराकृता
स्यादिति । यत्पुनरुक्तम्--तर्हि लक्षणव्युत्पत्त्यैव संख्याविप्रतिपत्तिर्निराकृता भवतीति तदत्यन्त
मसङ्गतम् । यतो यदि विशेषलक्षणमभिप्रेत्येदमुच्यते; तदा व्यक्तिभेदानुपदर्शने प्रतिव्यक्ति
नियतं तदेवाशक्यं191कथनमित्युक्तम् । न चोक्तमिति तथा कर्त्तुमीष्टे । यतस्तदीदृशं
प्रत्यक्षमनुमानं चेत्येतत्कर्त्तुं शक्नोति । न त्वाभ्यामन्यन्न सम्यग्ज्ञानमिति । अथ सामान्यलक्षणम् ।
तदपि तथाविधं साधारणं वक्तुमशक्यमिति केन तथा क्रियताम् ? न च तेनोक्तेनापि तादृशी
विप्रतिपत्तिर्निराक्रियत इत्युक्तम् । अथापि स्यात्--द्विविधमित्युक्तेऽपि कथ 17a माभ्यामन्य
स्यासम्यग्ज्ञानत्ववि192गमः? उच्यते । ये तावदाचार्यप्रमाणका व्युत्पित्सवस्ते तद्वचन
मात्रेणैव विवक्षितमर्थं बोध्यन्ते । ये ते युक्त्यनुसारिणस्तेभ्योऽपि प्रकरणान्तरेषूपपत्ति
रुदाहृता । प्राज्ञजनाधिकारेण चास्य प्रकरणस्य प्रारम्भात्स्वयमेव तैरुपपत्तिरुक्तेति न संख्या
वचनमनुपादेयमिति । अस्तु लक्षणनिर्देशाङ्गम्, आदौ तु कस्मादुच्यत इत्याह--लक्षण इति ।
चस्तुल्योपायत्वं समुच्चिनोति ।
यथाकथञ्चिद् द्वैविध्यसम्भवे पृच्छति--किं पुनरिति । किमिति सामान्यतः, पुनरिति प्रत्यक्षमिति । प्रतिगतमाश्रितम् अक्षम् । अत्यादयः क्रान्ताद्यर्थे द्वितीयया
38
वा० २. २. १८. इति समासः । प्राप्तापन्नालङ्गति193 समासेषु परवल्लिङ्गप्रतिषेधाद्
अभिधेयवल्लिङ्गे सति सर्वलिङ्गः प्रत्यक्षशब्दः सिद्धः । 194अक्षाश्रितत्वं च व्युत्पत्तिर्निमित्तं
शब्दस्य । न तु प्रवृत्तिनिमित्तम् । 195अनेन 196त्वक्षाश्रितत्वेनैका 197र्थसमवेत 198मर्थसाक्षा
त्कारित्वं 199लक्ष्यते । तदेव शब्दस्य प्रवृत्तिनिमित्तम् । ततश्चा यत्किञ्चिदर्थस्य साक्षात्कारि
ज्ञानं तत् प्रत्यक्षमुच्यते ।
विशेषतः । अभिमतमाह--प्रत्यक्षम् इति । प्रत्यक्षमित्यत्र कः समासः, केन च सूत्रेणेत्याशङ्क्य
सुखप्रतिपत्त्यर्थं विप्रतिपत्तिनिराकरणार्थं चाह प्रतिगतम् इत्यादि । अक्षमिन्द्रियं गतमाश्रितं
जन्यतया, न त्वाधेयभावेन । एवं च विगृह्णन् अक्षमक्षं प्रति वर्त्तत इति व्युत्पत्तिप्रकारेणाव्ययी
भावं निरस्यति । समास एकार्थीभावः । स चायं समासस्तत्पुरुषसंज्ञको ज्ञातव्यः । केन
सूत्रेणायमित्याह--अत्यादय इति । आहोपुरुषिकयाऽयं प्रकारस्त्वया दर्शितो न त्वस्य कश्चिद्
गुणोऽस्तीत्याह--सर्वलिङ्ग इति । अव्ययीभावपक्षे प्रत्यक्षो वृक्षः प्रत्यक्षा मृगाश्चेति न स्यात् ।
प्रत्यक्षस्येति श्रुतिश्च न स्यादित्यभिप्रायः । कथं पुनः सर्वलिङ्गताऽस्येत्याह--अभिधेयवदिति ।
अभिधेयस्येवाभिधेयवत् । अभिधेयवल्लिङ्गं यस्य तत्तथा तस्मिंश्च सत्ययं प्रत्यक्षशब्दः
सर्वलिङ्गः ।
ननु च परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः पाणिनि--२. ४. २६ इति समस्तेन प्रत्यक्षशब्देन
प्रतिशब्दो200पेक्षया परस्थानस्थितस्याक्षशब्दस्य लिङ्गपरिग्रहात्कथमस्याभिधेयवल्लिङ्गते
त्याह--प्राप्तेति ।
ननु केनास्य परवल्लिङ्गनिषेधः ? न तावत् प्राप्तापन्नालङ्गतिसमासेन तेषां
स्वरूपग्रहणात्तत्र । अत्र च तदभावात् । गतिसमासादिति चेत् । तदप्यसत्, उपसर्गाः क्रियायोगे
पाणिनि--१. ४. ५९ इत्यतः क्रियायोगे वर्त्तमाने गतिश्च पाणिनि--१. ४. ६० इत्यनेन
क्रियायोग एव गतिसंज्ञाविधानात् । न चायं प्रतिशब्दः क्रियायोगी । न च गमनक्रिया
योगोऽत्रास्तीति वाच्यम् । प्रतिशब्दस्यैव तत्रार्थे वर्त्तमाना201त् नायं दोषः,
गतिग्रहणेन तत्र येषां गतिसंज्ञा दृष्टा तेषां ग्रहणात् । प्रत्यादीनां सा दृष्टेति तेषामपि
तथात्वेन सङ्ग्रह इति ।
यद्येवं समासस्तर्हि कथमाचार्यदिग्नागेन अक्षमक्षं प्रति वर्त्तत इति प्रत्यक्षम्
न्यायमुख इत्युक्तम् ? तदर्थमात्रं कथितमित्यदोषः ।
39
यदि त्वक्षाश्रितत्वमेव प्रवृत्तिनिमित्तं स्याद् इन्द्रियविज्ञानमेव202 प्रत्यक्षमुच्येत, न
मानसादि । यथा गच्छतीति गौः इति गमनक्रियायां व्युत्पादितोऽपि गोशब्दो गमनक्रियो
पलक्षितमेकार्थसमवेतं गोत्वं203 प्रवृत्तिनिमित्तीकरोति । तथा च गच्छत्यगच्छति च गवि
गोशब्दः सिद्धो भवति ।
मीयतेऽनेनेति मानम् । करणसाधनेन मानशब्देन204 सारूप्यलक्षणं प्रमाणमभिधीयते ।
लिङ्गग्रहण सम्बन्धस्मरणस्य पश्चात् मानम् अनुमानम् । गृहीते205 पक्षधर्मे स्मृते च
साध्यसाधनसम्बन्धेऽनुमानं प्रवर्त्तत इति पश्चात्कालभाव्युच्यते ।
अथ प्रतिगतमाश्रितमक्षमित्यस्यामपि व्युत्पत्तौ मानस-स्वसंवेदन-योगिप्रत्यक्षाणां न
स्यात्प्रत्यक्षशब्दवाच्यतेत्याह--अक्षाश्रितत्वम् इति । चो यस्मात् । प्रकृत्यादिविभागेन शब्दस्य
निष्पत्तिर्व्युत्पत्तिः । प्रवृत्तिरर्थाभिधानम् शब्दस्येति प्रकृतस्य प्रत्यक्षशब्दस्य । तुरवधारणे । किं
तर्हि प्रवृत्तिनिमित्तमित्याह--अनेन--इति । तुना व्युत्पत्तिनिमित्तादस्य भेदं द17b र्शयति ।
यत्तदोर्नित्यमभिसम्बन्धात् यदक्षाश्रितत्वेनार्थसाक्षात्कारित्वमर्थापरोक्षीकरणमुपलक्ष्यते तदेव तु
प्रत्यक्षशब्दस्य प्रवृत्तिनिमित्तम् । कथं पुनरन्येनासम्बद्धेनान्यस्योपलक्षणम् ? मा भूदि206तिप्रसक्ति
रित्याह--एकार्थसमवेतम् इति हेतुभावेन विशेषणात् । यत एकार्थसमवेतं ततो लक्ष्यत
इत्यर्थः । एकस्मिन्नर्थे ज्ञानलक्षणेऽर्थसाक्षात्कारित्वमक्षाश्रितत्वेन समं समवेतम् । यद्यपि
परमार्थतः समवायसमवायिनौ न स्तस्तथापि तद्व्यावृत्तिनिबन्धनयोस्तथाभूतवस्त्वाश्रयेण
कल्पितयोरक्षाश्रितत्वार्थसाक्षात्कारित्वयोरेकार्थसमवायस्य च कल्पितस्य सम्भवादेवमभिधाने
को विरोधः ? परप्रसिद्ध्या वा एवमुक्तमिति का क्षतिः ? एवमपि कथं पूर्वदोषातिवृत्ति
रित्याह--ततश्चेति । साक्षात्कारित्वस्य प्रवृत्तिनिमित्तत्वात् । चशब्द एव तस्मादिदमुच्यत इत्यर्थं
द्योतयति ।
अक्षाश्रितत्वे प्रवृत्तिनिमित्ते को दोष इति पार्श्वस्थस्याश्रुतचोदकवाक्यस्य वचन
माशङ्क्याह--यदि--इति । तुना भेदवदेतद्दर्शयति ।
अथाभिधीयते--यदर्थसाक्षात्करणमक्षाश्रितत्वेन समवेतं तदेवानेनोपलक्षणीयमिति तद
वस्थे207मानसादेरसङ्ग्रह इति । न । अक्षजत्वस्योपलक्षणत्वेनाप्राधान्यादर्थसाक्षात्कारित्व
मुपलक्ष्यमाणं प्रधानमुपलक्ष्यैव निवृत्तेरदोष एव । यथा काकेभ्यो दधि रक्ष्यतामित्यत्र ।
अन्यथाऽत्रापि काकत्वेनैकार्थसमवेतस्योपधातकत्वस्योपलक्षणात्, श्वादिभ्यो दधिरक्षा न स्यात् ।
अथ यदेवोपधातकं208 काकेषु समवेतं तदेवान्यत्रापि । तच्चोपलक्षितमिति तदन्यतोऽपि
दधिरक्षोच्यते । अर्थसाक्षात्कारित्वेऽपि समानमिदमिति कथं न मानसादेः प्रत्यक्षशब्दाभि
लाप्यत्वमिति । किं दृष्टमिदं यदन्यत्र व्युत्पादितोऽपि शब्दोऽन्यत्र तत्प्रवृत्तिविषयीकरोती
त्याह--यथेति । सुगममेतत्, केवलमपिरवधारणे गोत्वम 209 स्मात्परो द्रष्टव्यः ।
प्रत्यक्षमूलत्वादनुमानस्यादौ प्रत्यक्षमुपात्तं प्रत्येयम् । यत्र हि निमित्तान्तरं दर्शयितु चकारः प्रत्यक्षानुमानयोस्तुल्यबलत्वं समुच्चिनोति । यथार्थाविनाभावित्वादर्थं प्रापयत् तत्र प्रत्यक्षं कल्पनाऽपोढमभ्रान्तम् ॥ ४ ॥ तत्रेति सप्तम्यर्थे वर्त्तमानो निर्धारणे वर्त्तते । ततोयं वाक्यार्थः--तत्र तयोः प्रत्यक्षा
40
प्रत्यक्षं प्रमाणम्, तद्वदर्थाविनाभावित्वाद् अनुमानमपि परिच्छिन्नमर्थं प्रायपत् प्रमाणमिति ॥
नमानयोरिति समुदायनिर्देशः । प्रत्यक्षम् इत्येकदेशनिर्देशः210 । तत्र समुदायात् प्रत्यक्षत्व
जात्यैकदेशस्य पृथक्करणं निर्धारणम् । तत्र प्रत्यक्षमनूद्य211 कल्पनाऽपोढत्वम्, अभ्रान्तत्वं च212
विधीयते । यत्213 तत् भवताम् अस्माकं चार्थेषु साक्षात्कारि ज्ञानं प्रसिद्धं तत् कल्पनाऽपोढा
भ्रान्तत्वयुक्तं द्रष्टव्यम् ।
मशक्यं तत्र क्रमप्रवृत्तित्वाद् वाचः, क्रमस्य न्यायप्राप्तत्वादित्युच्यते, न तु सत्यपि निमित्तान्तरे
यथोद्देशमेव व्याख्यानं युक्तमिति ।
प्रत्यक्षपदं व्याख्यायाधुनाऽनुमानपदं व्याचिख्यासुः मानशब्दस्य तावदर्थमाचष्टे मीयत
इति । एवं व्युत्पादितेनानेन शब्देन किं प्रतिपाद्यत इति ? करणेति । करणस्यानुमान
लक्षणक्रियासिद्धौ साधकतमस्य साधनेन वाचकेन । सारूप्य214लक्षणं स्वभावो यस्य तत्तथा ।
हेतुभावेन चैतद् विशेषणम् ।
यद्येवं कथं तर्हि क्वचित् त्रिरूपाल्लिङ्गाद् यदनुमेये ज्ञानं तदनुमानम् इति ? सारूप्यो
पलक्षितं ज्ञानमेव तथाऽभिधास्यत इति को विरोधः ? एवं तावन्मानम् । अनुमानं तु
कथमित्याह--पश्चाद् इति । अनेन पश्चादर्थवृत्तेनानुशब्दस्य मानशब्देन सह गतिप्रादय
इत्यनेन तत्पुरुषसमासं दर्शयति । न च मानस्य पश्चादिति 18a विवक्षितम्, येनानुरथादि
वदव्ययीभावो भवेत् । अत्र हि मानमेव पक्षधर्मग्रहणादेः पश्चाद्भावि विवक्षितम् । न मानस्य
पश्चाद्भावि किञ्चिदिति । अव्ययीभावपक्षे तु न केवलं विवक्षितार्थक्षतिः, किन्त्वनु मानस्येति
षष्ठी च न श्रूयेत । कस्य पश्चादित्याह--लिङ्गेति । षष्ठ्यतसर्थप्रत्ययेन पाणिनि--२. ३. ३०
इत्यनेन पश्चात् शब्दयोगे षष्ठीयम् । कथमेतद् द्वयस्य पश्चाद् भाव्यनुमानमित्याह--गृहीत
इति । तुल्यबलत्वं तुल्यसामर्थ्यम् । प्रामाण्यासादनायेति प्रकरणवशात् । यथेत्यादिनैतदेव
समर्थयते । अनुमानस्य त्वर्थाविनाभावित्वं पारम्पर्येण द्रष्टव्यम् । न चैवं प्रापणे प्रामाण्यावहे
कश्चिद् विशेषः । परिच्छिन्नमित्यध्यवसितम् । एवं ब्रुवतः प्रत्यक्षमप्यध्यवसितमेव सन्तानं
प्रापयत् प्रमाणम् । इदमपि तथेति कथमस्य न तथात्वमिति भावः । तुल्यबलप्रदर्शनेऽप्ययं
भावः । प्रत्यक्षस्यापि यदर्थाविनाभावित्वं तत् तदुत्पत्तिनिमित्तकमेव । तच्चानुमानस्यापि
समानमिति अर्थाव्यभिचारेणापि निमित्तिना समानेन भाव्यमिति ।
41
न215 चैतन्मन्तव्यम्--कल्पनाऽपोढाऽभ्रान्तत्वं चेदप्रसिद्धम्, किमन्यत् प्रत्यक्षस्य ज्ञानस्य
रूपमवशिष्यते यत् प्रत्यक्षशब्दवाच्यं सद् अनूद्येतेति । यस्मादिन्द्रियान्वयव्यतिरेकानुविधा
य्यर्थेषु साक्षात्कारिज्ञानं प्रत्यक्षशब्दवाच्यं सर्वेषां216 प्रसिद्धम्, तदनुवादेन कल्पनाऽपोढाभ्रान्त-217
त्वविधिः ।
कल्पनाया अपोढम् अपेतं कल्पनापोढम् । कल्पना218 स्वभावेन रहितमित्यर्थः । अभ्रान्त-
अनेन प्रत्यक्षमेकं प्रमाणम् इति ब्रुवाणश्चार्वाकः, अनुमानादर्थनिश्चयो दुर्लभः ।
कनिष्ठं च तत्प्रमाणम् इत्याचक्षाणो मीमांसकश्च निरस्तः । सर्वत्रायम् इतिर्वाक्यार्थपरि
समाप्तौ । यत्र त्वर्थविशेषे वर्त्तते स कथ्यत एव ।
तत्रेत्यादि निर्धारणमित्यन्तं सुगमम् । केवलमिन्द्रियज्ञानादिप्रत्यक्षानुयायित्वात्प्रत्य
क्षत्वाख्या जातिर्या व्यवहारसिद्धा तयेति द्रष्टव्यम् ।
तत्रेत्ययमेवं व्यवस्थिते सतीति वाक्योपन्यासे । एवं चानुवादविधिक्रमेण यदन्यदन्येन
व्याख्यातम् प्रत्यक्षमिति संज्ञा कल्पनापोढत्वादि संज्ञ्येव । तेन संज्ञासंज्ञिसम्बन्धः प्रतिपाद्यते
इति तद् विप्रतिपत्तिनिराकरणे प्रस्तुतेऽप्रस्तुतम् । ततोऽपव्याख्यानमिति प्रकाशयति । यदप्य
परेण व्याख्यातं प्रदेशान्तरप्रसिद्धयोः कल्पनापोढत्वाभ्रान्तत्वयोरनुवादेन प्रत्यक्षत्वं विधीयते
इति तदपि न चतुरस्रमिति प्रतिपादयति । यतः प्रसिद्धे लक्ष्यलक्षणभावे लक्षणानुवादेन
लक्ष्यं विधेयम्, अप्रसिद्धे तु लक्षणवाक्येन लक्षणमेव विधेयम्, न लक्ष्यमिति न्याय इति ।
अनयोश्च पक्षयोर्यावान् समर्थनदूषणप्रकारस्तावाननेनैव विनिश्चयटीकायां स्वयं विवेचित
इति नेहोच्यते । कथं प्रत्यक्षत्वानुवादेन कल्पनापोढत्वादिविधानमित्याह--प्रसिद्धमिति ।
अनेन पूर्वं प्रसिद्धस्य पश्चाच्छब्देनाभिधानमनुवाद इति दर्शयति । तदेवं द्रष्टव्यमिति विदधा
नोऽज्ञातस्य शब्देन ज्ञापनं विधिरिति दर्शयति ।
न चैतदित्यादीतिशब्दान्तं सुबोधम् ।
इन्द्रियान्वयव्यतिरेकानुविधायिग्रहणं मानसाद्यसाधारणतयाऽनुपन्यासार्हमपि प्रत्यक्ष
शब्दप्रवृत्तिनिमित्तस्यार्थसाक्षात्कारित्वस्य यदुपलक्षकं तदुपदर्शनार्थमुपन्यस्तमिति ज्ञातव्यम् ।
परिपाट्या प्रसिद्धत्वप्रदर्शनार्थं वा । तथा हि प्रथमं यत् तद् इन्द्रियान्वयव्यतिरेकानुविधायितया
प्रत्यक्षं प्रसिद्धमिति प्रतिपाद्यते । तदनु यदीदमिन्द्रियाश्रितं ज्ञानं भवतां प्रत्यक्षं प्रसिद्धं तत्रापि
प्रत्यक्षश 18b ब्दप्रवृत्तावर्थसाक्षात्कारित्वमेव निमित्तं जानीते इति प्रतिपाद्यते । तदनु
वादेनेति सुगमम् ।
यत् कल्पनयाऽपोढं रहितं तत् कल्पनाया अपोढमपगतं भवतीत्यर्थाभेदं मत्वा कल्पनाया
अपोढमिति कर्त्तरि निष्ठामाह । न तु कल्पनापोढमिति कर्त्तरि निष्ठैव । एवं हि तया
रहितमित्याचार्यविवरणविरोधः स्यात् ।
42
मर्थक्रियाक्षमे वस्तुरूपेऽविपर्यस्तमुच्यते । अर्थक्रियाक्षमं च219 वस्तुरूपं सन्निवेशोपाधिवर्णात्मकम्220 ।
तत्र यन्न भ्राम्यति तदभ्रान्तम् ।
ननु किमेकस्मिन् ज्ञाने ज्ञानान्तरसम्भवोऽस्ति येनायं प्रतिषेधः शोभेत ? कल्पनाज्ञानेऽपि
च कल्पनान्तरं नास्तीति तदपि कल्पनापोढं प्रसज्येतेति वचनावकाशं पश्यन् कल्पनास्वभावे
ने221 त्यादिनाऽस्य विवक्षितमर्थं स्फुटयति ।
एवञ्च ब्रुवन् कल्पनाऽपोढमित्यत्राचार्योये लक्षणवाक्ये भावप्रधानोऽयं कल्पनाशब्दः,
तेन कल्पनात्वेन रहितमित्यर्थ इति दर्शयति । धर्मिणा वा कल्पनाख्येन धर्मस्याभिलापसंसर्ग
योग्यप्रतिभासत्त्वाख्यस्य निर्देशं दर्शयति । उभयथाऽपि कल्पनास्वभावरहितमित्यर्थः इत्यस्य
स्फुटीकरणस्य घटनात् । कल्पना च वक्ष्यमाणलक्षणा ग्राह्या । एवं च शब्दार्थं स्फुटयताऽनेन
यद् आचार्यदिग्नागीयप्रत्यक्षलक्षणदूषणावसरे--कल्पना नामजात्यादियोजना । तेन यन्नाम्ना
नाभिधीयते, जात्यादिना च न व्यपदिश्यते विषयभेदानुविधायि यज् ज्ञानं तत्प्रत्यक्षम्
न्यायवा० पृ० ४१ इत्यर्थं परिकल्प्य अथ प्रत्यक्षशब्देन कोऽर्थोऽभिधीयते । यदि प्रत्यक्षं
कथमवाच्यम् ? अथ न प्रत्यक्षमवाचकस्तर्हि प्रत्यक्षशब्दः । प्रत्यक्षत्वसामान्याभिधानेऽपि यदि
तद्व्यतिरेकि; न प्रत्यक्षमुक्तम् । अथाव्यतिरेकि । कथं नोक्तम् ? कल्पेनापोढशब्देनापि यदि
तदुच्यते कथं न व्याघातः ? अथ नोच्यते तस्योच्चारणवैयर्थ्यम् ? प्रत्यक्षं कल्पनाऽपोढमिति
च व्यपदिश्यते, न चाभिधेयमिति कोऽन्यो भदन्ताद् वक्तुमर्हति न्यायवा० पृ० ४१ इत्यादि
यदवादीदुदद्योतकरस्तत्सर्वं कल्पनापोढशब्दार्थाऽपरिज्ञानविलसितं तस्य तपस्विन इति सूचितम् ।
इहाविसंवादकत्वमभ्रान्तत्वमभिप्रेतम् । तेन द्विचन्द्रादिज्ञानं व्यवच्छिन्नम्, योगाचार
मतमपि सगृहीतं भवतीति पूर्वव्याख्यानमवमन्यमानोऽभ्रान्तशब्दस्यार्थमाह--अभ्रान्तम्
इति । अभ्रान्तमर्थक्रियाक्षमेऽविपर्यस्तं यत् तदुच्यते । न त्वविसंवादकमिह ग्रहीतव्यमिति
बुद्धिस्थं पश्चाद् व्यक्तीकर्त्तव्यम् । अनर्थोऽपि वस्तुतयाऽध्यवसीयत इत्यर्थक्रियाक्षम इति
विशेषणम् । तर्ह्यर्थक्रियाक्षम इत्येवास्तु । न । अर्थक्रियाक्षमस्यैव वस्तुत्वज्ञापनार्थत्वात् । किं
तदर्थक्रियाक्षमम् ? किमवयवि ? अथान्यदेवेत्याह--अर्थक्रियेति । सन्निवेशश्चतुरस्रत्वादिः प्रति
भासधर्मः । स उपाधिर्विशेषणं यस्य वर्णस्य वस्तुशब्दवाच्यस्य शुक्लादिपरमाणुसंघातस्य
तथोत्पन्नस्य स तथा । सन्निवेशविशिष्टस्यैव वर्णस्यान्वयव्यतिरेकाभ्यामर्थक्रियायामुपयोग
दर्शनादेतदाह । स एवात्मा स्वभावो यस्येति तत्तथा । एतच्च चाक्षुषज्ञानविषयाभिप्रायेणोक्तं
द्रष्टव्यम् । अन्यथा बह्वसमञ्जसं स्यादिति । अनेन परमाणुप्रचयमात्रस्यैवार्थक्रि19a या
कारित्वं नावयविनस्तस्यासत्त्वादिति सूचितम् । न भ्राम्यति न विपर्यस्यति--अन्यथाग्राहि न
भवति ।
स्यादेतत्--परमाण्वर्थ एव भवन्मते बाह्यं वस्तु । सर्वं च विज्ञानं तेषु परमसूक्ष्मेषु
43
स्थूलाभासमाजायते । तत्कथं किञ्चिदभ्रान्तं नामेति ? अत्रोच्यते । एकसामग्रीजन्मनां
परमाणूनां भिन्नदेशस्वभावानां तद्धेत्वभावतच्छायालोकपरमाणुस्वभावेनान्तरेण रहितत्वान्नि
रन्तरत्वेन प्रतिभास एव देशवितानावभासात्मा स्थौल्यं नापरं किञ्चित् । तत्र तथाभूतपर
माणुसमुदायनिष्ठं निर्विकल्पकं विज्ञानं कथं भ्रान्तं स्यात्? यद्येकैकं परमाणुमनेकदेशावष्ट
म्भेन गृह्णीयान्न पुनरनेकमनेकदेशावष्टम्भेन गृह्णत् । इतोऽपि विपर्यस्येद् यदि भिन्नदेशान्
परमाणून् एकदेशान् गृह्णीयात् । न चैतदस्ति, अणुमात्रकपिण्डप्रतिभासाभावात् । एकदेश
ग्रहणे हि पिण्डो भासेत अणुमात्रको न तु विततदेशः । न चानेकग्रहो भ्रमः । अतस्मिं
स्तदिति प्रत्ययस्य तादात्म्यात् । तदयमर्थः--एकज्ञानग्राह्यास्तथाविधा बहवः परमाणवः स्थूल
इति । एकोऽयं स्थूल इति तु तथाभूतप्रतिभासाश्रयेण व्यवस्थाप्यमानत्वात् प्रतिभासधर्म
इत्युच्यते । न वस्तुधर्मः, प्रत्येकमपरिसमाप्तेरित्यलमिह विस्तरेण ।
ननु चैवमप्यन्योन्यमसंसृष्टस्वभावान् परमाणून् संसृष्टान् गृह्णद्विज्ञानं कथमिव
विपर्यस्तं नामेति । अत्राप्युच्यते । किमिदमसंसृष्टत्वमिष्टं भवता, यद् विपर्ययग्रहणाद् भ्रान्तं
ज्ञानमुपवर्ण्यते ? किं नानारूपत्वम्, अथ नानादेशत्वम्, उत रूपेणैव विजातीयेन व्यवहितत्वम्,
आहोस्विदिन्द्रियान्तरग्राह्येणार्थेन व्यवकीर्णत्वम् ? तत्र यदि नानारूपत्वमसंसृष्टत्वमिष्टं तदा
न कश्चित्संसृष्टग्रहो नाम सम्भवति यतोऽसंसृष्टा एव परमाणवः सर्वदा गृह्यन्ते । विततदेश
स्वभावानामेव तेषामवभासनात् । यदि ह्येकरूपा भासेरन, अणुमात्रकः पिण्डो भासेत । न
तु विततदेशभासनं स्यात् ।
अथ नानादेशत्वमसंसृष्टत्वमभिप्रेतं तदपि नतरामसंसृष्टग्रहो यतो नानादेशा नीला
परमाणवो नानादेशा एव च गृह्यन्ते । एकदेशत्वभासने हि पिण्डो भासेताणुमात्रक इत्युक्तम् ।
अथ रूपेणैव विजातीयेन व्यवहितत्वमसंसृष्टत्वं विवक्षितम्; तदा तु तदसम्भवादेव
न तद्विपरीतग्रहः । यतो रूपान्तरव्यवधानरहिता एव निरन्तरा नीलाः परमाणवः,
भासन्ते च तथाभूता इति कथं विभ्रमः । मध्यवर्त्तिनो विजातीयस्यालोकादिपरमाणोर
नुत्पत्तेरप्रतिभासनाच्च । अथ च्छायालोकपरमाणुरुत्पद्यमानः केन प्रतिबद्धो यतो नोत्पद्यते ।
न च शक्यं वक्तुम्--मध्ये परमाण्वोर्नास्ति परमाण्वन्तरस्यावकाश इति । यतो निरवयवः
परमाणुः सर्वत्र सावकाश इति । सत्यमेतत् । केवलं नावकाशाभावात् तदनुत्पत्तिरपि तु
हेत्वभावात् । कस्माद् हेतुर्न भवति ? स्वहे19b त्वभावादित्यपर्यनुयोग एव ।
अथ भिन्नेन्द्रियग्राह्यस्पर्शादिव्यवकीर्णत्वमसंसृष्टत्वमभिमतम् । तदा संसृष्टान् परमाणून् एतच्च 222लक्षणद्वयं विप्रतिपत्तिनिरासार्थम्,223 न त्वनुमाननिवृत्त्यर्थम् । यतः
गृह्णाति विज्ञानमिति इन्द्रियान्तरग्राह्यशून्यान् गृह्णातीत्युक्तं भवति । तथा च न किञ्चिदनि
ष्टम् । तथाहि यदि नामेन्द्रियान्तरग्राह्यस्पर्शादिर्न गृह्यते तथापि नीलरूपं तावत् स्वदेशस्वभावस्थितं
गृह्यत एव । न च भिन्नेन्द्रियग्राह्यशून्यानां स्वरूपं गृह्यमाणं विपरीतं गृहीतं भवति । देशकाला
काराणामेकस्याप्यविपर्यासात् । न चाग्रहो भ्रम इति । ननु च परमाणूनामन्तराण्याकाशात्म
कानि सन्ति । न च ते सान्तराः प्रतिभासन्ते । तत्कथमविपर्यास इति । अथ किमिदमाकाशं
नाम । यदि रूपान्तरात्मकं तन्नास्तीत्युक्तम् । अथापि स्पर्शाद्यात्मकं तत्राप्युक्तम् । अथ
सप्रतिघद्रव्याभावः । एवमप्यवस्त्वाकाशम् । ततश्चाकाशमन्तरमित्यन्यवस्त्वन्तरं न किञ्चिद- 44
न्तरमित्युक्तं स्यात् । तथा निरन्तराः परमाणव इत्युक्तं भवति । ततो निरन्तराश्च परमाणवो
निरन्तरा एव भासन्ते । तत् किमुच्यतेऽन्तरमाकाशम्, न च तत्प्रतिभासत इति ? यत्खल्वत्यन्त
मसत् शशविषाणप्रख्यं तत्कथं भासेत ?
नन्वाकाशात्मनोऽप्यन्तरस्याभावे रूपसंसर्गः परमाणुनां प्रसज्येत । नैष दोषः ।
नास्माभिरुच्यते रूपमेकं परमाणूनां देशो नैक इति । अपि तु भिन्नरूपदेशा उत्पन्ना
मध्यवर्त्तिविजातीयरूपरहितास्तथैव भासन्त इति तत् कथं रूपसंसर्गप्रसङ्गः ?
ननु च रसादिदेशे नीलरूपं प्रतिभासते । ततश्चातद्देशं तद्देशतया गृह्णद् विज्ञानं कथ
मभ्रान्तं नामेति ? तत्राप्युच्यते । यदा देशः प्रतिभासते तदा तस्मिन् देशे प्रतिभासमाने यः प्रति
भासतेऽर्थः स देशविशिष्ट उच्यते । यदि च रसादिश्चक्षुर्विज्ञाने प्रतिभासेत तदा तद्देशव्यापिनि
नीले गृह्यमाणे स्याद् भ्रान्तं विज्ञानम् । न च तत्र रसादिः प्रतिभासते, इन्द्रियान्तरग्राह्यस्येन्द्रि
यान्तरज्ञाने प्रतिभासायोगात् । तत् कुतस्तद्देशनीलग्रहणम् ? नीलमेव हि भासमानं देशः
नापरो देशः कश्चिदाभासते । इन्द्रियान्तरग्राह्याप्रतिभासे च शुद्धरूपप्रतिभासः । शुद्धरूप
प्रतिभास एव च निरन्तरप्रतिभासः । ततो निरन्तरा नीलाः परमाणवो गृह्यन्ते । तस्मात्
स्वदेशस्थायिनो नीलपरमाणवः स्वरूपेणैव गृह्यन्ते । ततो देशकालाकाराणामेकस्याप्यपरित्यागा
न्नीलाभासं विज्ञानमभ्रान्तमेव । सर्वं चैतद् ग्राह्यतत्त्वं विनिश्चये धर्मोत्तरेणैव विस्तरेण
निरूपितमिति नेह प्रतन्यते ।
नन्वेवमभ्रान्तत्वे योगाचारमतमसङ्गृहीतं स्यात् । ग्राह्यग्राहकाकारतया प्रवृत्तेः
सर्वस्यैवासर्वज्ञाविज्ञानस्यालम्बने भ्रान्तत्वात् । तत्कथं पूर्वव्याख्यानावज्ञा न क्रियत इति चेत् ।
उच्यते । न योगाचारनये लक्षणमिदम्, किन्तु सौत्रान्तिकनय एव । न च सर्वं विज्ञानवादे
योजयि20a तुं शक्यम् । तस्य विषयः स्वलक्षणम् इत्यादेरशक्ययोजनत्वात् । तस्मिन्
किं प्रत्यक्षलक्षणमिति चेत् । कल्पनापोढत्वमेव । द्विचन्द्रादिनिरासः कथमिति चेत् सम्यग्ज्ञानं
सदेवमित्यभिप्रायाददोषः । सौत्रान्तिकनयेऽपि किं नैवं ? ततश्चाभ्रान्तग्रहणमतिरिच्यत इति
चेत् । सत्यमेतत् । केवलं विप्रतिपत्तिनिरासार्थं वर्णयिष्यत इति । इहाभ्रान्तपदं तैमिरिकादि
ज्ञानव्यवच्छेदार्थम् । कल्पनाऽपोढग्रहणं तु अनुमाननिरासार्थमिति यत्पूर्वकैर्व्याख्यातं
तद् व्यक्तमेवापहस्तयन्नाह--एतच्च--इति । चोऽवधारणे । विप्रतिपत्तिनिरासार्थमित्यतः परो
द्रष्टव्यः । पूर्वेषामभिप्रेतं प्रतिषेधति । न त्विति भेदार्थः । ननु किमुच्यते न त्वनु
माननिवृत्त्यर्थमिति ? यावतैकैकेनानुमाननिवर्त्तनादिति चेत् । उच्यते । लक्षणद्वयमिति द्वयोरुपा
दानं विप्रतिपत्तिनिराकरणार्थम्, एकैकेनानुमानव्यवच्छेदसिद्धेरिति समुदितफलमेतत् । ततो
नानुमाननिवृत्त्यर्थमिति नानुमाननिवृत्त्यर्थमेवेति सावधारणं निषिध्यते । यदि तु विप्रतिपत्ति
निराचिकीर्षया क्रियमाणमनुमानं व्यवच्छिनत्ति न तदर्थमेव द्वयमिति ।
ननु नेदं लक्षणद्वयमनुमानव्यवच्छेदार्थं पूर्वकैर्व्याख्यातम् । किन्तु कल्पनाऽपोढग्रहणमेव । कल्पनाऽपोढग्रहणेनैवानुमानं निवर्तितम् । तत्रासत्यभ्रान्तग्रहणे गच्छद्वृक्षदर्शनादि प्रत्यक्षं
अभ्रान्तग्रहणं तु द्विचन्द्रादिज्ञानव्यवच्छेदार्थम् । तत् कथं न त्वनुमाननिवृत्त्यर्थम् तथा
45
कल्पनाऽपोढत्वात् स्यात् । ततो हि प्रवृत्तेन224 वृक्षमात्रमवाप्यते इति संवादकत्वात् सम्यग्ज्ञानम्,
कल्पनाऽपोढत्वाच्च प्रत्यक्षमिति स्यादाशङ्का । तन्निवृत्त्यर्थम् अभ्रान्तग्रहणम् । तद्धि225
भ्रान्तत्वात् न प्रत्यक्षम् । त्रिरूपलिङ्गजत्वाभावाच्च नानुमानम् । न च प्रमाणान्तरमस्ति ।
अतो गच्छद्वृक्षदर्शनादि मिथ्याज्ञानमित्युक्तं भवति ।
यतः कल्पनापोढग्रहणेनैवानुमानं निवर्त्तितम् इत्युच्यत इति चेत् । सत्यम् । केवलं यद्यभ्रान्त
ग्रहणं व्यवच्छेदार्थमेव तदानुमानव्यवच्छेदार्थमेव युज्यते । न तु द्विचन्द्रादिज्ञाननिरासार्थम्,
तस्य सम्यग्ज्ञानाधिकारादेव व्यवच्छेदसिद्धेः । तथा हि द्विविधं सम्यग्ज्ञानमिति प्रस्तुत्य
लक्षणमिदं विधीयमानं तदधिकारेणैव विहितं भवति ।
नन्वेवं सति कल्पनापोढग्रहणेनैव निवृत्तेरभ्रान्तग्रहणमतिरिच्यते । अयमपरस्तेषां
दोषोऽस्ति । न तु द्विचन्द्रादिज्ञाननिवृत्त्यर्थमिदं युज्यत इति धर्मोत्तरस्याशयः । यद्येतदर्थ
मभ्रान्तग्रहणं न भवति तर्हि किमनेनेत्याह--तत्र--इति ।
ननु गच्छद्वृक्षदर्शनादेः कल्पनापोढस्यापि विसंवादकत्वेन सम्यग्ज्ञानत्वाभावादेव
व्यवच्छेदे सिद्धे किमेतदर्थेनाभ्रान्तपदेनेत्याह--ततो हि--इति । वृक्षमात्रमिति गमनेनाऽन
वच्छिन्नम् । इति हेतौ । अस्तु सम्यग्ज्ञानम्, प्रत्यक्षसम्भावना त्वस्य कथम् ? न हि यदेव
सम्यग्ज्ञानं तदेव प्रत्यक्षमित्याशङ्क्य पूर्वोक्तमेव प्रसङ्गेनाह--कल्पना--इति । चः संवादक—
त्वापेक्षया समुच्चयार्थः । इतिकरणेनाशङ्कायाः स्वरूपं दर्शयति । आशङ्का चेयमीदृशी
यौक्ती द्रष्टव्या । यद् वा चो यस्मादर्थे ।... ... ...असत्यभ्रान्तग्रहणे स्यादियमाशङ्का ।
यदि सत्यपि स्यात्तदा किमनेनेत्याह--तन्निवृत्त्यर्थमिति शङ्कानिवृत्त्यर्थमात्रम् । अनेन एतद्
दर्शयति--यद्यपि परमार्थतः सम्यग्ज्ञानाधिकारादेवमादिज्ञानं व्यवच्छिद्यते । तथाप्यंशसंवाद
वादिनामाहत्य विप्रतिपत्तिनिराकरणार्थं क20b र्त्तव्यमेवाभ्रान्तग्रहणमिति ।
स्यादेतत्--किमभ्रान्तग्रहणेनाधिकं कृतम् । येनैतद् विप्रतिपत्तिनिराकरणार्थं भवती
त्याशङ्कायां दूरस्थितमपि गच्छद्वृक्षदर्शनादि मिथ्याज्ञानमित्युक्तं भवतीति योजनीयम् ।
इतिना उक्तेराकारं कथयति । उक्तं प्रकाशितं भवत्यभ्रान्तग्रहणेनेति प्रकरणात् । कुतो
मिथ्याज्ञानं तदुक्तमित्यपेक्षायां प्रथममुक्तं तदिति योजनीयम् । हिर्यस्मात् ततोऽयमर्थः—
यस्मात् तद् गच्छद्वृक्षदर्शनादि भ्रान्तत्वात् न प्रत्यक्षम्, अतो मिथ्याज्ञानमित्यभ्रान्तग्रहणेनोक्तं
भवति । भवतु भ्रान्तत्वादप्रत्यक्षम्, अनुमानरूपत्वे त्वनिवर्त्तिते कथमस्य तथात्वमित्याशङ्कायां
योज्यम् । चो यस्मान्नानुमानम् । कथं नानुमानम् ? त्रिरूपलिङ्गजवाभावात् । यद्येव
मन्यत्प्रमाणं भविष्यति, तथापि कथं मिथ्याज्ञानमित्याशङ्कायां वाच्यम् । चो यस्मान्नाभ्यां
प्रमाणान्तरमस्ति । अतः प्रत्यक्षत्वादिस्वाभावत्वाभावात् । यद् वाऽतोऽभ्रान्तग्रहणादित्यर्थः ।
नन्वनुमानादिरूपनिराकरणे यद्यभ्रान्तग्रहणस्य व्यापारो भवेत्, भवेदेव मिथ्याज्ञानत्वा यदि मिथ्याज्ञानम् कथं ततो वृक्षावाप्तिरिति चेत्, न ततो वृक्षावाप्तिः । नाना तथा231 अभ्रान्तग्रहणेनाप्यनुमाने निवर्तिते कल्पनापोढग्रहणं 232विप्रतिपत्तिनिरा-
भिधाने सामर्थ्यं यावतो226यथा स्वयमुपपत्त्यैवानुमानादिभावो व्युदस्तस्तत् कथमभ्रान्त
46
देशगामी हि227 वृक्षस्तेन परिच्छिन्नः । एकदेशनियतश्च वृक्षोऽवाप्यते । ततो यद्देशो228
गच्छद्वृक्षो दृष्टः, तद्देशो नावाप्यते । यद्देशश्चावाप्यते229 स न दृष्ट इति न तस्मात् कश्चि
दर्थोऽवाप्यते । ज्ञानान्तरादेव तु230 वृक्षादिरर्थोऽवाप्यते । इत्येवमभ्रान्तग्रहणं विप्रतिपत्ति
निरासार्थम् ।
ग्रहणेन तन्मिथ्याज्ञानमित्युक्तं भवतीत्युच्यते । सत्यम् । किन्त्वनुमानादिरूपतानिराकरण
हेतुना दत्तसाहायकेन सताऽभ्रान्तग्रहणेन तन्मिथ्याज्ञानमित्युक्तं भवतीत्युक्तमिति बोद्धव्यम् ।
ननु प्रत्यक्षलक्षणशून्यस्याप्रत्यक्षतैव दर्शयितव्या, तत्किमनुमानादिरूपतानिराकरण
मप्रकृतं कृतमिति चेत् । अप्रत्यक्षत्वप्रदर्शने प्रसङ्गेन कृतमिति का क्षतिः ?
यदीत्यादि सुगमम् । केवलं तत इति गच्छद्वृक्षदर्शनरूपान्मिथ्याज्ञानात्परिच्छिन्नो
दृष्टः । वृक्ष इति वृक्षत्वेन प्रथनादुच्यते न त्वसौ तथाऽवभासमानो वृक्ष एव । एकदेशनियत
इ ति प्राप्यमाणपरमार्थवृक्षाभिप्रायेणोक्तम् । चो हेतौ । ततस्तस्मादनन्तरोक्तात् कारणात् ।
चोऽप्राप्यमाणाद् भेदमस्य दर्शयति । इतिः हेतौ । तस्मान्मिथ्याज्ञानात् ।
ननु ततोऽपि प्रवृत्तस्यास्ति च्छायाद्यर्थक्रियाकारिरूपस्य पादपस्य प्राप्तिस्तत्कथमपह्नूयत
इति ? आह--ज्ञानान्तराद्--इति । तद्देशोपसर्पणजन्मनः स्थितवृक्षप्रतिभासात्मनो ज्ञानान्तरात् ।
तत्र मिथ्याज्ञानमर्थिनः प्रवृत्तिमात्रहेतुर्न तु वृक्षप्रापकमिति संक्षेपार्थः । यदि मिथ्याज्ञानत्वप्रति
पादनार्थमभ्रान्तग्रहणं न तर्हि विप्रतिपत्तिनिराकरणार्थमित्याह--एवम् इति । एवमित्यनेना
नन्तरोक्तस्योपपत्तिप्रकारस्याकारो दर्शितः । ततोऽयमर्थः--एवमनन्तरोक्तेन युक्तिप्रकारेण ।
एतादृशमपि प्रत्यक्षमिति विरुद्धायाः प्रतिपत्तेर्निरासार्थमभ्रान्तग्रहणमिति । यद्येवमभ्रान्त
ग्रहणमेव विप्रतिपत्तिनिराकरणार्थम् । न तु कल्पनापोढग्रहणम् । उक्तं च द्वयमेतत् तन्निरासार्थ
मित्याशङ्क्याह--तथेति । यथाऽभ्रान्तपदं तथेदमित्यर्थः ।
विप्रतिपतिनिराकरणार्थमिति प्रत्यक्षपृष्ठभाविनोऽपि विकल्पस्य व्यावहारिकलोका करणार्थम्233 । भ्रान्तं हि अनुमानं स्वप्रतिभासेऽनर्थे234ऽर्थाध्यवसायेन प्रवृत्तत्वात् । प्रत्यक्षं न तु अविसंवादकमभ्रान्तमिह ग्रहीतव्यम् । यतः सम्यग्ज्ञानमेव प्रत्यक्षम्, नान्यत् । कीदृशी पुनः कल्पनेह गृह्यत इत्याह-- अभिलापसंसर्गयोग्यप्रतिभासा237 प्रतीतिः कल्पना ॥ ५ ॥ 238अभिलापेत्यादि । 239अभिल241प्यतेऽनेनेति अभिलापः वाचकः शब्दः । अभिलापेन
ध्यवसायेनाभ्रान्तस्य यत्प्रत्यक्षत्वं कैश्चिदिष्टम्, तन्नि21a राकरणार्थमिति द्रष्टव्यम् ।
तत्रासति कल्पनापोढग्रहणे घटोऽयमित्यादिज्ञानं प्रत्यक्षमभ्रान्तत्वात् स्यात् । ततो हि प्रवृत्तेन
घटादिरर्थः प्राप्यत इति संवादकत्वान्सम्यग्ज्ञानमभ्रान्तत्वाच्च प्रत्यक्षं स्यादा दित्या शङ्का ।
तन्निवृत्त्यर्थम् । कल्पनात्मकत्वान्न प्रत्यक्षम्, त्रिरूपलिङ्गजत्वाभावाच्च नानुमानम् ।
47
तु ग्राह्ये रूपे न विपर्यस्तम् ।
तत्र सम्यग्ज्ञानत्वादेवाऽविसंवादकत्वे लब्धे पुनरविसंवादक235ग्रहणं निष्प्रयोजनमेव । एवं हि
वाक्यार्थः स्यात्--प्रत्यक्षाख्यं यदविसंवादकं ज्ञानं तत् कल्पनापोढमविसंवादकं चेति । न
चानेन द्विरविसंवादकग्रहणेन किञ्चित्236 । तस्माद् ग्राह्येऽर्थक्रियाक्षमे वस्तुरूपे यदविपर्यस्तं
तदभ्रान्तमिह वेदितव्यम् ॥
संसर्गः--242अभिलापसंसर्गः--एकस्मिन् ज्ञानेऽभिधेयाकारस्याभिधानाकारेण सह243 ग्राह्याकारतया
न च प्रमाणान्तरमस्ति । अतो घटोऽयमित्यादिज्ञानमसम्यग्ज्ञानं भवतीति पूर्ववद् वचनीयं
योजनीयं च ।
ननु च संवादिनोऽस्य कथमसम्यग्ज्ञानत्वम् ? यदि नाम विसंवादकत्वलक्षणम् असम्य
ग्ज्ञानत्वं नास्ति तथापि गृहीतार्थग्राहिणोऽस्यापूर्वाधिगमाभावात् करणार्थाभावरूपमसम्यग्ज्ञानत्वं
स्मरणादेरिव किं नानुमन्यते ? जात्यादिविशिष्टवस्तुग्राहिणोऽस्यापूर्वार्थाधिगमोऽस्तीति चेत् ।
इदमन्यत्र विस्तरेण निरस्तमित्यास्तां तावदिहेति । स्वप्रतिभास इत्यादेर्ग्रन्थस्य तु सत्यमर्थं
विषयविप्रतिपत्तिनिराकरणवाक्यविवरणं विवेचयिष्यन्तो विवेचयिष्यामः । सम्प्रति यद्
दोषदर्शनात्पूर्वेषां व्याख्यानमवमन्यान्यथाऽयमभ्रान्तार्थं व्याचष्टे तं कण्ठोक्तं कर्त्तुं तेषामभिमत
मभ्रान्तार्थं पूर्वं सामर्थ्यान्निषिद्धमपि साक्षान्निषेधन्नाह--न तु--इति । तुरतिशये । यत
इत्यादि वेदितव्यमित्यन्तं सुबोधम् ।
यदि जात्यादियोजनात्मिका कल्पना । सा जात्याद्यभावादेव न सम्भवति । अथ ग्राह्यग्राहक
भावेन प्रवर्त्तमानं ज्ञानं कल्पना तदा सर्वमसर्वज्ञज्ञानं तथा प्रवृत्तमिति किमवशिष्यते यदविकल्पकं
स्यादित्यभिप्रेत्य कल्पनायाः स्वरूपं पृच्छति--कीदृशीति सामान्यतः पृच्छति । पुनरिति विशेषतः ।
इहेति प्रत्यक्षलक्षणे ।
अभिलप्यते उच्यतेऽनेनेत्यभिलापो वाचकः शब्दः । स च सङ्केत-मिलनम् ।
48
ततो यदैकस्मिञ्ज्ञानेऽभिधेया244भिधानयोराकारौ245 संनिविष्टौ भवतस्तदा संसृष्टे अभिधा
नाभिधेये भवतः । अभिलापसंसर्गाय योग्योऽभिधेयाकार246 भासो247 यस्यां प्रतीतौ
सा तथोक्ता ।
तत्र काचित् प्रतीतिरभिलाप248 संसृष्टाभासा भवति । यथा व्युत्पन्नसङ्केतस्य घटार्थ
कल्पना घटशब्दसंसृष्टार्थावभासा 249भवति । काचित्त्वभिलापेनासंसृष्टापि अभिलापसंसर्ग
योग्याभासा भवति । यथा बालकस्याव्युत्पन्नसङ्केतस्य कल्पना । तत्र अभिलापसंसृष्टाभासा250
कल्पना इत्युक्तावव्युत्पन्नसङ्केतस्य251 कल्पना न संगृह्येत252 । योग्यग्रहणे253 तु254सापि संगृह्यते ।
यद्यपि अभिलापसंसृष्टाभासा255 न भवति तदहर्जातस्य256 बालकस्य कल्पना, अभिलापसंसर्ग
योग्यप्रतिभासा तु भवत्येव । या चाभिलापसंसृष्टा सापि योग्या । तत उभयोरपि योग्य
ग्रहणेन संग्रहः ।
कालेन दृष्टेन रूपेणैक्यमापादितोऽन्तर्जल्पाकारस्तथा प्रतिभासमानो वाच्यः । संसर्ग
पदेन सार्धमस्य विग्रहं प्राह--अभिलापेन--इति । अभिलापेन वाचकेन संसर्गः सम्बन्धः ।
तृतीयेपाणिनि--२. १. ३०ति योगविभागात्समासः । अथवाऽर्थकथनमिदं कृतम्, समासस्तु
षष्ठीतत्पुरुषः कार्यः । कथं पुनर्वाच्यवाचकयोः संसर्गः सम्भवतीत्याह--एकस्मिन् इति ।
ग्राह्याकारतया मिलनमित्येकज्ञानग्राह्याकारतयाऽवस्थानमिति वाच्यम् । अर्थाकारश्चेद् वाचक
शब्दाकारेण सहैकज्ञानारूढो भवति तदा वाच्यवाचकयोः संसर्ग इति यावत् । भवत्वभिधानाभि
धेयाकारयोरेकज्ञानारोहः । किमेतावताऽभिधानाभिधेये वाच्यवाचकतया सम्बद्धे भवतः, येन
तद्ग्राहि विज्ञानं सविकल्पकं स्यादित्याशङ्क्योपसंहारव्याजेनाह--तत इति । यदाकारौ
संन्निविष्टौ प्रतिभासितौ भवतस्तदा संसृष्टे तथातया सम्बद्धे भवतः । एकस्मिन् ज्ञाने विशेष्य
विशेषणत्वेनाकारप्रतिभास एवानयोर्वाच्यवाचकत्वग्रहणमिति भावः । अभिलापसंसर्गाय योग्य
इत्यर्थकथनमिदं 21b कृतम् । समासस्त्वभिलापसंसर्गस्य योग्य इति कर्त्तव्यः । तादर्थ्य
चतुर्थ्याः प्रकृतिविकार एव समासात् ।
यद्येवमभिलापसंसृष्टप्रतिभासेत्येवास्तु किं योग्यग्रहणेनेत्युपालम्भं पश्यन् यथाऽस्य असत्यभिलापसंसर्गे कुतो योग्यतावसितिरिति257 चेत् । अनियतप्रतिभासत्वात् ।
साफल्यं तथा दर्शयितुमुपक्रमते--तत्रेति । वाक्योपन्यासे चैतत् । अभिलापसंसृष्ट आभासो
यस्याः सा तथा । कस्येवेत्याह--यथेति । इदमस्य वाच्यमिदमस्य वाचकम् इत्युभयांशाव
49
258अनियतप्रतिभासत्वं च प्रतिभासनियमहेतोरभावात् । ग्राह्यो ह्यर्थो विज्ञानं जनयन्नियत
प्रतिभासं कुर्यात् । यथा रूपं चक्षुर्विज्ञानं जनयन्नियतप्रतिभासं जनयति । विकल्पविज्ञानं
त्वर्थान्नोत्पद्यते । ततः प्रतिभासनियमहेतोरभावादनियतप्रतिभासम् ।
लम्बिज्ञानं सङ्केतः, शब्दार्थप्रयोगप्रतिपत्त्योः कार्यकारणभावरूपो वा । व्युत्पन्नो ज्ञातः
संकेतो येन स व्युत्पन्नसंकेतः । तस्य यदि सर्वैव तादृशी तदा काचिदिति न वाच्यम्,
योग्यग्रहणेन च न किञ्चिदित्याह--काचिद् इति । तुः व्युत्पन्नसंकेतप्रतीतेर्बालप्रतीतिं भेद
वतीमाह । कस्य सदृशी सम्भवतीत्याह--यथेति । बालक इत्यल्पार्थे कन् । यद्यभिलाप
संसृष्टाभासेति कृतेऽपि तथाभूतायाः प्रतीतेः सङ्ग्रहः, कृतं तर्हि योग्यग्रहणेनेत्याह--तत्रेति ।
तयोर्मध्येऽव्युत्पन्नसंकेतस्य या सा न सङ्गृह्यते । कदा तु सङ्गृह्यतेत्याह--अभिलापेति । अर्थ
प्रदर्शनत्वादस्याभिलापसंसृष्टाभासा प्रतीतिः कल्पनेत्युक्तौ वचने सतीत्यर्थः । इतिनोक्तेराकारः
कथितः । असति तावदयं दोषः । यदि सत्यपि योग्यग्रहणे तदसंग्रहस्तथापि किं तेनेत्याह—
योग्येति । तुरकरणावस्थाया विशेषमाह । न केवलं तत्संसृष्टाभासेत्यापेशब्दः । तथा
विधबालस्य च कल्पनाऽनुमानसिद्धा । तेन साऽवश्यं ग्राह्येति भावः । कथं पुनर्योग्यग्रहणेन
तस्याः सङ्ग्रह इत्याह--यद्यपीति । निपातसमुदायोऽयं विशेषाभिधानार्थाभ्युपगमे सर्वत्र ।
अह्नि जातं जन्मास्येति तथा । अह्नि वा जात उत्पन्न इति तथा । अहर्जातस्यैतदह
र्जातस्येति द्रष्टव्यम् । यद्येवं व्युत्पन्नसङ्केतस्य सा कथं सङ्गृह्यत इत्याह--या चेति । च
पूर्वापेक्षया समुच्चये । यदि सा तत्संसर्गयोग्या न स्यात्कथं तत्संसर्गमनुभवेदिति भावः । यत
एवं तस्मात् ।
ननु प्रतीतप्रतिभासस्य तत्संसर्गानुभवान्यथानुपपत्त्या योग्यता कल्पनीया । न च कुतः पुनरेतद्विकल्पोऽर्थान्नोत्पद्यत इति? 259अर्थसन्निधिनिरपेक्षत्वात् । बालोऽपि हि
बालकल्पनाया अभिलापसंसर्गोऽस्ति, संकेताव्युत्पत्तेः । तत्कथं योग्यता कल्प्यतामित्यभि
सन्धिना असतीत्यादिना पूर्वपक्षमुत्थापयति । एवं चोदयित्वाऽनुमानतः सा सिद्ध्यतीति
मन्वानः साधनमाह--अनियतेति । प्रतिनियताकारत्वाभावादित्यर्थः । प्रकरणापन्ने साध्ये
हेतौ चाभिहिते सुकरः साधनप्रयोग इति प्रयोगं न जगौ । एवमुत्तरत्रापि हेतुमात्राभिधानेऽ
स्यायमभिप्रायः प्रत्येतव्यः । प्रयोगस्त्वेवमिह कर्त्तव्यः--योऽनियतप्रतिभासो विकल्पः, स
शब्दसंसर्गयोग्यो यथाच्छात्रविकल्पः । अनियतप्रतिभासश्च बालविकल्प इति भवत्येव प्रयोगः ।
केवलमिदमत्र निरूप्यताम् । बालस्य विकल्प एव कुतः सिद्धो येनेदमुत्तराणि चैतदङ्गानि
साधनानि ना22a श्रयासिद्धानि स्युरिति ? नैष दोषः । अनुमानसिद्धं विकल्पं धर्मिणं कृत्वाऽ
मीषामुपादानस्याभिप्रेतत्वात् । तत्पुनरनुमानमनेन सुज्ञातत्वान्नोपन्यस्तमिति वेदितव्यम् ।
एवं तद् द्रष्टव्यम्--या नियमवती प्रवृत्तिः क्वचित्प्राणिनः, सा विकल्पपूर्विका । यथा
व्युत्पन्नसङ्केतव्यवहारस्यान्नादिविषया प्रवृत्तिः । नियमवती च तदितरपरिहारेण स्तनादौ
प्रवृत्तिर्बालकस्येति कार्यहेतुः । सा च तादृशी प्रवृत्तिः प्रत्यक्षाधिगतेति स्वसिद्धौ न प्रमाणान्तरं
50
यावद् दृश्यमानं स्तनं स एवायम् इति पूर्वदृष्टत्वेन न प्रत्यवमृशति तावन्नोपरतरुदितो
प्रयोजयति । न पुनरनेन बालोऽपि हीत्यादिना विकल्पसाधनमुपन्यस्तमिति मन्तव्यम्,
यथाऽन्यैर्व्याख्यातम्, अर्थसन्निधिनिरपेक्षत्वसिद्धिप्रदर्शनोन्मुखत्वात्तस्य ग्रन्थस्येति ।
ननु च परोक्षत्वात्तस्यानियतप्रतिभासत्वसन्देहे सन्दिग्धासिद्धोऽयं हेतुरिति । आह—
अनियतप्रतिभासत्वं च--इति । चो यस्मादित्यस्मिन्नर्थे । प्रतिभासस्य ज्ञानाकारस्य नियमः—
अर्थाकार एवायं शब्दाकार एव वा, रूपाकार एवायं रसाकार एव वेत्यात्मको वा तस्य
हेतुर्जनकः तस्माद् । अभावादनुत्पादात् । भवनं भाव उत्पादस्तन्निषेधाद् अभावोऽनुत्पाद
एव । प्रतिभासनियमहेतोरभावाद्--अविद्यमानत्वादिति व्याख्याने तु यथाश्रुति व्यधिकरणा
सिद्धो हेतुः स्यात् । अन्यथा हेतुवचने तु क्रियमाणे तत्रार्थे हेतुरनभिहित एव स्यात् । साधन
स्वरूपमात्रकथने चात्र घर्मोत्तरस्य शैली लक्ष्यते । कुतः पुनरेतद् विकल्पोऽर्थान्नोत्पद्यत इति
च पूर्वपक्षः सूत्थानो न स्यात् । मृत्वा शीर्त्वा यथा कथञ्चित् सर्वस्यास्य समर्थने च वक्तु
रकौशलं स्यादिति ।
ननु प्रतिभासनियमहेतुर्यः कश्चन स च तत्र भविष्यति । अथ विशिष्टः ।
वक्तव्यस्तदाऽसौ यतः सकाशादनुत्पादात्तथात्वं ज्ञातव्यमित्याह--ग्राह्य इति । यद्यर्थ इत्येव
क्रियते तदेन्द्रियमप्यर्थो ज्ञानं जनयतीति तस्याप्याकारनियामकत्वं स्यात् । न चापोद्धार
द्वारेण तस्याकारविशेषहेतुत्वं व्यवस्थापितम्, अपि तु विषयग्रहणप्रतिनियमहेतुत्वमिति ग्राह्य
ग्रहणम् । ग्राह्य आलम्बनः । यद्येवं ग्राह्य इत्येवास्तु । अपोहस्यापि ग्राह्यताऽस्ति ।
न चाऽसौ प्रतिभासनियमहेतुः । अतस्तन्निवृत्त्यर्थमर्थोऽर्थक्रियासमर्थ इति कृतम् । कुर्यात् कर्तुं
शक्नोति । अपोद्धारेण तत्रैव तच्छक्तेरवधृतत्वात् । अत्र निदर्शनं यथेति । नियतप्रति
भासमिति शब्दाकारपरिहारेणार्थाकारधार्येव रसाकारपरिहारेण रूपाकारधार्येव चेति । यद्येवं
बालविकल्पोऽपि अर्थादेवोत्पत्स्यते, ततो नियतप्रतिभासो भविष्यतीत्याशङ्क्य पूर्वोक्तमेव प्रसङ्गेन
स्मारयति--विकल्पेति । तुरुदाहृताद् विज्ञान भिनत्ति । एवं तु प्रयोगः कार्यः--यदर्था
न्नोत्पद्यते ज्ञानं तन्नियतप्रतिभासं न भवति । यथा व्युत्पन्नव्यवहारस्यातीतादिस्मरणम्,
रूपरसादिसङ्कलनाज्ञानं वा । नोत्पद्यते चा22b र्थाद् बालकस्य विकल्प इति व्यापकानुप
लब्धिः ।
ननु बालविकल्पस्य परोक्षत्वात् तत उत्पत्तिरनुत्पत्तिर्वा न शक्यते निश्चेतुम् । अतोऽयं मुखमर्पयति स्तने । पूर्वदृष्टापरदृष्टं चार्थमेकीकुर्वद् विज्ञानमसन्निहितविषयम्, पूर्वदृष्टत्व260स्या
सन्दिग्धासिद्धो हेतुरित्यभिप्रेत्य चोदयति कुत इति सामान्यहेतोः प्रश्नः । पुनरिति विशेषस्य ।
विदर्भ्योक्त्या चायं क्षेपे किमः प्रयोगः । तेन न कुतश्चिद्धेतोरिदमित्यर्थः । हेतुमाह--अर्थेति ।
एवं तु प्रयोगः करणीयः--यज्ज्ञानं स्वोत्पत्तावर्थसन्निधिनिरपेक्षं तदर्थान्नोत्पद्यते । यथा
व्युत्पन्नसंकेतस्य चिरनष्टवस्तुविषयं विज्ञानम् । अर्थसन्निधिनिरपेक्षं च बालविकल्पविज्ञानमिति
विरुद्धव्याप्तोपलब्धिः । असिद्धिमस्याः परिहत्तु भूमिकां रचयन्नाह--बालोऽइ हि--इत्यादि ।
51
सन्निहितत्वात् । असन्निहितविषयं चार्थनिरपेक्षम् । अनपेक्षं च प्रतिभासनियमहेतोरभावा
दनियतप्रतिभासम् । तादृशं चाभिलापसंसर्गयोग्यम् ।
न केवलं व्युत्पन्न इत्यपिशब्दः । हिर्यस्मात् । यावदिति निपातोऽवधौ । पूर्वदृष्टत्वं पूर्व
दर्शनविषयत्वम् । तेन यो मया पूर्वं क्षुत्प्रतिघातहेतुत्वेन प्रतिपन्नः स एवाऽयमिति प्रत्यवमर्षस्य
रूपमाचष्टे । न प्रत्यवमृशति प्रत्यभिजानाति । तावदित्यप्यवधौ । उपरतं रुदितं यस्मात्
स तथा सन्नायर्पति । सर्वैरेव स्वसन्ततावेवमादिव्यवहारस्य दृष्टदृश्यमानयोरेकीकरणकारण
त्वेनावगतत्वादेवमुच्यते । तस्यैव चान्यत्र लोष्टादौ ढौकितेऽपि तथाऽदर्शनाच्च ।
ननु बालस्य करणानामपाटवात् संकेताग्रहणाच्च नान्तर्जल्पाकारोऽपि शब्दः सम्भवति ।
सम्भवे वा योग्यग्रहणानर्थक्यम् । तत्कथमेवं यावन्न प्रत्यवमृशति--इत्युच्यते ? उच्यते ।
अनयैव हि भङ्ग्या अस्ति सा काचिद् दृष्टदृश्यमानयोरेकीकरणावस्था या तत्र निमित्तमिति
प्रतिपाद्यते । सा च शब्देन प्रतिपाद्यमाना अभ्यस्तेनामुना शब्देन प्रतिपाद्यते । न पुनरेव
मेवासौ प्रत्यवमृशतीत्युच्यते ।
ननु द्वितीयादिदर्शनकाले भवतु पूर्वदृष्टापरदृष्टयोरेकीकरणेन मुखार्पणम्, भूमिपातानन्तरं
तु कथम् ? न खलु स्तनमद्राक्षीद् असौ येन दृष्टेन दृश्यमानमेकीकृत्यार्पयेत् । तदा तु
जन्मान्तरानुभवादिति ब्रूमः । तत्रापि जन्मनि जन्मान्तरानुभवबलात् । न चादिमान् संसार
इति का क्षतिः ? शब्दाकारोऽपि तत्रास्त्येव । तत् किमनेन योग्यग्रहणसफलीकरण
प्रयासेनेति चेत् । अस्तु तत्र जन्मान्तराभ्यासात् मूर्च्छितः शब्दाकारः, मा च भूत्
सर्वथा पश्चाद्व्युत्पत्स्यमानेन विशिष्टेन शब्देन संसृष्टार्थप्रतिभासः, न भवति तस्य विकल्पप्रत्यय
इत्युच्यते । स एवायम् इति पूर्वदृष्टत्वेन स्तनं प्रत्यवमृशतु । किमत इत्याह--पूर्वदृष्टेति ।
पूर्वदृष्टं चापरदृष्टं चेति द्वन्द्वैकवद्भावः । चोऽवधारणे कुर्वदित्यस्मात्परो द्रष्टव्यः । हेतौ
वा शतृप्रत्ययः ।
तेनायमर्थः--यस्मात्पूर्वदष्टापरदृष्टमेकीकरोत्येव तस्मादसन्निहितविषयमिति । तथा
कुर्वदपि कथमसन्निहितविषयमित्याह--पूर्वदृष्टत्वस्य261--इति । अयमाशयः--पूर्वदर्शनविषयत्वं
पूर्वदृष्टत्वमुच्यते । निवृत्ते च पूर्वदर्शने पूर्वदर्शनविषयत्वं वस्तुनो नास्ति । तदुत्तरकालभाविना
ज्ञानेन पूर्वज्ञानविष23a यत्वमसन्निहितमेव वस्तुनो दृश्यत इति । भवत्वसन्निहितविषयम्,
अर्थसन्निधिनिरपेक्षं तु कथं सिद्धमित्याह--असन्निहितेति । चो यस्मात् । असन्निहितविषय
मर्थसन्निधिनिरपेक्षम् । अनेनार्थसन्निधिनिरपेक्षत्वेऽर्थसन्निधिनिरपेक्षत्वं हेतुमाह । ईदृशस्तु
प्रयोगो ज्ञातव्यः--यदसन्निहितविषयं ज्ञानं तदर्थसन्निधिनिरपेक्षम्, यथाऽतीतानागतविषयो
ऽस्मदादिविकल्पः । पूर्वदृष्टत्वेन प्रत्यभिज्ञानाच्च बालविज्ञानमसन्निहितविषयमिति स्वभावः ।
सम्प्रति शिष्याणां सुखप्रतिपत्त्यर्थं यथोत्तरोत्तरस्य हेतोः सिद्धौ पूर्वपूर्वस्य हेतोः सिद्धि
र्भवति तथा दर्शयति--अनपेक्षं च--इति ।
52
इन्द्रियविज्ञानं तु सन्निहितार्थ262मात्रग्राहित्वादर्थसापेक्षम् । अर्थस्य च प्रतिभास
निवमहेतुत्वान्नियतप्रतिभासम् । ततो नाभिलापसंसर्गयोग्यम् ।263
अत एव स्वलक्षणस्यापि वाच्यवाचकभावमभ्युपगम्यै264तदविकल्पकत्वमुच्यते । यद्यपि
हि स्वलक्षणमेव वाच्यं वाचकं च भवेत् तथापि अभिलापसंसृष्टार्थ265 विज्ञानं सविकल्पकम् ।
न चेन्द्रियविज्ञानम् अर्थेन नियमितप्रतिभासत्वाद् अभिलापसंसर्गयोग्यप्रतिभासं भवतीति
निर्विकल्पक्रम् ।
श्रोत्रज्ञानं266 तर्हि 267शब्दस्वलक्षणग्राहि 268शब्दस्वलक्षणं च269 किञ्चिद्वाच्यं किञ्चिद्वाच
कम्--इत्यभिलापसंसर्गयोग्यप्रतिभासं स्यात् । तथा च सविकल्पकं स्यात् ।
नैष दोषः । सत्यपि स्वलक्षणस्य वाच्यवाचकभावे संकेतकालदृष्टत्वेन गृह्यमाणं
ननु किमनियतप्रतिभासत्वे साध्येऽर्थनिरपेक्षत्वं हेतुर्येन तथा सदनियतप्रतिभासमि
त्युच्यते । प्रतिभासनियमहेतोरिति च मध्यवर्त्ती च ग्रन्थः कथं नेयः ? उच्यते । नाय
मनपेक्षमित्यादिरेकवाक्यतया नेयः । किं तर्हि ? वाक्यभेदोऽत्र कर्त्तव्यः । तत्र चो यस्मात् ।
अनपेक्षमर्थसन्निधिनिरपेक्षं सत्प्रतिभासनियमहेतोरनुत्पन्नमिति प्रतिभासनियमहेतोरभावादित्यस्य
सामर्थ्याद् वाक्यभेदं कृत्वा । ततः प्रतिभासनियमहेतोरभावादनुत्पादादनियतप्रतिभासमिति
योजनीयम् । तादृशमित्यनियतप्रतिभासम् । चो वक्तव्यमित्येतदित्यस्मिन्नर्थे ।
सर्वमेतदिन्द्रियज्ञानेऽपि परः कदाचिदाशङ्कयेदिति तन्निरासार्थमाह--इन्द्रियेति ।
तुर्विकल्पज्ञानं विशिनष्टि । ततो नियतप्रतिभासत्वात् ।
इह पूर्वव्याख्यातृभिः असामर्थ्यवैयर्थ्याभ्यां स्वलक्षणस्य संकेतयितुमशक्यत्वादवाच्य
वाचकत्वम् । अवाच्यावाचकस्वलक्षणग्राहित्वाच्चेन्द्रियज्ञानमविकल्पकमिति व्याख्यातम् ।
तच्चावद्यम्, अन्यथाऽप्यविकल्पत्वस्य सुसाधत्वात् किमन्यापोहानयनेनाप्रकृतेनेति मन्यमान
आह--अत एव--इति । यस्मादिन्द्रियज्ञानं नियतप्रतिभासम्--अत एव अस्मादेव हेतोः । स्वलक्षणं
वक्ष्यमाणलक्षणम् । अपिरवधारणे । वाच्यग्रहणे कथमविकल्पकमित्याह--यद्यपि हि--इति ।
यद्यपि हीति निपातसमुदायो यदि नामशब्दस्यार्थे वर्त्तते । हिर्वाक्यालङ्कारो वा । अभि
लापसंसृष्टार्थं सद् विज्ञानं विकल्पकं भवति । एवं ब्रुवतोऽयं भावः--कोष्ठशुद्ध्या वाच्यमस्तु
स्वलक्षणं तथापि तदिन्द्रियज्ञानं केवलमेव स्वलक्षणमात्मन्यादर्शयति, न तु वाचकमपीति
कथमभिलापसंसृष्टार्थप्रतिभासत्वं विकल्पकत्वमात्मसात् कुर्यादिति ?
53
स्वलक्षणं वाच्यं वाचकं च गृहीतं स्यात् । न च संकेतकालभावि दर्शनविषयत्वं वस्तुनः
सम्प्रत्यस्ति । यथा हि संकेतकालभावि दर्शनमद्य270 निरुद्धम्, तद्वत् तद्विषयत्वमपि271 अर्थस्याद्य
नास्ति । ततः पूर्वकालदृष्टत्वमपश्यच्छोत्रज्ञानं272 न वाच्यवाचकभावग्राहि ।
अनेनैव न्यायेन योगिज्ञानमपि सकलशब्दार्थावभासित्वेऽपि संकेतकालदृष्टत्वाग्रहणा
न्निर्विकल्पकम् ॥
भवतु रूपाद्यालम्बनमिन्द्रियज्ञानम्, वाचकस्याप्रतिभासाद् वाच्यस्यैव प्रतिभासादवि
कल्पकम् । यत्पुनरेतद्द्वयप्रतिभासीन्द्रियज्ञानं तद् द्वयप्रतिभासाद् विकल्पकं प्राप्तमित्यभिप्रेत्य
चोदयति--श्रोत्रेति । तर्हिरक्षमायाम् । सर्वमिन्द्रियज्ञानमविकल्पकमिति न क्षम्यत एतदित्यर्थः ।
श्रोत्रज्ञानमभिलापसंसर्गयोग्यप्रतिभासं स्यादिति सम्बन्धः । किम्भूतं ? शब्दस्वलक्षणग्राहि ।
हेतुभावेनास्य विशेषणत्वात् शब्दस्वलक्षणग्राहित्वादित्यर्थः । शब्दग्राहिणोऽपि वाच्याग्रहणे
कथं तथात्वमित्याह--शब्देति23b । चो यस्मात् । किञ्चिद् वाचकं किञ्चिद् वाच्यम् ।
यथा तरप्तमपौ घः पाणिनि--१. १. २२इत्यादि बुद्धिस्थम् । इतिस्तस्मात् । अस्तु तथाप्रतिभासं
किमत इत्याह--तथा चेति । तथा च सति तस्मिश्चोक्तप्रकारे सति । एवं चैतद् द्रष्टव्यम्—
यदैकेन तरप्तमपौ संज्ञिनावुच्चार्येते तदैव च कथञ्चिदन्येन घः इति संज्ञोच्चार्यते । तदा
तद्द्वितयमेकेन श्रोत्रज्ञानेन प्रतियतः पुंसः श्रोत्रधीर्विकल्पिका प्रसज्येतेति ।
कथं तर्हि नैष दोष इत्याह--सत्यपीति । चो यस्मात् तदेवेदं यन्मया संकेतकाल
त्वेन गृह्यमाणं तथा गृहीतं भवति । यद्येवमस्तु सकेतकालदृष्टत्वेन ग्रहणमित्याह--न चेति ।
चोऽवधारणे हेतौ वा । दर्शनविषयत्वमिति ब्रुवन् पूर्वदृष्टत्वशब्दस्यार्थमाह । कथं नास्तीत्याह—
यथेति । हिर्यस्मादर्थे ।
अर्थस्येति सम्प्रति दृश्यमानस्य । तद्भावे निगडाकर्षणन्यायेन प्राक्तनदर्शनस्यापि स्थितिः
प्रसज्येतेति भावः । मा ग्रहीत् संकेतकालदृष्टत्वं तयोर्गृ ह्यमाणयोः संज्ञासंज्ञिभूतयोः शब्दयोस्तथापि
कथं न वाच्यवाचकभावग्राहि तज्ज्ञानमित्याशङ्क्योपसंहरन्नाह--तत इति । यतः संकेतकालत्वेन
गृह्यमाणं वाच्यं वाचकं च गृहीतं भवति ततः कारणात् श्रोत्रविज्ञानं न वाच्यवाचकभावग्राहि ।
भवतु तथागृह्यमाणस्य स्वलक्षणस्य तथात्वम् । किमतः ? एतत्पुनरेनं तथैव ग्रहीष्यतीत्याह—
पूर्वेति । हेतौ शतुर्विधानात् पूर्वकालदृष्टत्वाग्रहणादित्यर्थः ।
स्यादेतत्--संकेतदृष्टत्वेनापि न ग्रहीष्यतेऽर्थः शब्दो वा । अथ च विशिष्टवाचक तया रहितं तिमिराशुभ्रमणनौयानसंक्षोभाद्यनाहितविभ्रमं ज्ञानं प्रत्यक्षम् ॥ ६ ॥ तया कल्पनया कल्पनास्वभावेन रहितं शून्यं सज्ज्ञानं यदभ्रान्तं तत् प्रत्यक्षम् इति
वाचकत्वेन विशिष्टार्थवाचकत्वेन च ग्रहीष्यत इति । असदेतत् । एवं हि ब्रुवतेदमभिप्रेतम्—
येन ज्ञानेन योऽर्थः संकेतकालोपलब्धो यच्छब्दसंसर्गिणा रूपेण नैकीक्रियते, न स तेन तच्छब्द
वाच्यो गृह्यते । यथा गोज्ञानेन संकेतकालोपलब्धाश्वशब्दसंसर्गिणाऽश्वरूपेण सहैकत्वेनाप्रतीय
मानो गौर्नाश्वशब्दवाच्यो गृह्यते । श्रोत्रज्ञानेन संकेतकालोपलब्धघशब्दसंसर्गिणा च रूपेण
नैकीक्रियेते च तदा तरप्तमपाविति व्यापकानुपलब्धिः । तथा येन ज्ञानेन यः शब्दः
54
273परेण सम्बन्धः । कल्पनापोढत्वाभ्रान्तत्वे परस्परसापेक्षे प्रत्यक्षलक्षणम्, न प्रत्येकमिति
दर्शयितुं तया रहितं यदभ्रान्तं तत् प्रत्यक्षमिति लक्षणयोः परस्परसापेक्षयोः प्रत्यक्षविषत्यवं
दर्शितमिति274 ॥
संकेतकालदृष्टयदर्थसंसर्गिणा रूपेण नैकीक्रियते, न तेनासौ तदर्थवाचको गृह्यते । यथा
गोशब्दज्ञानेन संकेतकालोपलब्धाश्वार्थसंसर्गिणाश्वशब्देन सहैकत्वेनाप्रतीयमानो गोशब्दो नाश्वार्थ
वाचको गृह्यते । श्रोत्रज्ञानेन संकेतदृष्टतरप्तमबर्थसंसर्गिणा रूपेण नैकीक्रियते च तदा धशब्द
इति सैव असिद्धिरनुभवेन निराकृता । वास्तवसम्बन्धनिराकरणाच्च व्याप्तिः सिद्धेति । यदा
तु पूर्वदृष्टत्वेन ग्रहोऽस्ति तदा तज्ज्ञानमभिलापसंसृष्टार्थप्रतिभासं सद् विकल्परूपमेवेति
सर्वमवदातम् ।
श्रोत्रज्ञाने यथाऽभिलापसंसर्गयोग्यप्रतिभासत्वं चोदितं तथा योगिज्ञानेऽपि चोदयितुं
शक्यमिति तत्राप्यमुमेव परिहारमतिदिशन्नाह--अनेनेति । यज्ज्ञानं संकेतकालविषयत्वं
गृह्यमाणस्य न गृह्णाति, न तद् वाच्यवाचकभावग्राहीत्यनेन न्यायेन युक्त्या योगिज्ञानं वक्ष्यमाण
लक्षणं सकलशब्दार्थावभासित्वे सत्यपि निर्विकल्पकम् ।
ननु चान्यस्य वाच्यवाचकभावग्राहिणो ज्ञानस्यास्तु निर्विकल्पकत्वम्, अस्य तु सर्वशब्दार्थ
ग्राहिणः कथं तथात्वमित्याह--संकेतेति । तथाऽग्रहणमुक्तेन न्यायेन योगिनं प्रत्यपि पूर्वदर्शन
विषयत्वस्यासत्त्वादिति भावः ।
तया रहितमित्याचार्यीयं विवरणं व्याच24a ष्टे--तयेति ।
ननु विकल्पेऽपि विकल्पान्तरं नास्ति । ततस्तस्यापि कल्पनापोढत्वं किं न भवति ? अथ
कल्पनया रहितमिति यन्न विकल्प्यते इत्युच्यते, तदपि कल्पनापोढमित्यनेनैवाकारेण विकल्प्यत
इति कथमेतदुच्यत इति पश्यन् कल्पनया रहितमित्यस्य विवक्षितमर्थमाह--कल्पनास्वभावेनेति ।
कल्पनायाः स्वभावोऽभिलापसंसर्गयोग्यप्रतिभासत्वम्, तेन । यथा विषाणी ककुद्मान् प्रान्ते
वालधिरिति विषाणादिमता275विषाणादीन्येव गोत्वलिङ्गानि व्यपदिश्यन्ते । तद्वत् कल्पनाख्येन
धर्मिणा धर्मोऽभिलापसंसर्गयोग्यप्रतिभासत्वाख्यो निर्द्दिष्ट इति दर्शयति । अत एव चाचार्य
दिग्नागीयप्रत्यक्षलक्षणे कल्पनापोढत्वाख्ये यदुद्द्योतकरचोद्यमिहैव पूर्वमुपदर्शितं तत्खलु धर्म
कीर्त्तिचोद्यसदृशमिति स्थितम् । परेणेति परदेशस्थितेन तदनाहितविभ्रमं ज्ञानं प्रत्यक्षमित्यनेन ।
अभ्रान्तग्रहणस्यैव तद् विवरणमिति अभ्रान्तग्रहणमिह । दूरस्थितेन सम्बन्धकरणे किम्प्रयो
जनमित्याह--कल्पनापोढेति । मिलितयोरनयोस्तल्लक्षणत्वात् प्रत्यक्षलक्षणमित्येकवचनेन
निर्देशः । इतिना दर्शनीयस्य रूपमाह । कथं परस्परसापेक्षतेत्याह--तया रहितं यदभ्रान्तं
तत्प्रत्यक्षं व्यवहर्त्तव्यमिति शेषः । इतीत्यादिनैव चोपसंहरति । यस्मादेवमितिस्तस्मात् ।
प्रत्यक्षविषयत्वं दर्शितमन्ते प्रत्यक्षग्रहणसामर्थ्यात् ।
55
तिमिरम् अक्ष्णोर्विप्लवः । इन्द्रियगतमिदं 276विभ्रमकारणम् । आशुभ्रमणम् अलातादेः ।
मन्दं हि277 भ्रम्यमाणेऽलातादौ न चक्रभ्रान्तिरुत्पद्यते । तदर्थम् आशुग्रहणेन विशेष्यते
भ्रमणम् । एतच्च विषयगतं विभ्रमकारणम् । नावा गमनं नौयानम् । गच्छन्त्यां
नावि स्थितस्य गच्छद्वृक्षादिभ्रान्तिरुत्पद्यते इति यानग्रहणम् । एतच्च बाह्याश्रयस्थितंर
विभ्रमकारणम् । संक्षोभो वातपित्तश्लेष्मणाम् । वातादिषु हि क्षोभं गतेषु ज्वलितस्त278
म्भादिभ्रान्तिरुत्पद्यते एतच्चाध्यात्मगतं279 विभ्रमकारणम् ।
सर्वैरेव च विभ्रमकारणैरिन्द्रियविषयबाह्याध्यात्मिकाश्रयगतैरिन्द्रियमेव विकर्त्तव्यम् ।
अविकृते इन्द्रिये इन्द्रिय280भ्रान्त्ययोगात् । एते संक्षोभपर्यन्ता आदयो येषां ते तथोक्ताः ।
आदिग्रहणेन काचकामलादय इन्द्रियस्था गृह्यन्ते । आशुनयनानयनादयो विषयस्थाः ।
आशुनयनानयने हि281 कार्यमाणेऽलाते282ऽन्निवर्णदण्डाभासा भ्रान्तिर्भवति । हस्तियानादयो
बाह्याश्रयस्थाः, गाढमर्मप्रहारादय आध्यात्मिकाश्रयस्था विभ्रमहेतवो गृह्यन्ते ।
283तैरनाहितो विभ्रमो यस्मिंस्तथाविधं ज्ञानं प्रत्यक्षम् ॥
तिमिरमक्ष्णोर्विप्लवहेतुत्वाद् विप्लवः । इन्द्रियगतमिन्द्रियाश्रितम् । विभ्रमस्य
भ्रान्तत्वस्य कारणं साक्षात् कारणत्वेन । अलातं विदग्धकाष्ठम् । आशुग्रहणस्य फलमाह—
मन्दम् इति । यद्यपि मन्दं भ्रम्यमाणस्यालातस्य विभ्रमकारणत्वादर्शनादाशु भ्रमणं लभ्यते,
तथापि शास्त्रकृता स्वकीयवचनाकौशलपरिहारार्थमाशुग्रहणं कृतमित्यवसेयम् । पूर्वस्मादेतद्
भेदेन कथमुक्तमित्याह--एतद् इति । चो यस्मादर्थे । आशुग्रहणेन नौयानमपि विशेष
णीयम् । मन्दं हि गच्छन्त्यां नावि न गच्छद्वृक्षादिदर्शनं भवतीत्यनुभवसिद्धमेतत् । इति
र्हेतौ । एतत् कस्मात् पृथगुक्तमित्याह एतच्चेति । चो यस्मात् । संक्षोभ उपचयः ।
प्रकोप इति यावत् । स केषामित्याकाङ्क्षायामाह--वातेति । नासौ विभ्रमकारणमित्याशङ्का
मपनुदन्नाह--वातादिषु--इति । हिर्यस्मात् । क्षोभं प्रकोपं गतेषु संक्षुब्धेष्विति यावत् ।
स्यादेतत्--अस्तु तिमिरस्येन्द्रियोपघातहेतुकत्वाद् भ्रान्तज्ञानहेतुत्वम् । नौयानादीनां
तु कथं सत्स्वपि तेषु तदवस्थत्वादिन्द्रियस्येत्याह--सर्वैरेवेति । इन्द्रियगतस्य तिमिरादेरिन्द्रिय
विकारत्वेन सम्मतस्याप्युपादानं दृष्टान्तार्थम् । तेनायमर्थः--यथेन्द्रियगतं तिमिरादीन्द्रिय
विकुर्वद् विभ्रमहेतुः, तथा अन्यैरपि तद्विकुर्वद्भिरेव विभ्रमहेतुभिर्भाव्यमिति ।
कस्मात्पुनरमीभिरिन्द्रियविकारोऽवश्यकर्त्तव्य इत्याह--अविकृत इत्यादि । एतदुक्तं तदेवं लक्षणमाख्याय 284यैरिन्द्रियमेव द्रष्टृ कल्पितं मानसप्रत्यक्षलक्षणे च दोष तत् चतुर्विधम् ॥ ७ ॥ तत् चतुर्विधमिति ॥ इन्द्रियज्ञानम् ॥ ८ ॥ इन्द्रियस्य ज्ञानम् इन्द्रियज्ञानम् । इन्द्रियाश्रितं यत् तत् प्रत्यक्षम् ।
भवति । तद्विकारविकारित्वादाश्रयाश्चक्षुरादय इति । प्रयोग24b स्त्वेवं कर्त्तव्यः । यदि
56
उद्भावितः, स्वसंवेदनं च नाभ्युपगतम्, योगिज्ञानं च; तेषां विप्रतिपत्तिनिराकरणार्थं285
प्रकारभेदं प्रत्यक्षस्य दर्शयन्नाह--
न्द्रियजभ्रमकारणं तदिन्द्रियं विकरोत्येव यथा तिमिरादि । इन्द्रियजभ्रमकारणं च नौयानादीति
स्वभावहेतुः । एवंविधस्य ज्ञानस्य भ्रमरूपत्वं बाधवशादवसितमिन्द्रियान्वयव्यतिरेकानु
विधानाच्चेन्द्रियजत्वम् । तथाभूतविभ्रमकारणत्वं च नौयानादेः स्वान्वयव्यतिरेकानुविधानात्
सिद्धम् । व्याप्तिरपि तिमिरादौ दर्शिता । अयमेव प्रयोगो दर्पणादिष्वपीन्द्रियजभ्रमनिमित्तेषु
द्रष्टव्यः । उपयुक्तकार्त्स्न्ये वाऽयं सर्वशब्दः प्रवर्त्तनीयः । एत इत्यादि विभ्रमहेतवो गृह्यन्त
इत्यन्तं सुबोधम् । केवलं पर्यन्तोऽन्तो वाच्यः । काचोऽक्षिविकारहेतू रोगविशेषः । कामलो
च 286 नयनवदनादिविकारकारणं व्याधिविशेष एवेति द्रष्टव्यम् ।
तैरनाहितो विभ्रमो यस्मिन्निति विगृह्णंस्त्रिपदं बहुव्रीहिं दर्शयति । अनाहितो
विभ्रमो यस्मिंस्तत्तथेति प्रसाध्य तेषामनाहितविभ्रम इति षष्ठीतत्पुरुषः कार्यः । इदन्त्वर्थ
कथनमिति बोद्धव्यम् । यो हि तैरनाहितविभ्रमः स तेषां भवतीति । ज्ञानाधिकारेण
लक्षणविधानाल्लब्धं ज्ञानम्, तेन ज्ञानमित्युक्तम् ॥
सम्प्रत्याचार्यस्यावान्तरप्रत्यक्षभेदव्युत्पादने निमित्तं दर्शयन्नाह--तदेवमिति । निपात
समुदायश्चायमुक्तेन प्रकारेणेत्यस्यार्थे वर्त्तते । यैरिति प्रत्येकं योजनीयम् । यैः स्वयूथ्यैर्वैभाषिकैः ।
यदि ज्ञानं द्रष्टृ स्यात्, तस्याप्रतिघत्वात् व्यवहितमपि गृह्णीयात् । ततः चक्षुः पश्यति
रूपाणि अभिध० १. ४२ इत्यादिवादिभिरिन्द्रियमेव द्रष्टृ कल्पितम् । यैर्मीमांसकैराचार्य
दिग्नागीये मानसप्रत्यक्षलक्षणे गृहीतग्राहित्वलक्षणोऽप्रामाण्यनिमित्तं दोष उद्भावितः । लक्षण
ग्रहणस्योपलक्षणत्वात् मानसप्रत्यक्षाभ्युपगमेऽपि यो दोषोऽन्धबधिराद्यभावलक्षणः सोऽपि
द्रष्टव्यः । यैश्च मीमांसकैः कुमारिलमतानुसारिभिर्नैयायिकवैशेषिकैश्च स्वात्मनि क्रियाविरोधेन
स्वसंवेदनं नाभ्युपगतम् । यैश्च चार्वाकमीमांसकैर्योगिन एव न सम्भवन्ति, कुतस्तेषां ज्ञानमिति
वादिभिर्योगिज्ञानं च नाभ्युपगतमिति वर्त्तते । त्रयोऽपि चकारा वक्तव्यान्तरं समुच्चिन्वन्ति ।
तेषाममीषां तत्र तत्र या विमतिस्तन्निराकरणार्थं प्रत्यक्षस्योक्तलक्षणस्य प्रकारो विशेषस्तस्यं भेदं
नानात्वम्, अवान्तरजातिभेदमिति यावत् ।
तदिति प्रत्यक्षं चतुर्विधं चतुष्प्रकारम् ॥
तत्रैकं तावदिन्द्रियज्ञानमुक्तं व्याचक्षाण आह--इन्द्रियस्येति । ज्ञायतेऽनेनेति ज्ञानम्, मानस287 प्रत्यक्षे परैर्यो288 दोष उद्भावितस्तं निराकर्त्तुं मानसप्रत्यक्षलक्षणमाह-- स्वविषयानन्तरविषयसहकारिणेन्द्रियज्ञानेन समनन्तरप्रत्ययेन जनितं
57
तन्मनोविज्ञानम् ॥ ९ ॥
इन्द्रियं च तज्ज्ञानं चेति कृत्वा शक्यमिन्द्रियज्ञानमिति वक्तुम्, तत्कथं विप्रतिपत्तिर्निराकृतत्या
शङ्कामपाकर्त्तुम् इन्द्रियज्ञानमित्यत्राचार्यस्येइन्द्रियस्य ज्ञानमिति षष्ठीतत्पुरुषो विवक्षित इति
दर्शयति-इन्द्रियस्य ज्ञानमिति । यदिन्द्रियेण जन्यते तदिन्द्रियस्य भवतीति भावः ।
ननु चेन्द्रियानुमानमपि कार्यप्रभवं भवतीन्द्रियस्य ज्ञानम् । ततस्तस्यापि प्रत्यक्षत्वं प्राप्त
मित्याह इन्द्रियाश्रितमिति । आश्रितं जन्यतया तस्मिन् सत्येव भावात् । न चेन्द्रियानु
25a मानमिन्द्रियेण साक्षाज्जन्यते, येन तस्य प्रत्यक्षत्वं स्यादिति भावः । अनेकहेतुत्वेऽपि
ज्ञानस्येन्द्रियेण व्यपदेशोऽसाधारणत्वात्तस्येति द्रष्टव्यम् । इन्द्रियस्य ज्ञानं प्रत्यक्षमिति कथयता
नेन्द्रियस्य द्रष्टृत्वमिति दर्शितम् । ततो विप्रतिपत्तिर्निराकृता ।
ननु इन्द्रियज्ञानस्य द्रष्टृत्वे तस्याप्रतिघत्वाद् व्यवहितस्यापि ग्रहणं प्रसन्येतेति तैरुक्तो
दोषः । स कथं परिहृतो येन विप्रतिपत्तिर्निराकृतेति चेत् । अयमाशयः--न ज्ञानं गत्वा
गत्वाऽर्थं गृह्णाति, येन गमनविबन्धाभावात् व्यवहितमपि गृह्णीयात् । किन्तर्हि ? यदाकार
मुत्पद्यते तद् गृह्णातीत्युच्यते । न चायोग्यदेशस्थोऽर्थस्तत्स्वरूपकोऽन्वयव्यतिरेकाभ्या विज्ञातः ।
तत्कथं तस्य तेन ग्रह इति सुज्ञानमेतदिति किमत्रोपपत्त्याभिहितयेति ? इन्द्रियज्ञान प्रत्यक्ष
मिन्द्रियादिसामग्रीजन्यज्ञानं प्रत्यक्षम्, एकस्य जनकत्वविरोधात् । नाज्ञानमित्यथात् ।
एवं च दर्शयता वार्त्तिककारेण यद्वेन्द्रियं प्रमाणं स्यात् तस्य वार्थेन सङ्गतिः शलोकवा०
४--६० इत्यादि वचनात्तस्यापि या प्रत्यक्षप्रमाणता मीमांसकादिभिरभ्युपगता सा निरस्ता
वेदितव्या । तथाहि--प्रापकं प्रमाणं भवेत् । नान्यत् । प्रापकत्वं च प्रवर्त्तकत्वेनाव्यवधानेन
नान्यथा । प्रवर्त्तकत्वं चाधिगमात्मकत्वेन नान्यथा । न च तस्य तथात्वमस्ति ।
अधिगमोपगमेन प्रवर्त्तकत्वे च नैव व्यवधीयते । यतश्चाव्यवधानेन प्रवृत्तिः स एव प्रवर्त्तकत्वात्
प्रमाणं युक्तम् । तच्च ज्ञानमेव । तदुक्तम्,
वस्तुनि
यद्वा प्रमायाः करणात् प्रमाणम् । प्रमा च नीलस्येयं न पीतस्येति विशिष्टेनैवाधि
करणेनावच्छिन्ना प्रतीयत इति तत्करणं भवितुमर्हति । यत इयमव्यवधाना ताद्रूप्येण व्यवस्थां
लभते । इन्द्रियार्थसन्निकर्षादिश्च नीलपीतादि289... ... ...स्य भेदव्यवस्थाङ्गम् । स्वभेदेनं
क्रियाभेदनिबन्धनं च करणं ततो ज्ञानात्मकमेव सारूप्यमधिगतिक्रियाभेदव्यवस्थाङ्गं प्रमाणं
युज्यत इति । द्वयी चेयं विधाऽन्यत्रावार्येण विपञ्चितेति नेहोच्यते, प्राज्ञजनाधिकारेणास्य
प्रकरणस्य प्रारम्भात् । दिङ्मत्रिं तूक्तमिति ।
58
स्व आत्मीयो विषय इन्द्रिय290 ज्ञानस्य तस्य अनन्तरः--न विद्यतेऽन्तरमस्येति291 । अन्तरं
292च व्यवधानं विशेषश्चोच्यते । ततश्चान्तरे प्रतिषिद्धे समानजातीयो द्वितीयक्षणभाव्युपादेयक्षण
इन्द्रियविज्ञानविषयस्य गृह्यते । तथा च सति इन्द्रिय293 ज्ञानविषयक्षणादुत्तरक्षण एकसन्ता
नान्तर्भूतो गृहीतः । स सहकारी यस्येन्द्रियज्ञानस्य294 तत् तथोक्तम् । द्विविधश्च सहकारी—
परस्परोपकारी एककार्यकारी च । इह च क्षणिके वस्तुन्यतिशयाधानाऽयोगादेककार्यकारित्वेन295
सहकारी गृह्यते ।
ननु चतुर्विधप्रत्यक्षाभिधाने निमित्तमुक्तमेव धर्मोत्तरेण तत्कथं तदेव मानसेत्यादिना
पुनराचष्टे । अथाचार्यस्य चतुष्टयाभिधाने निमित्तं यदासीत् बुद्धिस्थं तत्प्रागुक्तम्, तदेव तु
यथायोगं प्रत्यक्षव्यक्तिविशेषाभिधानेऽभिधानीयमिति । तर्हि यैरिन्द्रियं द्रष्टृ कल्पितं तन्निरा
करणार्थमाह--इन्द्रियंज्ञानमिति तथाऽन्यत्रापि स्वसंवेदनादौ तत्तन्निमित्तमनेन किन्नोक्तम् ?
तदत्रापि मानसं व्याख्यातुमाहेति वक्तुं युक्तमिति । सत्यमेतत् । केवलं मानसस्य प्रत्यक्षस्या
शक्यनिश्चयत्वेनाव्यवहाराङ्गत्वात्परोक्तदोषनिराकरणमात्रमेवास्य लक्षणाख्याने निमित्तं नान्य
दिति प्रतिपादयितुमुक्तमेव निमित्तमनूदितमिति न किञ्चिदवद्यम् । अथेन्द्रियज्ञानस्यापि
लक्षण25b मन्येषामिव किं नोक्तम् ? नोक्तम् । तल्लक्षणविप्रतिपत्त्यभावात् । इन्द्रिय
ज्ञानमिति निगदेनैव व्याख्यातत्वाच्चेति ।
स्यान्मतम् । अभिमतं चतुर्विधं प्रत्यक्षं दर्शयितव्यम् । तच्चैकदा वक्तुमशक्यत्वात्
क्रमेण वचनीयम् । क्रमश्चैवंविधोऽस्त्वन्यादृशो वा किमत्रादरेणेति इन्द्रियज्ञानादिरीदृशः क्रमः
कृतः, अथान्यदप्यस्य निमित्तमस्तीति ? अन्यदप्यस्तीत्युच्यते । तथाहि सर्वस्य सर्वव्यव
हाराङ्गमिन्द्रियज्ञानमिति तदादितोऽभिहितम् । तेनैवेन्द्रियज्ञानेन तथाभूतेन मानसं जन्यत
इति तदनु मानसं व्याख्यातम् । तस्य पश्चात्प्रत्यात्मवेद्यतयाऽस्तिवेन शक्यनिश्चयतया च
स्वसंवेदनमुदितम् । ततः सर्वज्ञज्ञानस्य सामग्रीमात्रप्रदर्शनतयऽन्तिमपुरुषार्थतया चान्ते योगि
ज्ञानमुपदर्शितमिति ।
स्व इत्यादिना स्वविषयेत्यादिलक्षणं व्याचष्टे । तच्च तत्तथोक्तमित्येतदन्तं सुगमम् ।
नन्वनुपकारकस्य सहकारित्वेऽतिप्रसङ्गाद् उपकारिणा सहकारिणा भाव्यम् । समसमययो विषयविज्ञानाभ्यां 296हि मनोविज्ञानमेकं क्रियते यतस्तदनयोः297 परस्पर 298सहकारित्वम् । 299ईदृशेनेद्रिन्यविज्ञानेनाल300म्बनभूतेनापि301 योगिज्ञानं जन्यते । तन्निरासार्थं
श्चोपकार्योपकारकभावाभावात् कथमसौ विषयक्षणस्तस्य सहकारीत्याशङ्क्याह--द्विविधश्चेति ।
चो यस्मात् । द्विविधो द्विप्रकारः सहकरणशीलो भावः । कथं द्वैविध्यमित्याह—
परस्परेत्यादि । परस्परोपकारितया च सहकारित्वमेकत्वाध्यवसायाधीनं सन्तानगतममुख्यम् ।
मुख्यं तु एकार्थक्रियाकारित्वेन । यदि द्वैविध्येऽपि प्राक्तनस्य ग्रहणं तदा तदवस्थो दोष इत्याह—
इहेति । इह मानसक्रियायाम् । चोऽवधारणे । एकार्थक्रियाकारित्वेनेत्यस्मात् परो
द्रष्टव्यः । सहकारी हि गृह्यते विषयक्षण इति प्रकरणादवसेयम् । पूर्वं कस्मान् न गृह्यत
59
302समनन्तरप्रत्ययग्रहणं 303कृतम् । समश्चासौ ज्ञानत्वेन, अनन्तरश्चा304सौ अव्यवहितत्वेन, स
चासौ प्रत्ययश्च हेतुत्वात् समनन्तरप्रत्ययः, तेन जनितम् ।
इत्याह--क्षणिक इति । हेतुभावेन विशेषणम् । अथ यदि वस्तुनः क्षणिकत्वेनातिशयाधाना
सम्भवात् परस्परोपकारित्वेन न सहकारी गृह्यते द्विविधश्च सहकारीत्यनन्तरमुदितमनेन
व्याहन्येत । हेतुबिन्दुश्च विरुध्येतेति सर्वमसमञ्जसम् । न । अभिप्रायापरिज्ञानात् ।
तथा हि क्षणिके वस्तुनीति धारयाऽप्रवाहिणि सजातीयाप्रसवधर्मिण्यन्तिमे मानसोत्पादकतयाऽ
भिमत इन्द्रियज्ञाननाम्नि निरोधोन्मुख इत्यभिप्रेतम् । न त्वक्षणिकव्यावृत्त्या क्षणिकपदाभि
लाप्येऽवस्तुमात्रव्यावृत्त्या च वस्तुमात्र इति ।
एतदुक्तं भवति । यदीदं मानसोपजननोन्मुखमिन्द्रियज्ञानमेकजातीयप्रवाहवाहि स्यात्तदा
सन्तानोपकारद्वारकातिशयाधायकत्वे विषयोऽस्य सहकारीति कल्प्येत । केवलमिदमपेत
सजातीयप्रसवशक्तिकं सन्तानवर्त्तीति कथमस्य विषयस्तथा सहकारी कल्प्येतेति । ननु किं
तदेकं यत्कुर्वतोरेतयोस्तथासहकारित्वमुच्यत इत्याह विषयेति । हिरवधारणे । यतो
यस्मादाभ्यामेव तदेकं क्रियते, तस्मात् । तदित्ययं तस्मादित्यस्मिन्नर्थे । अन्योन्यस्य सहकारित्व
मेकार्थक्रियाकारित्वेनेति प्रकरणात् ।
ईदृशेनेत्यादिना समनन्तरप्रत्ययग्रहणस्य व्यवच्छेदं दर्शयति । ईदृशेन स्वविषयानन्तर
विषयग्रह26a णसहकारिणा । आलम्ब्यत इति आलम्बनभूतं रूपं यस्य तेन
ग्राह्यस्वभावेन सता जन्यत इत्यर्थः । तस्य योगिज्ञानस्य निरासर्थं मानसत्वनिराकरणार्थम् ।
एवञ्च व्याचक्षाणेन समनन्तरप्रत्ययग्रहणमन्धबधिराद्यभावप्रसङ्गनिराकरणार्थमिति यदन्येन
व्याख्यातम्--तदपहस्तितम् । इन्द्रियज्ञानग्रहणेनैव तत्प्रसङ्गस्य निराकृतत्वादिति ।
समश्चेत्यादिना समनन्तरप्रत्ययशब्दस्य विग्रहमर्थं चाह । हेत्वर्थः प्रत्ययार्थः । शकन्ध्वा
दिपाठाच्च न दीर्घत्वम् । यदि नामैवं व्युत्पत्तिस्तथापि प्राक्तनमेव विज्ञानमुपादानभूतमागमे
तथा रूढं नान्यत् । तदुक्तमभिधर्मकोशे--चित्तचैत्ता अचरमा उत्पन्नाः समनन्तरः २. ६२
इति । सिद्धान्तप्रसिद्धया चामुया संज्ञया व्यवहरताऽऽचार्येण सिद्धान्तप्रसिद्धत्वमस्य दर्शितम् ।
60
तदनेनैकसन्तानान्तर्भूतयोरेवेन्द्रिय305ज्ञान-मनोवि306ज्ञानयोर्जन्यजनकभावे मनोविज्ञानं
प्रत्यक्षमि307त्युक्तं भवति । ततो योगिज्ञानं परसन्तानवर्त्ति निरस्तम् ।
ननु किं कृतं समनन्तरप्रत्ययग्रहणेन येन योगिज्ञानस्य तथात्वेन निरास इत्याह--तदिति ।
यस्मात्समनन्तरप्रत्ययरूपेणेन्द्रियज्ञानेन यज्जनितं तन्मानसं तत्तस्मात्कारणादनेन समनन्तर
प्रत्ययग्रहणेनैकसन्तानान्तर्भू तयोरेकसन्ततिपतितयोरेव जन्यजनकभावे सति मनोविज्ञानमिति ।
साक्षादिन्द्रियाजन्यतया मनोमात्राश्रितत्वान्मानसमेवोक्तम् । आगमेऽपि मनःशब्देनैतदेवोच्यत
इति प्रदर्शनार्थं चैवमभिधानं मन्तव्यम् । तथापि कथं योगिज्ञानं तथात्वेन निरस्तमित्याह—
तत्र इति । यस्मादुपदानोपादेयभूतयोर्ग्रहणं भिन्नसन्तानवर्त्तिनोश्चोपादानोपादेयभावाभावः,
तस्माद् योगिज्ञानं निरस्तं मानसत्वेन प्रतिक्षिप्तम् । यदि पुनरिन्द्रियज्ञानेन जनितमित्येता
वदुच्येत तदाऽऽलम्बनभूतेनापि तेनादौ जन्यत इति निरस्तं न स्यादिति भावः ।
स्यादेतत्--यद्येतदर्थं समनन्तरप्रत्ययग्रहणं तर्हि नितरां न कर्त्तव्यम् । स्वविषयानन्तर
विषयक्षणसहकारिणेत्यनेनैव योगिज्ञानस्य निरस्तत्वात् । न हि तदिन्द्रियज्ञानं योगिज्ञाने कर्त्तव्ये
स्वविषयानन्तरविषयक्षणसहकारीति । अथोच्यते--यदेन्द्रियज्ञानं योगिज्ञानं जनयति तदा
स्वोपादेयमपि ज्ञानं जनयत्येव । ततः स्वसन्ततिपतितजन्यक्षणापेक्षया तद् भवति स्वविषया
नन्तरविषयक्षणमहकारीत्यस्ति तज्जनितस्य तस्य मानसत्वलक्षणमिति । अहो शब्दार्थव्य
वस्थापनकौशलम्? यदेव हि जन्यतया प्रकृतं तदपेक्षमेव सहकारिणः सहकारित्वं चिन्तनीयम् ।
न तु यत्किञ्चिदपेक्षम् । न च तदेव योगिज्ञानं प्रति तत् सहकारि तदिन्द्रियज्ञानं येन
तथात्वमस्योच्यमानं शोभेत । अथ तत् सहकारि तद् वस्तुवृत्त्या तदिन्द्रियज्ञानम् ।
तत् किम् तदपेक्षया चिन्तयेति चेत् । यद्येवं कृतेऽपि समनन्तरप्रत्ययग्रहणे योगिज्ञानं निरसितु
मशक्यं तथापि यथा तदिन्द्रियज्ञानं स्वोपादेयज्ञानापेक्षं स्वविषयानन्तरविषयसहकारि तथा
तदेवापेक्ष्य समनन्तरप्रत्ययोऽप्यदो भ26b वत्येव । ततस्तथाभूतेन तेन जन्यमानस्य
योगिज्ञानस्य कथं तथात्वेन निरासः । ननु न तदपेक्षं तस्य समनन्तरप्रत्ययत्वम् । हन्त
तत्सहकारित्वमपि किमस्य तदपेक्षमस्ति ? अथ समनन्तरप्रत्ययत्वं प्रकृतजन्यापेक्षं ग्राह्यम्,
न तु वास्तवं रूपमुपादेयं फलाभावेन तस्यानुवाद्यताऽनुपपत्तेः । अन्यथा समस्तवास्तवरूपानु
वाद्यताप्रसंगादिति चेत् । समानमिदं स्वविषययानन्तरविषयक्षणसहकारिग्रहणेऽपि । न च
राजशासनसमानं किञ्चिदुत्पश्यामो येन समनन्तरप्रत्ययजन्यत्वमेव प्रकृतजन्यापेक्षमिह ग्राह्यम्,
न तु स्वविषयानन्तरविषयक्षणसहकारित्वमिति कल्पनीयमिति ।
अत्रोच्यते । यदा--योगी इन्द्रियज्ञानं तत्सहभुवं चार्थक्षणं च कुतश्चित्कारणाद्दिदृक्षमाणो
योगिज्ञानेन तद्द्वयमपि पश्यति तदा तेनेन्द्रियज्ञानेन स्वविषयानन्तरविषयक्षणसहकारिणा तद्
योगिज्ञानं जन्यत इति असति समनन्तरप्रत्ययग्रहणे मानसप्रत्यक्षं समासज्येत । ततस्तन्नि
वृत्त्यर्थं कर्त्तव्यमेव समनन्तरप्रत्ययग्रहणम् । एवंविधमेव च योगिज्ञानमभिप्रत्येत्येदृशेनेत्येभिहितं
धर्मोत्तरेणेति सर्वमवदातम् ।
61
308यदा चेन्द्रियज्ञानविषयादन्यो विषयो मनोविज्ञानस्य तदा गृहीतग्रहणादासञ्जितोऽ310
प्रामाण्यदोषो निरस्तः ।
यदा चेन्द्रिय311 विज्ञानविषयोपादेयभूतः312 क्षणो गृहीतः, तदेन्द्रियज्ञानेनागृहीतस्य विषया
न्तरस्य ग्रहणादन्धबधिराद्यभावदोषप्रसङ्गो313निरस्तः ।
सम्प्रति यथा गृहीतग्राहित्वद्वारको दोषः परस्य परिह्रियते तथा दर्शयन्नाह--यदा चेति ।
चो व्यक्तमेतदित्यस्मिन्नर्थे । यदैवं तदा निरस्तः । इन्द्रियज्ञानविषयादन्योऽस्य विषय
इत्येतदेव कुतो येनासौ निरस्तो भवति इत्याशङ्क्याह--यदा चेति । चोऽवधारणे । इन्द्रिय
विज्ञानविषयोपादेयभूत इत्यस्मात्परो द्रष्टव्यः । इन्द्रियज्ञानस्य विषयो यस्तस्योपादेयभूतो
यः क्षणः स गृहीत इन्द्रियज्ञानस्य मानसोपजनने सहकारिकारणत्वेन स्वीकृतस्तदेतीहैवच्छेदः
कर्त्तव्यः । एवं ब्रुवतेदमाकूतम्--जनकविशेषस्य विषयत्वान्मानसप्रत्यक्षस्य विषयेण भवता
जनकेनावश्यभाव्यम् । जनकश्चेन्द्रियज्ञानसहभूः क्षणस्तस्येति । सोऽस्येन्द्रियज्ञान
विषयात्प्राक्तनार्थक्षणादन्यो विषय इति । अनेन च स्वविषयानन्तरविषयक्षणसहकारिग्रहणस्यो
पयोगो दर्शितः ।
अथेत्थं गृहीतग्राहित्वादप्रामाण्यप्रसङ्गो निराक्रियताम् । अन्धबधिराद्यभावदोषप्रसङ्गस्तु
कथङ्कारं निराक्रियेतेत्याशङ्क्याह--इन्द्रियज्ञानेनेति । अमुनाऽगृहीतस्य विषयान्तरस्य
ग्रहणान्मानसेनेति प्रकरणात् । तस्माद् हेतोरिन्द्रियज्ञानेनागृहीतं मानसेन गृह्यत इति दर्शयता
चानेन यस्यैवेन्द्रियमस्ति तस्यैव तेनेन्द्रियज्ञानेन सहभूविषयक्षणसहकारिणा जनितत्वान्मानसं
प्रत्यक्षम् । तेनागृहीतंतत्सहभुवं विषयक्षणं गृह्णाति । यस्य पुनः पुंसोऽर्थविषयमिन्द्रियज्ञानमेव
नास्ति तस्य कथं मानसमुत्पद्येत, गृह्णीयाद् वा तं विषयक्षणमिति दर्शितम् । अतोऽन्धबधिरा
द्यभावदोषप्रसङ्गो निरस्त इति । अनेनेन्द्रियज्ञानग्रहणस्य स्वविषयानन्तरविषयक्षणसहकारि
सचिवस्योपयोगो दर्शितः । केवलेऽपि ज्ञानेनेति ग्रहणेस्व27a विषयानन्तरविषयक्षण
सहकारिणेतिविशेषणवलाद् यदि नामेन्द्रियज्ञानेनेति लभ्यते तथापि प्रतिपत्तिगौरवपरिहारार्थ
मिन्द्रियग्रहणं कृतमित्यवसेयम् । अन्धबधिरादीत्यत्रादिग्रहणात्काप्ति314रोगिणो ग्रहणम्
तस्यापि मानसेन स्पर्शज्ञानात् ।
इह शान्तभद्रेण सौत्रान्तिकानां मतं दर्शयता पूर्वं चक्षूरूपे चक्षर्विज्ञानं ततस्तेनेन्द्रिय एतच्च मनोविज्ञानमुपरतव्यापारे चक्षुषि प्रत्यक्षमिव्यते । व्यापारवति तु चक्षुषि
विज्ञानेन सहजक्षणसहकारिणा तृतीयस्मिन् क्षणे मानसप्रत्यक्षं जन्यते इति व्याख्यातम् ।
62
यद्रूपज्ञानं तत्सर्वं चक्षुराश्रितमेव । इतरथा चक्षुराश्रितत्वानुपपत्तिः कस्यचिदपि315 विज्ञानस्य ।
तदवमन्यमान आह--एतच्चेति । चोऽवधारणे । उपरतव्यापार इत्यस्यानन्तरं द्रष्टव्यः ।
चक्षुषो व्याप्रियमाणावस्था प्रणिधानमेव । एतन्मनोविज्ञानं प्रमाणं प्रमाणत्वेनोपगतमुपरतव्यापार
एव चक्षुषि भवतीतीष्यत इति समुदायार्थो द्रष्टव्यः । यदि प्रणिहिते नयने मनोज्ञानं न जन्यते
तर्हि किं नाम जायत इत्याह--व्यापारेति । तुर्निर्व्यापारावस्थाया व्यापारवतीमवस्थां भिनत्ति ।
रूपज्ञानमिति वास्तवानुवादो न पुनरन्यज्ञानसम्भवेन तद्व्यवच्छेदार्थम् । यद्वा रूपशब्दः स्व
भाववचनस्तेन यत्स्वभावज्ञानमित्यर्थः । सर्वग्रहणेन व्याप्तिमाह । चक्षुराश्रितं चक्षुर्जन्यं
चक्षर्विज्ञानमिति यावत् । उपपत्तिमाह--इतरथेति ।
ननु व्यापारवत्यपि चक्षुषि मानसोत्पत्तौ न चक्षुराश्रितत्वानुपपत्तिरादिमस्यैव ज्ञानस्य
चक्षुराश्रितत्वोपपत्तेः । सत्यम् । केवलमयमभिप्रायः--यदपि तदाद्यं चक्षुर्विज्ञानं तदपि
चक्षुरन्वयव्यतिरेकेऽ316नुविधानादेव तदाश्रितं व्यवस्थापनीयम् । सत्यपि तदन्वयव्यति
रेकानुविधाने यदि कस्यचिन्मानसत्वं तदा चक्षुरन्वयव्यतिरेकौ चक्षुराश्रितत्वव्यवस्थाया अनङ्ग
मित्याद्येऽपि तद्व्यवस्था न स्यादिति साधीयान् प्रसङ्गः ।
स्यादेतत्--किमेतन्मानसं चक्षुर्विज्ञानेनैव रूपविषये जन्यते किं वा रसनादिज्ञानेनापि
रसादिविषय इति ? किं चातः ? यदि रूप एव तदा 317द्विविधज्ञानविज्ञेयाः पञ्च बाह्यविषयाः
इत्यागमो विरुद्ध्येत । अथ समस्तरूपादिविषयमिष्यते तदा शब्दविषयत्वेन तस्यासम्भवः ।
नहि रसादिरिव ताल्वादिजन्मा शब्दः प्रवाहवाही, येन श्रोत्रेन्द्रियज्ञानेन स्वाविषया
नन्तरविषयक्षणसहकारिणा तत्र मानसं जन्येतेति । उच्यते--रूपादिपञ्चकविषयमेतत्, न तु
रूपमात्रविषयम् । तदाहाचार्यः--इन्द्रियज्ञानेन, न तु चक्षुर्विज्ञानेनेति । यत्पुनरवादीद् भगवान्—
द्वाभ्यां भिक्षवो रूपं गृह्यते, चक्षुर्विज्ञानेन तदाकृष्टेन च मनसेति तद्रूपस्य ग्रहणप्रसङ्गेनो
क्तम्, न तु रूपमेव द्विधा गृह्यत इति विवक्षितम् ।
ननूक्तं न तस्य शब्दविषयत्वेन सम्भवस्तत्कथमेवमभ्युपगमः ? सत्यमेतत् । केवलं
यदाऽभिहन्यमानं घण्टाटि रणति तदा तदुक्तः318शब्दः कियन्तं कालं सन्तानेन प्रवहतीति
श्रोत्रज्ञानेन स्वविषयानन्तरविषयक्षणसहकारिणा तद्विषयं मानसं जन्यते । एतावताऽपि
द्विविधज्ञानवेद्यत्ववचनं चरितार्थम् । तदुक्तमभिधर्मकोशे--रूपादिजात्यभिसम्बन्धिवचनाद्
इति । अस्यार्थः--रूपादिजात्यभिसन्धिना तदुक्तं भगवता, न तु 27b सर्वरूपादिव्यक्त्य
भिप्रायेणेति ।
इह पूर्वैः--बाह्यार्थालम्बनमेवंविधं मनोविज्ञानमस्तीति कुतोऽवसेयम् इत्याशङ्क्य एतच्च सिद्धान्तप्रसिद्धं मानसं प्रत्यक्षम् । न त्वस्य प्रसाधकमस्ति प्रमाणम् । एवं
तदभावे तद्बलोत्पन्नानां विकल्पानामभावाद् रूपादौ विषये व्यवहाराभावप्रसङ्गः स्याद्
इत्युक्तम् । चक्षुरादिविज्ञानेनानुभूतत्वान्न विकल्पाभाव इति चाशङ्क्याभिहितम्--देवदत्तेनापि
63
जातीयकं तद् यदि स्यात् न कश्चिद् दोषः स्यादिति वक्तुं लक्षणमाख्यातमस्येति ॥
दृष्टे यज्ञदत्तस्यापि विकल्पप्रसङ्गः । सन्तानभेदान्नभविष्यति इति च पुनराशङ्क्य अत्रापि
सन्तानभेदादेव विकल्पो न प्राप्नोति, यत इहापीन्द्रियाश्रयभेदादेव सन्तानभेदो युगपत्प्रवृत्तेश्च ।
दीर्धशष्कुलीभक्षणादौ हि युगपज्ज्ञानप्रवृत्तिर्दृश्यते । न च सन्तानस्यैक्ये युगपत्प्रवृत्ति
र्न्याय्या । तस्माद् रूपादिविकल्पाभावो मा भूदित्यवश्यमविकल्पकं मनोविज्ञानमभ्युपेयम् ।
एतेन निश्चयस्मरणाभावप्रसङ्गोऽपि ढौकनीयः । निर्विकल्पकं मनोविज्ञानं यदि नास्त्येव तदा
योगिज्ञानाभावप्रसङ्गः । अस्त्येव निर्विकल्पकं मनोविज्ञानं किन्त्विन्द्रियज्ञानपृष्ठभावि नास्तीति
चेत् । सति सम्भवे तस्याप्यस्तित्वे को विरोधः । न ह्यत्र बाधकं प्रमाणं दृश्यते, येन तन्नास्तीति
स्यात् । अस्तित्वे चोक्तं प्रमाणम् । तस्मादस्तीन्द्रियज्ञानपृष्ठभावि मनोज्ञानं निर्विकल्पकम्
इत्येवमाद्यभिहितम् । तदेतत्तदीयं कदलीगर्भनिःसारं मन्यमानः प्राह--एतच्चेति । चोऽवधारणे ।
सिद्धान्तप्रसिद्धमित्यतः परो द्रष्टव्यः । एतदेव व्यतिरेकमुखेण द्रढयति न त्वस्येति । तुरवधारयति
भिनत्ति वा । प्रवाहानारम्भकस्यास्यज्ञानात्मतया स्वसंवेदनरूपत्वेऽप्यसंविदितकल्पत्वादनुभव
गम्यमिदंयथा चक्षुरादिज्ञानमिति दर्शयितुमशक्यत्वान्नास्य प्रसाधकं निश्चायकं प्रमाणमस्ति ।
ननु तैर्दर्शितमेव विकल्पाभावप्रसङ्गः स्यादित्यादिना प्रसङ्गमुखेन प्रमाणं विकल्पोदया
दिति तत्किमुच्यते न त्वस्य प्रसाधकमस्ति प्रमाणमिति । अयमस्याशयः--सत्यमुक्तमतार्किकीयं
तु तत् । तथाहि यत् तावदुक्तमिन्द्रियाश्रयभेदाद् युगपत्प्रवृत्तेश्च सन्तानभेदोऽस्ति । न च
सन्तानभेदेऽन्यानुभूतेऽन्यविकल्पो युक्त इति । तदवाच्यम् । यदीन्द्रियाश्रयभेदाद् युगपत्प्रवृत्तेश्च
सन्तानभेदस्तद्भेदे च न कार्यकारणभावः, तदा स्वापादुत्थितमात्रस्य पुंसश्चक्षुर्विज्ञानं
319... ... ...नोत्पद्येत । तत् खलूपजायमानं मनोज्ञानाद् वा प्राचीना
दुत्पद्येत, इन्द्रियज्ञानाद् वा । न तावदिन्द्रियज्ञानात् तस्य पूर्वमभावात्, नापि जागरावस्थाभावी
न्द्रियज्ञानात् । तस्य चिरनिरुद्धत्वात् । न च चिरातीतं कारणमिष्यते । अथैवं भिन्नसन्तानै
रेव विकल्पितैर्विकल्पोदयोऽस्त्येव न तु निर्विकल्पाद् विकल्पोदय इति चेत् । सन्तानभेदेऽपि
जन्यजनकभावे निर्विकल्पादपि विकल्पोदयस्य को निषेद्धा । न चेन्द्रियाश्रयभेदाद् युगपत् प्रवृत्तेश्च
सन्तानभेदो युज्यते । परस्परपरोक्षतादिप्रसङ्गात् । तस्मात्प्रभूतमल्पं वा सदृशादेव कारणा
ज्जायते । न तु प्रभूतस्योदयमात्रेण सन्तानभेदोऽभ्युपेतव्यः । यथाऽग्निकणिकायाः 28a प्रभा
प्रतानवती प्रदीपशिखा जायमाना न सन्तानभेदमात्मन्यावहति । यत्पुनर्योगिज्ञानस्य तथात्वे-,
ऽपीदानीं मनोज्ञानं निर्विकल्पकं नाभ्युपेयते तद् यादृश्याः सामग्र्यास्तदुद्भवो यदाकारञ्च तत्
तत्सामग्र्यभावात्तदाकारस्य च मनोविज्ञानस्य निर्विकल्पस्यासंवेदनादिति किमत्रादरेणेति ।
ननु च यद्यस्य प्रसाधकं प्रमाणं नास्ति किमर्थं तर्हि प्रत्यक्षप्रकरण उपन्यास इत्याशङ्क्याह—
एवमिति । एवंजातीयकमेवम्प्रकारवत् । एवम्प्रकारलक्षणकथनस्यैव किम्प्रयोजनमिति
चेत् । सूत्रकारस्य सिद्धान्तप्रसिद्धमानसाभ्युपगमे प्रसक्तचोद्यनिराकरणम्--यद्यस्ति मानसं
प्रत्यक्षमेवं तस्य लक्षणमिति ॥
64
स्वसंवेदनमाख्यातुमाह--
सर्वचित्तचैत्तानामात्मसंवेदनम् ॥ १० ॥
320सर्वचित्तेत्यादि । चित्तम् अर्थमात्र321ग्राहि । चैत्ता विशेषावस्थाग्राहिणः सुखादयः ।
सर्वे च ते चित्तचैत्ताश्च सर्वचित्तचैत्ताः । सुखादय एव स्फुटानुभवत्वात् स्वसंविदिताः, नान्या
चित्तावस्थेत्येतदाशङ्कानिवृत्त्यर्थं सर्वग्रहणं कृतम् । नास्ति सा काचित् चित्तावस्था यस्यामा
त्मनः322 संवेदनं न प्रत्यक्षं स्यात् ।
येन हि रूपेणात्मा वेद्यते तद्रूपमात्मसंवेदनं प्रत्यक्षम् ।
वैभाषिकप्रक्रियया यदाचार्येण चित्तचैत्तौ भेदेनोक्तौ तयोरर्थमाह--चित्तमर्थमात्रग्राहि
वस्तुमात्रग्राहि । तत्रार्थदृष्टिर्विज्ञानम् इति वचनात् । चैत्ता विशेषावस्थाग्राहिणो विशेषा
वस्थास्वीकर्त्तारो विशेषावस्थाकारा इति यावत् । तद्विशेषे तु चैतसा इति वचनात् । क एवं
रूपा इत्याह--सुखादय इति । सर्वे चेति विगृह्णन् पूर्वं चित्तानि च चैत्ताश्चेति समस्य
पश्चात्सर्वशब्देन समास इति दर्शयति । सुखेत्यादिना सर्वग्रहणस्य फलमाह--स्फुटो व्यक्तो
ऽनुभवः प्रकाशो यस्य तस्य भावस्तस्मात् । सर्वग्रहणे सति कीदृशोऽर्थो भवति, येनाशङ्का
निवर्त्त्यत इत्याह--नास्तीति । काचिदिति भ्रान्ता वाऽभ्रान्ता वेत्यर्थः ।
ननु ज्ञानस्य संवेद्यात्मनः किमन्यद् रूपान्तरं यत्स्वसंवेदनं प्रत्यक्षं स्यादित्याशङ्क्याह—
येन हीति । हिर्यस्मादर्थे ।
अथ यदनुभूयते तदन्येनैव यथा घटादि । तत्कथमात्मनैवात्मनः संवेदनमिति चेत् ।
न । योग्यतायास्तथाव्यवहारात् । अस्ति ज्ञानस्य सा योग्यता जडव्यावृत्तता ज्योतीरूपता यया
स्वप्रकाशे प्रकाशान्तरं नापेक्षते । यथा प्रदीपः प्रकाशस्वाभाव्यादात्मानं स्वयमेव प्रकाशयति,
न तु प्रदीपान्तरमपेक्षत इति ।
ननु किं घटादिदृष्टान्तबलात्प्रकाशान्तरप्रकाश्यता ज्ञानस्यास्ताम्, आहोस्वित् प्रदीप 323इह च रूपादौ वस्तुनि दृश्यमाने324आन्तरः सुखाद्याकारस्तुल्यकालं 325संवेद्यते । न च— यदि हि सातरूपोऽयं329 नीलादिरनुभूयते इति निश्चीयेत, स्यात्330 तदा तस्य
दृष्टान्तसामर्थ्यात् प्रकाशान्तरनिरपेक्षतया स्वप्रकाशता ? अत्रोच्यते । ज्ञानस्य स्वप्रकाशरूपत्वा
भावे घटादेः स्वरूपप्रकाशनानुपपत्तेः स्वप्रकाशतैवेष्टव्या । अत्र च प्रयोगः--यदव्यक्तव्यक्तिकं
न तद् व्यक्तम् यथा किञ्चित्कदाचित् कथञ्चिदव्यक्तव्यक्तिकम् । अव्यक्तव्यक्तिकश्चायं
घटादिः ज्ञानपरोक्षत्व इति व्यापकानुपलब्धिप्रसङ्गः । ज्ञानस्य ज्ञानान्तरेण व्यक्तौ हेतुरयमसिद्ध
इति चेन्न, नीलज्ञानोदयकालेऽसिद्धत्वाद् हेतोर्नीलस्य परोक्षत्वप्रसञ्जनात् । न च भवतामपि
मतै सर्वं विज्ञानमेकार्थसमवायिना ज्ञानेन ज्ञायते । बुभुत्साऽभावे तदभावात्, यथोपेक्षणीय
विषया संवित् । तत उपेक्षणीयमेव तावदव्यक्तव्यक्तिकत्वादव्यक्तं प्रसज्येत । न चेयम
65
गृह्यमाणाकारो नीलादिः 326सातरूपो वेद्यते इति 327शक्यं वक्तुम् । यतो नीलादिः 328सात
रूपेणानुभूयत इति न निश्चीयते ।
सातादिरूपत्वम् । यस्मिन् रूपे प्रत्यक्षस्य साक्षात्कारित्वव्यापारो विकल्पेनानुगम्यते तत्
प्रत्यक्षम् ।
नुपलब्धिः सन्दिग्धविपक्षव्यावृत्त्याऽनैकान्तिकी कीर्त्तनीया । 28b तथा हि यद्यव्यक्त
व्यक्तिकमपि व्यक्तव्यवहारविषयस्तदा पुरुषान्तर्वर्त्तिज्ञानव्यवितकमपि वस्तु स्वज्ञानोदयकालवत्
तथैव व्यक्तं व्यवह्रियेत । अस्वसंवेदनात्मतया स्वपरसन्तानवर्त्तिनोर्ज्ञानयोर्विशेषाभावात् ।
तत्सन्ताने ज्ञानस्याभावात् कथं वस्तुनस्तथा व्यवहार इति चेत् । भावेऽपि तदप्रकाशे कथं
तथा व्यवहारः ? न हि तेनास्य किञ्चित् क्रियते । 331... ...तदा तदपि पुरुषान्तरस्य
किन्न तथा व्यवहारगोचरः ? तदयं व्यक्तव्यवहारो व्यक्तव्यक्तिकत्वेन व्याप्तः । सिद्धे
च व्याप्यव्यापकभावे व्यापकानुपलब्धिर्नानैकान्तिकीति ।
ननु किं तद्रूपान्तरम्, येनोच्यते--येनात्मा संवेद्यते, तदात्मसंवेदनं प्रत्यक्षमिति ?
केवलमर्थशून्यमेतदुच्यते इत्याशङ्क्याह--इहेत्यादि । अन्तरे भव आन्तरोऽध्यात्मपरिस्पन्दी ।
कोऽसावीदृश इत्याह--सुखेति ।
ननु गृह्यमाण एव रूपादिः सुखाद्याकारोऽनुभूयते । न तु ततोऽन्यत्सुखादिरूपं येन न च नीलस्य 333सातरूपत्वमनुगम्यते । तस्मादसातान्नीलाद्यर्थादन्यदेव334 सातमनु तच्च 337ज्ञानरूपवेदनमात्मनः साक्षात्कारि निर्विकल्पकमभ्रान्तं च । 338ततः प्रत्यक्षम् ॥
तस्य वेदनरूपता व्यवस्थाप्येतेत्याह--न चेति । चोऽवधारणे, यस्मादर्थे वा । गृह्यमाण
आकारो यस्य ग्राह्यस्वभाव इत्यर्थः । सातरूपः सुखस्वभावः । सातग्रहणस्योपलक्षणत्वाद्
दुःखरूप इत्यपि द्रष्टव्यम् । इतिना वचनस्याकारं दर्शयति । कुत एवं वक्तुं न शक्यत
इत्याह--यत इति । इतिर्निश्चयस्य स्वरूपमाह । किं ताद्रूप्येण निश्चयेऽपि ताद्रूप्यानुभवः
सिद्ध्यति, येन तदा332भावान्नैवं शक्यते वक्तुमित्युच्यते इत्याह--यदीति । हिर्यस्माद्
इति । इतिकरणेन निश्चयस्वरूपमुक्तम् । अनेन यदेवानुरूपविकल्पेन यथात्वेन निश्चीयते
तदेव तथात्वव्यवहारगोचरो यथा नीलादिरित्याकूतम् । ननु च तत्प्रतिभासादनुभवः प्रमाणम् ।
66
भूयते335 नीलानुभवकाले । तच्च ज्ञानमेव । ततोऽस्ति336 ज्ञानानुभवः ।
निश्चयो भवतु, मा वा भूत् । तत्किमेवमुच्यत इत्याशङ्क्य पूर्वोक्तमेव स्मारयति--यस्मिन्निति ।
रूपे स्वभावे । शेषं प्रागेव कृतव्याख्यानम् । गृहीतं नीलस्य सातरूपत्वं विकल्पेनानुगम्यत
एवेत्याह--न चेति । चः पूर्ववत् । अनुगम्यते विकल्पेनेति वर्त्तते । तस्मादित्यादिनोक्त
मुपसंहरति । यस्माद् गृह्यमाणाकारो नीलादिर्न तथा निश्चीयते, अस्ति च हर्षाद्याकार
संवेदनम्, तस्माद् ।
भवतु साताकारोऽनुभूतः । केवलमसावज्ञानात्मा भविष्यति । तथा च कथमज्ञानेन
ज्ञानात्मसंवेदनम् ? कथं चात्मवेदनं प्रत्यक्षमित्याह--तच्चेति । चोऽज्ञात्मन एवं भिनत्ति ।
ज्ञानमेवेत्यवधारयतः प्रकाशात्मन एवं ज्ञानत्वमन्यथा प्रकाशायोगादित्यभिप्रायः । यत एवं
ततोऽस्ति ज्ञानानुभवः । इत्यन्तर्मुखस्य सुखाद्याकारस्य ग्राहकाकाराख्यस्येत्यर्थः । न च
ग्राह्याकारादन्य दनुभूयमानं सातं ग्राहकाकारादप्यन्यदुपपद्यते । ग्राह्यं वा प्रकाशेत, ग्राहकं
वा । न च तद् ग्राह्यमतो ग्राहकमेव । अथ ज्ञानमस्तु तथानुभूतम् । तत्पुनरात्मसंवेदनं प्रत्यक्षं
कुत इत्याह--तच्चेति । चो यस्माद् । वेद्यतेऽनेनेति वेदनम् । ज्ञानरूपस्य वेदनमिति
विग्रहः29a । यद्वा ज्ञानरूपं च तद् वेदनञ्चेति तथा । साक्षात्कारि अपरोक्षताकारि,
स्कुटावभासमिति यावत्, हेतुभावेनास्य विशेषणत्वात् । अत एव च निर्विकल्पकम् । विकल्पा
नुबद्धस्य स्पष्टार्थप्रतिभासित्वायोगात् । भवतु निर्विकल्पकं द्विचन्द्रादिज्ञानवद् भविष्यती
त्याह--अभ्रान्तं चेति । चस्तुल्योपायत्वं समुच्चिनोति । नहि तत् स्वात्मनि अतस्मिंस्तदिति
प्रवृत्तम्, येन तत्र भ्रान्तिर्भविष्यतीति भावः । भवतां निर्विकल्पकत्वाभ्रान्तत्वे ततः किं
सिद्धमित्याह--तत इति । यत एतद् रूपद्वययोगि ततस्तस्मात् । एतावन्मात्रलक्षणत्वा
त्प्रत्यक्षस्येति भावः ।
तत्र चेयं व्यवस्था । आत्मात्मयोग्यता प्रमाणम्, आत्मसंवित् फलमिति द्रष्टव्यम् ।
स्यान्मतम्--इत्यं तस्य वेदनस्य प्रत्यक्षत्वे विकल्पात्मवेदनस्यापि तत्त्वं स्यात् । न च
विकल्पात्मा प्रत्यक्षं युज्यते । युज्यते, स्वात्मनि अविकल्पनादभ्रान्तत्वाच्च । विकल्पो हि बाह्यं
विकल्पयति न त्वात्मानम् । भ्राम्यति च ब्राह्ये, नात्मनि । ततः किं न प्रत्यक्षम् ? प्रयोगः—
यदभ्रान्तत्वे सत्यविकल्पं तत् प्रत्यक्षम् । यथेन्द्रियज्ञानस्य बाह्यसंवेदनम् सारूप्याख्यम् ।
अभ्रान्तत्वे सत्यविकल्पकं चात्मनि विकल्परूपवेदनमिति स्वभावः । यथा च ज्ञानात्मनि
समयासम्भवो यथा वा समितः शब्दसंसृष्टो न गृह्यते तथाऽन्यत्र प्रपञ्चितमिति नेहोच्यत इति ॥
67
योगिप्रत्यक्षं व्याख्यातुमाह339
भूतार्थभावनाप्रकर्षपर्यन्तजं योगिज्ञानं चेति ॥ ११ ॥
भूतः 340सद्भूतोऽर्थः । प्रमाणेन दृष्टश्च सद्भूतः ।
यथा 341चत्वार्यार्यसत्यानि ।
भूतस्य भावना पुनः पुनश्चेतसि विनिवेशनम् । भावनायाः प्रकर्षो भाव्यमानार्थाभासस्य342
ज्ञानस्य स्फुटाभत्वारम्भः । प्रकर्षस्य पर्यन्तो यदा स्फुटाभत्वमीषदसम्पूर्णं भवति । यावद्धि
स्फुटाभत्वमपरिपूर्णं तावत् तस्य343 प्रकर्ष344गमनम् ।
भूतशब्दस्य विवक्षितमर्थमाह--सद्भूत इति । अर्थ इति ब्रुवाणो भूतश्चासावर्थ
श्चेति कर्मधारयं दर्शयति । ननु सुखादिमयत्वमप्यर्थस्य सांख्यपरिकल्पितं सद्भूतमित्याह—
प्रमाणेनेति । दृष्टो निश्चितः । चकारः स्फुटमेतदित्यर्थं द्योतयति ।
कः पुनरीदृशोऽर्थो विवक्षित इत्याह--यथेति । अनेन भूतार्थशब्देनात्र सत्यचतुष्टयं
विवक्षितमिति दर्शितम् । यथा चतुरार्यसत्यभावनाबलजं ज्ञानं योगिनः प्रत्यक्षम्, तथाऽन्यसद्
भूतार्थविषयमपि द्रष्टव्यमिति यथाशब्दार्थोऽप्यस्ति । यद्विनिश्चयः तुरार्यसत्यदर्शनवदिति ।
आरात्पापकेभ्यो धर्मेभ्यो याता इत्यार्याः । अत एव तानि सत्यतया मन्यन्त इति तेषां सत्यानि ।
चतुष्ट्वाच्च तेषां चत्वारीत्युक्तम् ।
फलभूताः पञ्च सक्लेशस्कन्धा दुःखाख्यं सत्यमेकम् । त एव हेतुभूतास्तृष्णासहायाः
समुदयाख्यं सत्यं द्वितीयम् । चित्तस्य निष्क्लेशावस्था निरोधाख्यं सत्यं तृतीयम् । तद
वस्थाप्राप्तिहेतुनैरात्म्याद्याकारश्चित्तविशेषो मार्गाख्यं सत्यं चतुर्थमिति ।
भावनाशब्देन विग्रहं तस्य चार्थमाचष्टे भूतस्येति । भूतार्थस्येति द्रष्टव्यम् । लक्ष्यते च
भूतशब्दसान्निध्याल्लेखकेन प्रथमपुस्तके भूशब्दः प्रक्षिप्तः । तस्येति तु वचनं संक्षेपेण विग्रहं
दर्शयतो धर्मोत्तरस्य पाठोऽन्यथा यथाभूतं विग्रहं दर्शयितुकामेनार्थपदोपादाने किमक्षरगौरवं दृष्टम्,
येन केवलभूतशब्दोपादाने प्रतिपत्तिगौरवं लिखनाकौशलञ्चाविष्कृतमिति । भावनार्थमाह—
पुनरिति । पुनरित्यप्रथमतः । द्विर्वचनेनाप्रथमप्रचारस्य प्राचुर्यं दर्शयति । तथानिवेशनञ्च
विजा29b तीयाव्यवधानेन द्रष्टव्यम् । सत्यचतुष्टयविषयो विजातीयाव्यवहितः
सदृशचित्तप्रवाहो भावनेति यावत् ।
68
सम्पूर्ण तु यदा, तदा नास्ति प्रकर्षगतिः । ततः सम्पूर्णावस्थायाः प्राक्तन्यवस्था स्फुटा
345भत्वप्रकर्षपर्यन्त उच्यते । तस्मात् पर्यन्ताद् यज्जातं346 भाव्यमानस्यार्थस्य347 सन्निहितस्येव
स्फुटतराकारग्राहि ज्ञानं योगिनः प्रत्यक्षम् ।
तदिह स्फुटाभत्वारम्भावस्था भावनाप्रकर्षः । अभ्रकव्यवहितमिव यदा भाव्यमानं
यादृशो योगिनां भावनाक्रमो विनिश्चये श्रुतमयेत्यादिनाभिहितो यथा भावना
प्रकर्षविशदाभत्वयोः कार्यकारणभावस्तत्रैव कामशोकेत्यादिना दर्शितस्तथेहापि द्रष्टव्यः ।
यादृशश्चाकारस्तेषां सत्यानामनित्यत्वादिके भावनीयो यावत्कालावधिका च भावनाऽनेकजन्म
परम्परानुयाता, यच्च निबन्धनं भावनायाः करुणा बोधिसत्त्वानाम्, तदन्येषां संसारोद्वेगस्तदपि
सर्व यथा प्रमाणवार्त्तिके निर्णीतं तथेहाप्यनुगन्तव्यम् । इह तु योगिज्ञानस्य स्वरूपमात्रमुप
दर्शयितुमुपक्रान्तमिति ।
प्रकर्षशब्देन सह विग्रहं तस्य चार्थं विवक्षितमाह--भावनाया इति । स्फुटाभत्वस्यारम्भ
उपक्रमः । स च यत्स्फुटत्वतदधिकस्फुटत्वादिना रूपेण तज्ज्ञानस्योदय एव । पर्यन्तशब्देन
विग्रहं तस्य चार्थमाचष्टे प्रकर्षस्येति । पर्यन्तोऽवसानम् । कदा च तस्यावसानमित्याह--यदेति ।
यस्मिन् काले स्फुटाभत्वं भावनार्थं विषयस्य ज्ञानस्येति प्रकरणात् । इदं लेशतोऽसम्पूर्णं भवति
यदनन्तरं योगिप्रत्यक्षेण भवितव्यं तस्मिन् काले प्रकर्षस्य पर्यन्तोऽवसानं ज्ञातव्यः । तत्कालो
पलक्षितं तथाभूतं ज्ञानं पर्यन्त इत्यर्थः ।
ननु प्रकर्षस्य पर्यन्तः स युज्यते यस्मिन् सति प्रकर्षो निवर्त्तते । तच्च सम्पूर्वं
348मेव स्कुटाभत्वम्, तत्कथमुच्यते कथञ्च पर्यन्तजं योगिज्ञानम्, न तु तदेव पर्यन्त इत्या
शङ्क्याह--यावदिति । हिर्यस्मात् ।
सम्पूर्णे तु प्रकर्षगमनं नास्तीति दर्शयति--सम्पूर्णमिति । तुरिमामवस्थां भेदवती
माह । प्रकर्षस्य गतिर्गमनम् । एवं ब्रुवतोऽयमाशयः । प्रकर्षः प्रकृष्यमाणता साति
शयं रूपमुच्यते । पर्यन्तश्च गत्यर्थादामर्द्धातोस्तत्प्रत्ययेन 349 परिसमन्तादन्त इति प्रादिसमासेन
निःशेषगमनमेवोच्यते । ततः स पर्यन्त उच्यते यदनन्तरं प्रकर्ष350माणेन न
भवितव्यम् । न तु यदर्थं येषां प्रकर्षवतामुदय इति । एतदेवोपसंहरति तत इति । प्राक्तनी
व्यवधानशून्या यदनन्तरं स्फुटतरज्ञानोदयः । सम्पूर्णावस्थायाः स्फुटत्वसम्पूर्णावस्थायाः
स्फुटतराकारग्रहणावस्थाया इति यावत् । सन्निहितस्येति । यथाऽन्यस्याभावितस्य निकटस्थस्य
घटघ351टाद352रन्यज्ञानं स्फुटतराकारग्राहि प्रत्यक्षं तद्वद् भाव्यमानार्थस्फुटतराकारग्राहि
यज्ज्ञानं तद्योगिनः प्रत्यक्षम् ।
उक्तमेव भावनाप्रकर्षार्थं तत्पर्यन्तार्थं तज्ज्ञानं चोपसंहारव्याजेन सुखप्रतिपत्त्यर्थं पुन वस्तु पश्यति सा प्रकर्षपर्यन्तावस्था । करतलामलकवद् भाव्यमानस्यार्थस्य यद् दर्शनं तद् स्फुटाभत्वादेव च निर्विकल्पकम् । विकल्पविज्ञानं हि सङ्केतकालदृष्टत्वेन वस्तु गृह्ण
र्दर्शयति तदिति । तत्तस्मात् । इहेति योगिप्रत्यक्षलक्षणप्रतीतिकाले । अवस्था भावनाज्ञान
69
योगिनः प्रत्यक्षम् । तद्धि स्फुटाभम् ।
च्छब्दसंसर्गयोग्यं गृह्णीयात् । सङ्केतकालदृष्टत्वं च सङ्केतकालोत्पन्नज्ञानविषयत्वम् । यथा च
पूर्वोत्पन्नं विनष्टं ज्ञानं सम्प्रत्यसत्, तद्वत् पूर्वविनष्टज्ञानविषयत्वमपि सम्प्रति नास्ति वस्तुनः ।
तदसद्रूपं वस्तुनो गृह्णद् असन्निहि353 तार्थग्राहित्वाद् अस्फुटाभम्354 विकल्पकम् । ततः स्फुटाभ
त्वान्निर्विकल्पकम् ।
स्येति प्रकरणात् । अभ्रकेणातिस्वच्छतया पाश355तो द्विधाकर्त्तुमशक्येनेति प्रस्तावाद्
व्यवहितमावृतं तदिव । करस्वरूपं करतलं सन्निहितस्येवेत्यनेन यत्पूर्वमुक्तं30a तस्याय
मुपसंहारः ।
अस्तु तथाविधं योगिज्ञानम्, तत्पुनः कथं प्रत्यक्षमित्याशङ्कामपाकर्त्तु प्रत्यक्षलक्षणेन
योगमस्य दर्शयन्नाह तद्धीति । हिर्यस्मात् ।
स्फुटाभं भवतु, निर्विकल्पकं तु कथं येन प्रत्यक्षं स्यादित्याह--स्फुटाभत्वादेवेति ।
चो निर्विकल्पकमित्यतः परः स्फुटाभत्वापेक्षैकविषयत्वं निर्विकल्पकत्वस्य समुच्चिनोति ।
अयमस्याशयः--शब्दाकारसंसर्गो हि स्फुटाभत्वविरोधीति यद्यसावभविष्यत् तदा स्फुटाभमेव
नाभविष्यदिति । अभिलापसंसर्गयोग्यप्रतिभासमेव स्फुटाभं भविष्यति कोऽनयोर्विरोध इत्याश
ङ्क्य विकल्पेत्यादिना विरोधमेव दर्शयितुमुपक्रमते । हिर्यस्मात् । वस्त्विति दृश्यमानं यथा
चैतत्तथा पूर्वमेव विवेचितं गृह्णीयाद् ग्रहीतुमर्हति । सङ्केतकालदृष्टत्वेन च वस्तु
ग्राहित्वेऽसन्निहितविषयं स्यादिति दर्शयितुमाह--सङ्केतेत्यादि । चो हेतौ । भवतु सङ्केत
कालदृष्टत्वस्य तथात्वम्, किमत इत्याह--यथा चेति । चो वक्तव्यमेतदित्यस्यार्थे ।
भवत्वेवं तथापि वाचकाकारसंसर्गिणोऽपि कथं न स्फुटाभत्वमित्याह--तदिति । यत
एवं तत्तस्मात् । विकल्पयतीति विकल्पकं विज्ञानम् । अस्फुटाभं तु कुतस्तदित्याह—
असन्निहितार्थग्राहित्वादिति । सन्निहिततया हि भासमानो विशदो भवेत् । पूर्ववृत्तदर्शन
विषयतया च भूतपूर्वो भावो गृह्यमाणो न सन्निहितरूपो भासते । तेनाविशदाभो विकल्पः ।
तेन शब्दाकारसंसर्गो विकल्पस्य विशदाभत्वविरोधीत्यस्याभिप्रायः । असन्निहितविषयत्वमेव
तस्य कुतोऽवसीयत इत्याह--असद्रूपमिति । यत्पूर्वदृष्टत्वं सम्प्रत्यसद्, असद्रूपं वस्तुनो
गृह्यमाणस्य गृह्णदिति हेतौ शतुर्विधानादसद्रूपग्रहणादित्यर्थः ।
स्फुटाभत्वादेवेति यदवोचत्, तदेवोपसंहरति तत इति । यतो विकल्पस्य स्पष्टाभत्वं प्रमाणशुद्धार्थग्राहित्वाच्च संवादकम् । अतः प्रत्यक्षम् । इतरप्रत्यक्षवत् । योगः 356समाधिः । स यस्यास्ति357 स योगी । तस्य ज्ञानं प्रत्यक्षम् । इतिशब्दः तदेवं प्रत्यक्षस्य कल्पनापोढत्वाभ्रान्तत्वयुक्तस्य प्रकारभेदं प्रतिपाद्य विषयविप्रतिपत्तिं तस्य विषयः स्वलक्षणम् ॥ १२ ॥ तस्येत्यादि । तस्य चतु359र्विधस्य प्रत्यक्षस्य विषयो बोद्धव्यः360 स्वलक्षणम् । स्वम्
न युज्यते, अनन्तरोक्तेन क्रमेण ततस्तस्मात्स्फुटाभत्वाद् विशदाभत्वान्निर्विकल्पकं योगिज्ञानमिति
प्रकरणात् । प्रयोगः--यत् सङ्केतकालदृष्टतया वस्तुसंस्पर्शि ज्ञानं न तत् स्फुटाभम् । यथा चिर
70
परिसमाप्ति358वचनः । इयदेव प्रत्यक्षमिति ॥
निराकर्त्तुमाह--
असाधारणं लक्षणं तत्त्वं361 स्वलक्षणम् । वस्तुनो ह्यासधारणं च तत्त्वमस्ति सामान्यं च ।
362तत्र यदसाधारणं तत् प्रत्यक्षस्य363 ग्राह्यम् ।
दृष्टनष्टवस्तुविकल्पः । सङ्केतकालदृष्टतया च दृश्यमानवस्तुसंस्पर्शी विकल्पः । स्फुटाभासत्वं
नाम सन्निहितरूपभासनम् । असन्निहितरूपभासनेन च वस्तुनः पूर्वदृष्टत्वग्रहणं व्याप्तम् ।
न हि पूर्वज्ञानविषयत्वं पूर्वस्मिन् ज्ञाने निवृत्ते वस्तुनोऽस्ति । तदुत्तरकालभाविना ज्ञानेन पूर्वज्ञान
विषयत्वमसन्निहितमेव वस्तुनः स्पृश्यते । पूर्वज्ञानविषयत्वग्रहणमेव च सङ्केतकालदृष्टशब्द
विशिष्टत्वग्रहणम् । तदिदं विरुद्धं364व्याप्तोपलब्धेर्भवतु निर्विकल्पकम् ।
असत्यभ्रान्तत्वे तु कथं प्रत्यक्षमित्याह--प्रमाणेति । प्रमाणाधिगतोऽर्थः प्रमाणशुद्ध
उच्यते । सत्यचतुष्टयं चैवमात्मकम् । तदेव शुद्धत्वेन विवक्षितम् । चः 30b संवादक
मित्यतः परो निर्विकल्पत्वेन सह संवादकत्वेन संवादकत्वं समुच्चिनोति, तत्रस्थ एववा
पूर्वहेत्वपेक्षया हेत्वन्तरसमुच्चयार्थः । अतोऽस्मान्निर्विकल्पकत्वादभ्रान्तत्वाच्च ।
योगिशब्दस्य व्युत्पत्तिमाह--योग इति । समाधिश्चित्तैकाग्रता । इह धर्मोत्तरेण लोक
प्रसिद्धिराश्रिता । विनिश्चयटीकायां तु शास्त्रस्थितिस्तेनाविरोधः । यद्वा समाधिग्रहणस्योप
लक्षणत्वात् प्रज्ञा च विवेककरणशक्तिर्द्रष्टव्या । स यस्यास्ति स नित्यसमाहितो विवेककरण
तत्परश्च योगी । परिसमाप्तेराकारं दर्शयति--इयदिति । इयदेव चतुःसंख्यावच्छिन्नमेव ॥
तदेवमित्याद्याहेत्येतदन्तं सुबोधम् । विषयो बोद्धव्यः । क इत्याकाङ्क्षायामाह—
स्वलक्षणमिति । स्वशब्दस्य लक्षणशब्दस्य चार्थमाचक्षाणो विग्रहमुपलक्षयति--स्वमित्यादिना ।
स्वमात्मीयमुच्यते । यस्य यत् स्वं तत् तस्यैव नान्यस्येति लक्षणया स्वशब्देनासाधारणमुक्तम् ।
लक्षणशब्देन च तत्त्वं स्वरूपं विवक्षितम् । स्वशब्दलक्षणशब्दयोरर्थमभिधाय तयोः समस्तं
पदमाह--स्वलक्षणमिति । अनेन स्वमसाधारणं च तल्लक्षणं स्वरूपं चेति कर्मधारयो दर्शितः ।
71
द्विविधो हि विषयः 365प्रमाणस्य--ग्राह्यश्च यदाकारमुत्यद्यते, प्रापणीयश्च यमध्यवस्यति ।
अन्यो हि ग्राह्योऽन्यश्चाध्यवसेयः । प्रत्यक्षस्य हि क्षण एको ग्राह्यः । अध्यवसेयस्तु प्रत्यक्ष
बलोत्पन्नेन निश्चयेन संतान एव । सन्तान एव च प्रत्यक्षस्य प्रापणीयः । क्षणस्य प्रापयितु
मशक्यत्वात् ।
तथानुमानमपि 366स्वप्रतिभासेऽनर्थेऽर्थाव्यवसायेन367 प्रवृत्तेरनर्थग्राहि368 ।
ननु सम्भवे व्यभिचारे च विशेषणमर्थवत् । अत्र च सर्वस्यैव स्वरूपस्यासाधा
रणत्वात् सम्भव एव, न व्यभिचार इति किं स्वशब्देन ? एवं तु वक्तव्यम्--वस्तुरूपं तस्य
विषय इत्याशङ्कयाह--वस्तुन इति । हिर्यस्मात् । चो वक्ष्यमाणापेक्ष्यःक्षः समुच्चये ।
सामान्यं साधारणं रूपं संवृतिज्ञानघटितम् । चः पूर्वापेक्षः समुच्चये । सति चैवं द्वैरूप्ये किं
पूर्वं रूपम्, अथ परं प्रत्यक्षस्य विषय इति सन्देहे--यदसाधारणं तत्प्रत्यक्षस्य ग्राह्यमुच्यत इति
शेषः । ग्राह्यमिति ब्रुवन् विषयशब्देनाचार्यस्य ग्राह्यो विषयोऽभिप्रेत इति दर्शयति ।
स्यादेतत्--प्रवृत्तिविषय एव प्रमाणस्य विषयस्ततः प्रवृत्तिविषयस्तस्य विषय इति
वक्तव्यम् । तत्किं ग्राह्यमित्युच्यत इत्याह--द्विविध इति । अनेन भेदः प्रतिज्ञातः । हिर्यस्मात्
द्विप्रकारो विषयः प्रमाणस्येति । जातिविवक्षयैकवचनम् । एको ग्राह्योऽन्यः प्रापणीयः । भेदमुप
पादयति--यदाकारं यत्प्रतिभासं ज्ञानमुत्पद्यते । सोऽपि द्विविधः--परमार्थ आरोपितश्च ।
द्वयोरपि स्वज्ञाने प्रकाशनमस्त्येवेति द्रष्टव्यम् । प्रापणीयो यमध्यवस्यति । ततो ज्ञानाद् यत्र
प्रवर्त्तत इति यावत् । चकारौ पूर्वापरापेक्षया समुच्चयार्थौ ।
ननु ग्राह्याध्यवसेयशब्दयोरेव भेदो न त्वर्थस्य । यतो यदेव प्रकाशते तदेवाध्यवसीयते,
तत् किंमेवमुच्यत इत्याह--अन्यो हीति । हिर्यस्मादर्थे । चोऽवधारणे । कस्य कीदृशो ग्राह्य
इतरो वेत्याह--प्रत्यक्षस्येति । हिरवधारणे एक इत्यस्मात्परो द्रष्टव्यः । कस्तर्ह्यवसेय अध्य
वसेय इति 31a । तुर्ग्राह्यादध्यवसेयं भिनत्ति । अथ किं प्रत्यक्षमवसायात्मकं येन तस्या
साववसेय इत्याह--प्रत्यक्षेति । प्रत्यक्षपृष्ठभाविनो निश्चयस्य प्रत्यक्षगृहीत एव प्रवृत्त
तयाऽनतिशयाधानेन यत् तेनाध्यवसितं तत्प्रत्यक्षेणैवावसितमिति भावः ।
ननु ग्राह्यादन्यः प्रापणीयो विषयः प्रत्यक्षस्योक्तः । इदानीं पुनरवसेयः । तदयं तृतीयो
विषयः प्राप्त इत्याह--सन्तान एवेति । चो यस्मादर्थे । उपादानोपादेयभावेन व्यवस्थितः
क्षणप्रबन्ध एकत्वेनाधिमुक्तः सन्तानः । ग्राह्य एव कस्मान्न तेन प्राप्यत इत्याह--लक्षणस्येति
369 । यदाकारं प्रत्यक्षमुत्पद्यते तस्य क्षणस्येति प्रस्तावात् । एवञ्च
विवृण्वतोऽस्य प्रमाणस्येत्यत्र प्रत्यक्षाभिप्रायेण प्रमाणशब्द इन्द्रियजप्रत्यक्षविवक्षया द्रष्टव्यः ।
स्वसंवेदनादीनां विषयद्वैविध्यासम्भवादिति ।
अथ भवत्वेकं प्रत्यक्षं विषयद्वैविध्यवद्, अनुमानं तु कथं तथाविधम् ? प्रमाणस्येति च स पुनरारोपितोऽर्थो गृह्यमाणः स्वलक्षणत्वेनावसीयते370 यतः,371 ततः स्वलक्षणमवसितं372
72
प्रवृत्तिविषयोऽनुमानस्य373 । अनर्थस्तु ग्राह्यः । तदत्र प्रमाणस्य ग्राह्यं विषयं दर्शयता
प्रत्यक्षस्य स्वलक्षणं विषय उक्तः ।
ब्रुवता तदपि विषयद्वैविध्यवदभ्युपगतमेव इत्याशङ्क्याह--तथेति । येन प्रतिभासाध्यवसाय
लक्षणेन प्रकारेण प्रत्यक्षमन्यग्राह्यन्याध्यवसायि तथा तेन प्रकारेणेति तथाशब्दार्थः । न केवलं
प्रत्यक्षमन्यद् गृह्णाति, अन्यदध्यवस्यति, किन्त्वनुमानमप्यन्यग्राह्यन्याध्यवसायीत्यपिशब्देनाह ।
इहैवच्छेदः कर्त्तव्योऽन्यथा व्याख्यानमसमञ्जसं स्यात् । किं गृह्णातीत्याह--अनर्थग्राहीति ।
अनुमानमिति प्रकृतत्वात् । कथमुपपद्यत इत्याशङ्क्योपपत्तिमाह--स्वप्रतिभास इति । स्वस्य
प्रतिभास इव प्रतिभासः । शक्तिद्वययोगात्तथारोप्यमाणं रूपम् । तस्मिन्ननर्थेऽबाह्यरूप्ये374
ऽर्थाध्यवसायेन बाह्याध्यवसायेन तद्भेदानवभासनात्मकाभेदाध्यवसानलक्षणेन प्रवृत्तेः प्रवर्त्तनात् ।
अथानर्थे स्वप्रतिभासेऽर्थाध्यवसायेनानुमानविकल्पोऽन्यो वा प्रवर्त्तक इति किमुक्तं
भवति ? स्वप्रतिभासस्यारोप्यमाणस्य चार्थस्यावसीयमानस्य विवेकं न प्रतिपद्यत इत्युक्तं
भवति । न हि तेनैव विवेकप्रतिपत्तिः, तेन स्वप्रतिभासस्य तथात्वेनाविकल्पनात् । अत्र
चानुभवः प्रमाणम् । बाह्यवहन्यादावप्रवृत्त्यादिप्रसङ्गश्च । नापि विकल्पान्तरेण । तस्यापि
तथा प्रवृत्तितया पूर्वविकल्पप्रतिभासासंस्पर्शादित्यलमिह विस्तरेण । यद्येवं कोऽस्या
ध्यवसीयमानः प्रापणीयो विषय इत्याह--स इति । पुनरिति सर्वतो विशिनष्टि । आरोपित
इति स्वरूपानुवादः । अर्थ इति अर्थ इवार्थो गृह्यमाणः प्रतीयमानस्तस्मिन् ज्ञाने प्रकाशमान
इति यावत् । अनेन स्वलक्षणमध्यवस्यतीदमिति प्रकाशितम् । तदनेनानुमानस्य ग्राह्याध्य
वसेयौ भेदेन सामर्थ्यादभिधाय सुखप्रतिपत्त्यर्थं तावेव कण्ठोक्तौ करोति--तत इति । यतः
स्वलक्षणत्वेन तस्यावसायस्ततः31b स्वलक्षणमवसितं प्रवृत्तिविषयोऽनुमानस्य । स्वलक्षण
मवसितमित्येतदप्यभिमानादभिधीयते । न पुनः स्वलक्षणमवसायस्य गोचरः । तद्विषयत्वे
तस्य निरंशत्वात् क्षणिकत्वादेरप्यवसितावनुमानानवतारप्रसङ्गात् । एतच्च किञ्चिदिहैवो
परिष्टात्स्पष्टयिष्यामः । परार्थानुमाने तु यथाऽवसरं विस्तरेण निर्णेष्यामः ।
प्रवृत्तिविषयस्यैव प्रापणीयत्वात् प्रापणीय एव प्रवृत्तिविषयशब्देनोक्तः । तुः प्रापणीयाद्
विषयाद् ग्राह्यं भेदवन्तं दर्शयति । तस्मिन् ज्ञाने प्रकाशमाने प्रकाशनादनर्थो ग्राह्य उक्तः ।
स्यादेतत्--यद्यवसितं स्वलक्षणं प्रवृत्तिविषयोऽनुमानस्य तदा कथमेष धर्मोत्तरो विनि
श्चयटीकायामवादीत् अवसितश्चाकारो विकल्पानां ग्राह्यः इति । एवं हि स्वलक्षणमेव ग्राह्यं
समर्थितं स्यान्नानर्थ इति । ततो व्यक्तो व्याघातः । परमार्थदृष्ट्या तत्र तथाभिधानान्न दोषः ।
तथाहि परमार्थतो विकल्पानामारोपितमेव रूपमवसेयं ग्राह्यम् तथापि व्यवहर्त्तार आरोपितमेव
रूपमवृक्षव्यावृत्तमवस्यन्तो बाह्यस्यापि तथात्वाद् बाह्यं वृक्षमवस्याम इत्यभिमन्यन्ते, तयोर्विवे
73
काप्रतिपत्तेः । तदनुरोधात्स्वलक्षणमवसितमित्युच्यते । तस्यैव त्वारोपितस्य परमार्थतोऽनुमेयस्य
प्रतिभासमानं केवलमाकारमाश्रित्य ग्राह्यत्वमुच्यते । ततस्तत्र वास्तवावसितरूपाभिप्रायेण
तथाभिधानात् को विरोधः ?
तदत्रेत्यादिनोपसंहरति । यस्मात्प्रमाणस्य द्विविधो विषयो ग्राह्याध्यवसायभेदेन
तत् तस्मात् । अत्र विषयविप्रतिपत्तिनिराकरणकाले ग्राह्यं विषयं दर्शयतेति ब्रुवन् विषयशब्देना
चार्यस्य ग्राह्मो विषयोऽभिप्रेत इति स्फुटयति ।
स्यादेतत्--न वै ग्राह्यविषयापेक्षं प्रत्यक्षस्य प्रामाण्यमुपपद्यते । यत एकः क्षणस्तस्य
ग्राह्यः । न च तत्प्रापणं सम्भवति । नाप्यनुमानस्य ग्राह्यापेक्षं प्रामाण्यम् । अनर्थो हि
तस्य ग्राह्यः । न च तत्प्राप्तिः सम्भविनी । न च येन यस्याप्रापणं तस्य तत्र प्रामाण्यमभ्युपेयते,
अतिप्रसङ्गापत्तेः । अथैकनीलक्षणाकारतयोत्पत्तिरेव प्रत्यक्षस्य तत्प्रापणम्, अनुमानस्यापि
वह्न्याद्यध्यवसायितया तथोत्पत्तिरेव तत्प्रापणमुच्यते । तर्हि न किञ्चिदवशेषितं स्यात् । कस्य
नाम ज्ञानस्य सविकल्पस्य निर्विकल्पकस्य वा तत्तदाकारतयोत्पत्तिर्नास्ति येन तस्य प्रामाण्यं न
स्यात् । तस्मान्न द्विविधो विषयः प्रमाणस्याभिधानीयोऽपि त्वेक एव प्रवृत्तिविषयाख्यो विषयः
ख्यापनीय इति ।
अत्र च समाधीयते । ज्ञानानां तावद् ग्राह्याध्यवसा375यभेदेन द्विविधो विषयो
ऽवश्यैषितव्योऽनुभवसिद्धत्वात् । तत्र प्रामाण्यं प्रवृत्तिविषयापेक्षं व्यवस्थाप्यते । ज्ञानत्वं
तूभयापेक्षमेव । अज्ञानस्य च प्रामाण्यासम्भवेन ज्ञानान्तर्भूतं प्रमाणं विषयद्वैविध्यवदेव भवति ।
केवलं न ग्राह्यापे32a क्षं प्रामाण्यमपि तु प्रवृत्तिविषयापेक्षमिति प्रतिपाद्यते । ग्राह्यापेक्षया
तु प्रमाणस्येति वचनं स्वरूपानुवादकम् । यद्वा प्रमाणशब्देन ज्ञानमेवात्र विवक्षितम् । यथाऽयं
विनिश्चयटीकायां स्वार्थानुमानव्याख्यानावसरे व्यक्तमाह--द्विविधो ज्ञानानां विषयो
ग्राह्यश्चाध्यवसेयश्च इत्यादि । ततो न किञ्चिदवद्यम् ।
अथापि स्यात् । यदि ग्राह्यो विषयो न कदाचिदपि प्रत्यक्षस्य प्रापणीयस्तर्हि तेन दर्शितेन
किम्प्रयोजनं येनोच्यते तदत्र ग्राह्यं विषयं दर्शयता प्रत्यक्षस्य स्वलक्षणं विषय उक्त इति ।
नैष दोषः । एवमेवास्य प्रवृत्तिविषयप्रदर्शनात् । यदि हि प्रत्यक्षं क्षणमेकं गृह्णाति तत्रानीलव्या
वृत्तिनिश्चयोपजने सन्तानं निश्चाययत् प्रवृत्तिविषयं प्रदर्शयेत् तत्सन्तानभाविनाञ्च ज्ञानानाम
प्रामाण्यमापादयेत्, न तु किञ्चिदगृह्णत् । तथा हि सन्तानोल्लेखेन निश्चयाभावेऽप्यनीलव्या
वृत्तिस्तावदनागतसर्वक्षणसाधारणी प्रत्यक्षेण गृहीतनिश्चिता । तन्निश्चय एव सर्वानीलव्यावृत्तो
पादानोपादेयभावस्थितनीलक्षणनिश्चयः, तदभिन्नयोगक्षेमत्वादुत्तरप्रबन्धस्य । तथानिश्चय एव च
सन्ताने निश्चय उच्यते । अत एव च तदाद्यं ज्ञानं तथाऽनुष्ठानं तत्सन्तानभावीनि पराञ्चि
ज्ञानान्यनीलव्यावृत्तं रूपं गृहीतमेव गृह्णन्त्यनीलव्यावृत्तिनिश्चयं च कृतमेव कुर्वन्त्यनतिशयाधायीनि
प्रचुराण्यपि प्रामाण्यात्प्रच्यावयत् प्रामाण्यमात्मसात्करोतीति न्याय्यं ग्राह्यप्रदर्शनमिति सर्व
मवदातम् ॥
इहाचार्यस्य--स्वमसाधारणं सन्तानान्तरसाधारणं यन्न भवति, यदर्थक्रियाक्षममेव सर्वतो कः पुनरसौ विषयो ज्ञानस्य यः स्वलक्षणं प्रतिपत्तव्य इत्याह-- यस्यार्थस्य संनिधानासंनिधानाभ्यां ज्ञानप्रतिभासभेदस्तत् स्वलक्षणम् ॥ १३ ॥ यस्यार्थस्येत्यादि । अर्थशब्दो विषयपर्यायः । यस्य ज्ञानविषयस्य । संनिधानं
व्यावृत्तं तत्त्वं तदेव स्वलक्षणम्, न चैतद्विपरीतमनुमा विषयोऽपीत्यभिप्रेतम् । स्वमसाधारणं 74
निकटदेशावस्थानम् । असंनिधानं दूरदेशावस्थानम् । तस्मात् संनिधानादसंनिधानाच्च
ज्ञानप्रतिभासस्य ग्राह्याकारस्य भेदः स्फुटत्वास्फुटत्वाभ्याम् । यो हि ज्ञान376विषयः संनिहितः
सन्377 स्फुटाभासं ज्ञानस्य करोति, असंनिहितस्तु योग्यदेशस्थ378 एवास्फुटं करोति, तत्
स्वलक्षणम् । सर्वाण्येव हि वस्तूनि दूरादस्फुटानि दृश्यन्ते, समीपे स्फुटानि । तान्येव379
स्वलक्षणानि ॥
लक्षणं तत्त्वं स्वलक्षणमिति विवृण्वता च धर्मोत्तरेण तदेव दर्शितम् । केवलं न व्यक्तीकृत
मतस्तस्य विषयः स्वलक्षणमिति शब्दमात्रश्राविणोऽविदिताचार्याभिप्रायस्याविभावितधर्मोत्तरवि
वरणार्थस्य यद्यसाधारणं पररूपेणामिश्रं रूपं स्वलक्षणं तदाऽग्नित्वमपि गोत्वादिसामान्येनामिश्रं
स्वलक्षणं प्रसज्येतेति व्याप्तिं मन्यमानस्यायं कः पुनरित्यादिप्रश्नः । क इत्यनेन सामान्याकारेण
विषयं पृच्छति । पुनरित्यनेन विशेषाकारेण । स्वलक्षणशब्दस्यासति बहुव्रीहावजहल्लिङ्गत्वात्
स्वलक्षणमिति ।
चोदकेन विषयं सम्पृष्ट आचार्यः कस्मादर्थमुत्तरीकरोतीत्याशङ्क्याह--अर्थेति । ज्ञानस्य
प्रत्यासन्नत्वाज्ज्ञानविषयो लब्ध इत्यभिप्रेत्य यस्य ज्ञानविषयस्येति विवृणोति । सन्निधाना
सन्निधानशब्दौ निकटदूरावस्थानार्थौ व्याचक्षाणो यदन्यैराख्यातं--असन्निधानं योग्यदेशे सर्वथा
वस्तुनोऽभावः इति तदपाकरोति । अयञ्चास्याभिप्रायो यत्र वस्तु नास्ति तत्र ज्ञानमेव न
जायते । न तु तत्प्रतिभासस्य भेदो नानात्वमस्तीति । तस्मादित्यादिना स32b
न्निधानासन्निधानाभ्यामिति पञ्चमीद्विवचनान्तमेतदिति दर्शयति । स्फुटत्वास्फुटत्वाभ्यामिति
अर्थक्रियासामर्थ्यानुगताभ्यामिति द्रष्टव्यम् । 380इत्थम्भूतलक्षणा चेयं तृतीया ।
पदार्थं व्याख्याय समुदायार्थं व्याचष्टे । द्वयी चेयं शैली व्याख्यातृणाम् । क्वचित्स
मुदायार्थ व्याख्याय पश्चात्पदार्थम् विवृण्वते । क्वचित्पदार्थं विवृत्य पश्चात्समुदायार्थं व्याचक्षत
इति । हिरवधारणे । योग्यदेशस्थ एवत्यनेन दूरदेशस्थं निरस्यति । दूरस्थो हि ज्ञानमेव
न जनयति किमङ्ग पुनर्भिन्द्यादित्यभिप्रायः ।
स्वलक्षणलक्षणस्याव्यापित्वासम्भवित्वशङ्कामपाकुर्वन्नाह--सर्वाणीति । । सर्वशब्दो कस्मात् पुनः प्रत्यक्षविषय एव स्वलक्षणम् ? तथा हि विकल्पविषयोऽपि वह्निर्दृश्यात्मक381 तदेव परमार्थसत् ॥ १४ ॥ तदेव परमार्थसदिति । 382परमोऽर्थोऽकृत्रिममनारोपितं रूपम् । तेनास्तीति परमा
व्याप्तिप्रदर्शनार्थः । अनेनाव्यापित्वं निराकृतम् । हिर्यस्मादर्थे । दृश्यन्ते प्रतीयन्ते ।
अनेनासम्भवित्वं निरस्तम् । अतिव्यापित्वमपहस्तयन्नाह--तान्येवेति । यान्यमूनि प्रत्यक्ष
विषयस्तान्येव । नानुमानविषयोऽपीति प्रकरणात् । दूरादस्फुटानि दृश्यन्त इति वदतश्चाय
माशयः--दूरे हि वस्तु गृह्यमाणं प्रचुररजोनीहारादिसंसृष्टं गृह्यते । ततोऽस्पष्टं गृह्यते । न तु
75
एवावसीयत इत्याह--
र्थसत् । य एवार्थः सन्निधानासन्निधानाभ्यां स्फुटमस्फुटं च प्रतिभासं करोति परमार्थसन्
स एव । स383 च प्रत्यक्षस्य384 विषयो यतः, तस्मात् तदेव स्वलक्षणम् ॥
न गृह्यत एव । तथागृहीतस्यापि वृक्षस्य च्छायाद्यर्थक्रियाकारित्वात् । न चाधिकग्रहणं
भ्रम इति ।
इदं पुनरत्र निरूप्यते । यदि य एवार्थः सन्निधानादसन्निधानाच्च ज्ञानप्रतिभासं
स्फुटत्वास्फुटत्वाभ्यां भिनत्ति स एव स्वलक्षणं तर्हि स्पर्शरसौ स्वलक्षणे न स्याताम् ।
तौ खलु असन्निहितौ ज्ञानमेव न जनयतः । किं पुनर्ज्ञानप्रतिभासं स्फुटत्वास्फुट
त्वाभ्यां भेत्स्यतः ? किञ्चैतस्मिन् स्वलक्षणलक्षणे विज्ञानमस्वलक्षणं स्यात् । तस्याऽऽ
स्तां तावदसन्निहितस्यास्फुटज्ञानजनकत्वं सन्निहितस्यापि स्फुटज्ञानजनकत्वं नास्ति । न च तस्य
दूरान्तिकवर्त्तित्वमस्त्यदेशत्वात् । तदीदृशीं महतीमव्यापितामनालोच्येदृशं स्वलक्षणं प्रणयन्ना
चार्यः, धर्मोत्तरोऽप्येवं प्रसभं व्याचक्षाणः कथं न प्रमाद्यतीति ? न । अभिप्रायापरिज्ञानात् ।
यदि हीदं लक्षणं यथाश्रुति व्यवतिष्ठेत, स्यादेवैतत् । केवलं सन्निधानासन्निधानाभ्यां ज्ञानप्रति
भासभेदकत्वेन यदेकार्थसमवेतमसाधारण्यं व्यक्त्यन्तरासनुयायित्वं तदुपलक्षितम् । यतो
हेतुबिन्दुः तत्र तदाद्यमसाधारणविषयम् इति पृ० ५३ । अत एव--असाधारणविषयं
स्वलक्षणविषयम् इति हेतु० टी० पृ० २५ भट्टार्चटो व्याचष्टे । अत एवानुमानस्यैतद्विपर्ययेण
साधारणं रूप विषयो दर्शयिष्यते । तेन नाव्याप्तिर्न चान्यो लक्षणदोषः । तस्य विषयः
स्वलक्षणमित्यभिहितेऽपि स्वलक्षणशब्दस्यान्यथापि निर्वचनसम्भवात्, नायमभिमतोऽर्थो ज्ञायेत
प्रतिपत्तृभिरिति तदभिमतार्थ इत्थमुपलक्षित इति च द्रष्टव्यम् ॥
तस्य विषयः स्वलक्षणमित्यत्र यदि तस्यैव विषयः स्वलक्षणमित्यवधार्यते तदा यत कस्मात् पुनस्तदेव परमार्थसदित्याह-- अर्थक्रियासामर्थ्यलक्षणत्वाद्वस्तुनः ॥ १५ ॥ अर्थ्यत इत्यर्थः । हेय उपादेयश्च । हेयो हि हातुमिष्यते उपादेयश्चोपादातुम् । अर्थस्य
एवकारकरणं ततोऽन्यत्रावधारणमिति स्वलक्षणस्य प्रत्यक्षे नियमात् प्रत्यक्षमन्यविषयमपि
स्यात् । अथ स्वलक्षणमेवेत्यवधार्यते । तदाऽपि प्रत्यक्षस्य स्वलक्षणे नियतत्वाद् 33a
अनियतं स्वलक्षणमनुमानस्यापि विषयः स्यादित्युभयावधारणं कार्यम् । तस्यैव विषयः स्वलक्षण
मेवेति । एतदसहमानः पूर्वपक्षवाद्याह--कस्मादिति । कस्मादिति सामान्येन कारणं पृच्छति ।
पुनरिति विशेषतः । यद्वा यस्यार्थस्येत्यत्र तत्स्वलक्षणमिति । तदेव प्रत्यक्षविषयः स्वलक्षणं
नानुमानविषय इत्यभिप्रेतं तदसहमान एवमाह । कस्मात्प्रत्यक्षविषय एवेति ब्रुवतोऽनुमान
स्यापि विषयः किं न स्वलक्षणमित्यभिप्रायः । स एव किं न तथेत्याशङ्क्य पूर्वपक्षवाद्येवोपपत्ति
76
प्रयोजनस्य क्रिया निष्पत्तिः । तस्यां सामर्थ्यं शक्तिः । तदेव लक्षणं रूपं यस्य वस्तुनः
माह--तथा हीति । विकल्पशब्दः प्रमाणविषयचिन्तनादनुमानविकल्पो द्रष्टव्यः । दृश्यात्मक
एव स्वलक्षणात्मक एव ।
ननु यस्यार्थस्य सन्निधानासन्निधानाभ्यां ज्ञानप्रतिभासभेदस्तत्स्वलक्षणम् इत्युक्ते कुतोऽस्य
प्रश्नस्यावकाशः ? न हि विकल्पविषयस्य सन्निधानासन्निधानाच्च ज्ञानप्रतिभासभेदोऽस्ति
यतोऽस्योत्थानं स्यात् । सत्यम् । केवलमयमस्याशयः--यदेतद् भवद्भिर्लक्षणं स्वलक्षणस्य प्रतीतं
तदस्य लक्षणमेव न भवति किन्तु यदेव दृश्यतयाऽध्यवसीयते तदेव स्वलक्षणमितीदं तस्य
लक्षणम् । सति चैवमनुमानविकल्पविषयस्यापि तथात्वमनिवारितमेवेति सूत्थानः प्रश्नः ।
एतत्प्रश्नविसर्जनमाचार्यीयं दर्शयन्नाह--तदेवेति ।
अथ स्यात् यदि385... ... ...त्युच्यमानं शोभेत यावतेदमेव न सिद्धं तत्कुतोऽयं प्रश्न
विसर्जनप्रकार इति ? उच्यते । स्वलक्षणमिति स्वमसाधारणं पारमार्थिकः स्वभाव उच्यते ।
स एव च पारमार्थिकः स्वभाव उच्यते, य एवार्थक्रियाक्षमः । स एव च परमार्थसन्निति युक्त
मिदमुत्तरं तदेवेति । परमोऽर्थ इति दर्शयन् कर्मधारयं दर्शयति । अकृत्रिममित्यादि परमशब्दस्य
व्याख्यानम् । तेनास्तीति सदित्यस्यार्थकथनम् । तेन रूपेण सद् विद्यमानमिति विग्रहः । शत्रन्त
श्चायमसिः । कर्त्तृकरणे कृता बहुलम् पाणिनि २. १. ३२इति च समासः । परमार्थसदित्य
स्यार्थमाख्याय तदेवेत्येतद् विवृणोति य एवेति । प्रतिभासं ज्ञानस्येति प्रकरणात् । अर्थक्रिया
समर्थोऽर्थः । स्वलक्षणं चैवमात्मकमित्यभिप्रायेण य एवार्थः स एवेत्याह । अस्तु तादृशः परमार्थसन् ।
स तु न तस्य विषयोऽन्यस्यापि वा विषयो भविष्यति । तथा च विवक्षितार्थासिद्धिरित्याह
स चेति । चोऽवधारणे प्रत्यक्षस्येत्यतः परो द्रष्टव्यः । तदेवेति प्रत्यक्षविषयत्वेन स्थितं वस्त्वेव
न त्बनुमानविषयोऽपीति । अनेन कस्मात्पुनः प्रत्यक्षविषय एव स्वलक्षणमित्येतत्प्रश्नविषर्जन
स्योपसंहारः कृतो वेदितव्यः ॥
इदानीं स्वलक्षणस्यैव परमार्थसत्त्वमसहमान आह--कस्मादिति । अयमस्याशयः—
स एव खलु परमार्थसन्नर्थो य एवार्थत्वेनाध्यवसीयते । अनुमानविषयोऽपि च वह्निस्तथाऽध्य
वसीयत इति सोऽपि कस्मान्न परमा33b र्थसन्निति ।
अत्र--अर्थेत्यादि यदुत्तरं तद् अर्थ्यत इत्यादिना व्याचष्टे । चस्तुल्यबलत्वं समु तद् अर्थक्रियासामर्थ्यलक्षणम् । तस्य भावः, तस्मात् । वस्तुशब्दः परमार्थपर्यायः । अन्यत् सामान्यलक्षणम् ॥ १६ ॥ 391अन्यदित्यादि । एतस्मात् स्वलक्षणाद् यद् अन्यत्--स्वलक्षणं यो न भवति ज्ञान समारोप्यमाणं हि रूपं सकलवह्निसाधारणम् । ततः393 तत् सामान्यलक्षणम् ॥
च्चिनोति । हेयः कथमर्थ्यत इत्याह--हेय इति । हिर्यस्मात् । यदि हातुमर्थ्यमानोऽर्थो न तर्ह्यु
पादेयोऽर्थ इत्याह--उपादेय इति । चो हेयापेक्षयोपादेयस्यार्थ्यमानत्वं समुच्चिनोति । अर्थस्य
प्रयोजनस्य दाहादेः । एवं च व्याचक्षणः साध्यो दाहादिरेव मुख्यवृत्त्योपादेया हेयो वा ।
77
तदयमर्थः--यस्मादर्थक्रियासमर्थं परमार्थसदुच्यते, सन्निधानासन्निधानाभ्यां च ज्ञानप्रतिभासस्य
भेदकोऽर्थोऽर्थक्रियासमर्थः, तस्मात् स एव परमार्थसन् । तत एव हि प्रत्यक्षविषयादर्थक्रिया
प्राप्यते न विकल्पविषयात्386 । अत एव यद्यपि विकल्पविषयो दृश्य इवावसीयते तथापि
न387 स दृश्य एव 388ततोऽर्थक्रियाया389 अभावात्, दृश्याच्च भावात् । अतस्तदेव स्वलक्षणं
न विकल्पविषयः390 ॥
विषयः--तत्392 सामान्यलक्षणम्, विकल्पज्ञानेनावसीयमानो ह्यर्थः सन्निधानासन्निधानाभ्यां
ज्ञानप्रतिभासं न भिनत्ति । तथाहि आरोप्यमाणो वह्निरारोपादस्ति । आरोपाच्च दूरस्थो
निकटस्थश्च । तस्य समारोपितस्य सन्निधानासन्निधानाच्च ज्ञानप्रतिभासस्य न भेदः
स्फुटत्वेनास्फुटत्वेन वा । ततः स्वलक्षणादन्य उच्यते । सामान्येन लक्षणं सामान्य
लक्षणम् । साधारणं रूपमित्यर्थः ।
तमेवोपादातुं हातुं वा तत्साधनस्योपादानं हानं वाऽन्यथा न शक्यत इति तत्साधनभूतो
वह्न्यादिरुपादेयादिरुपपद्यत इति दर्शयति । तस्यामित्यादि तस्मादित्यन्तं सुबोधम् । परमा
र्थसतस्तत्त्वे प्रतिपाद्ये किमति वस्तुनस्ताद्रूप्यमाचार्येण दर्शितमित्याशङ्कामपाकुर्वन्नाह--वस्तुशब्द
इति । तदयमर्थ इत्यादिर्न विकल्पविषय इत्यन्तो ग्रन्थस्तूक्तार्थोपसंहारः । स च सुज्ञानः ॥
इह प्रस्तुतस्वलक्षणापेक्षमन्यत्वमाचार्यस्याभिप्रेतम् । स्वलक्षणशब्दस्य चान्यशब्द
योगात्पञ्चम्या भवितव्यमित्यभिप्रेत्य एतस्मादित्याह । अन्यत्वमभिव्यनक्ति--स्वलक्षणं यो न
भवतीति । शशविषाणादिव्यवच्छेदार्थमाह--ज्ञानविषय इति । प्रमाणविषयचिन्तायाः
प्रस्तुतत्वाद् विज्ञानविषय इति लब्धम् । असिद्धमस्य ततोऽन्यत्वम्, अस्यापि स्वलक्षणकार्य
कारित्वादित्याह--विकल्पेत्यादि । हिर्यस्मादर्थे ।
प्रतिभासाभेदकत्वं तस्य कुतोऽवसीयते सर्वदा तस्य सन्निहितरूपत्वादसन्निहितरूपत्वादेव
वेत्याह--तथा हीति । आरोप्यमाणस्तथा प्रतीयमानः । आरोपात् तथोत्पादलक्षणादध्य
वसायाद् अस्ति वह्निरूपेण । आस्तामारोपात् तथाभूतस्तथापि तस्य सन्निधानासन्निधान394
कुत इत्याह--आरोपादिति । चो व्यक्तमेतदित्यस्यार्थे । द्वितीयश्चकारो दूरस्थत्वापेक्षया
निकटस्थत्वस्यैकविषयत्वं समुच्चिनोति ।
तस्येत्याद्युच्यत इत्यन्तं स्पष्टार्थम् ।
78
तच्चानुमानस्य ग्राह्यं दर्शयितुमाह--
सोऽनुमानस्य विषयः ॥ १७ ॥
सोऽनुमानस्य विषयो ग्राह्यरूपः395 । सर्वनाम्नोऽभिधेयवल्लिङ्गपरिग्रहः ।
सामान्यलक्षणमनुमानस्य विषयं व्याख्यातुकामेनायं स्वलक्षणस्वरूपाख्यानग्रन्थ
आवर्त्तनीयः स्यात् । ततो लाघवार्थं प्रत्यक्षपरिच्छेद एवानुमानविषय उक्तः ॥
सामान्यशब्देन लक्षणशब्दस्य विग्रहम ह--सामान्येनेति । सामान्येन, न विशेर्षेण
सन्तानान्तरसाधारणं स्वरूपम् । साधनं कृतेति समासः । तस्य पदस्यार्थं स्पष्टयति—
साधारणमिति ।
विकल्पविषयस्याप्यसाधारणत्वादसिद्धं व्यक्त्यन्तरसाधारणत्वमित्याह--समारोप्यमाण
मिति । हिर्यस्मात् । समारोप्यमाणं विकल्पेन तथा प्रतीयमानम् । सकलश्चासौ तार्णपार्णा
दिभेदभिन्नो वह्निश्चेति तथा । तत्साधारणं तथाविधलिङ्गबलेनानग्निव्यावृत्तवस्तुमात्रप्रति
भासनादिति भावः ।
ननु च तथाविधं सामान्यं विकल्पगोचरोऽवस्तु । तद्विषयत्वेऽनुमानस्य कथं बाह्ये
प्रवर्त्तकत्वं तत्प्रापकत्वञ्च, यतः प्रामाण्यमस्य स्यादिति चेद् । उच्यते । विकल्पाः खल्वेतेऽनाद्य
विद्यावशात्स्वप्रतिभासमनग्निव्यावृत्तमवस्यन्तो बाह्योऽप्यनग्निव्यावृत्त इति तदध्यवसानमेव
बाह्यो वह्निरध्यवसित इति मन्यन्ते । अनग्निव्यावृत्ततया बाह्यसदृशवह्न्यध्यवसाय एव
बाह्यवह्न्यध्यवसायः । तयोर्विवेकाप्रतिपत्तेः । अत एव ते विकल्पा दृश्यविकल्प्यावर्थावे
कीकृत्य बाह्ये लोकं प्रवर्त्तयन्ति । दृश्यविकल्प्यैकीकरणमपि तेषां तथा प्रवृत्तिहेतुतयोत्पत्ते
रेव द्रष्टव्यम् । 34a बाह्यसम्बद्धसम्बद्धत्वाच्चानुमानविकल्पः संवादकः, अध्यवसेयापेक्षया
च प्रमाणम् । तदाह न्यायवादी--भ्रान्तिरपि सम्बन्धतः प्रमा इति । एष चार्थः स्वप्रति
भासेऽनर्थेऽर्थाध्यवसायेन प्रवृत्तेरित्यत्राप्यपेक्षणीयः । समासतस्तु तत्रास्माभिः किञ्चिदवादीति ।
यत एवं तत्तस्मादित्युपसंहारः । तदिति तदारोप्यमाणम् ॥
तच्चेत्यादिना सोऽनुमानेत्यस्यावतारं दर्शयति । चोऽवधारणे । ग्राह्यं रूपं स्वभावो
ऽस्येति विग्रहः । एवं व्याचक्षाणो विषयशब्देन ग्राह्यो विषयोऽभिप्रेतोऽत्र प्रमाणव्यापार
विषयोऽध्यवसेयः स्वलक्षणस्यैव तदध्यवसेयत्वेन तथा व्यवस्थापनादिति दर्शयति । तस्य तु
तत्र स्वरूपेणाप्रतिभासनादग्राह्यत्वम् । प्रकाशमानं च रूपमाश्रित्य ग्राह्यत्वमुच्यत इत्युक्त
प्रायम् ।
अनुमानस्यापि ग्राह्यविषयदर्शनेऽयमभिप्रायो यदीदमनुमानमनर्थमनग्निव्यावृत्तिमात्रं विषयविप्रतिपत्तिं निराकृत्य फलविप्रतिपर्त्तिं निराकर्त्तुमाह-- तदेव396 च प्रत्यक्षं ज्ञानं प्रमाणफलम् ॥ १८ ॥ तदेवेति । यदेवानन्तरमुक्तं प्रत्यक्षं 397ज्ञानं तदेव प्रमाणस्य फलम् ॥ कथं प्रमाणफलमित्याह-- अर्थप्रतीतिरूपत्वात् ॥ १९ ॥ अर्थस्य प्रतीतिरवगमः, सैव रूपं यस्य प्रत्यक्ष398ज्ञानस्य तदर्थप्रतीतिरूपम् । तस्य एतदुक्तं भवति--प्रापकं ज्ञानं प्रमाणम् । प्रापणशक्तिश्च न केवलादर्थाविना स एव च प्रमाणफलम्, यदनुष्ठानात् प्रापकं भवति ज्ञानम् । उक्तं च पुरस्तात् प्रवृत्ति तदेव च प्रत्यक्षम् अर्थप्रतीतिरूपम् 400अर्थप्रदर्शनरूपम् । अतस्तदेव प्रमाणफलम् ॥
सामान्यरूपं गृहणाति, तत्र तत्सामान्यरूपं किञ्चिदवभासेत, तदा तत्स्वलक्षणत्वेनावस्यत्स्व
लक्षणं प्रवृत्तिविषयीकुर्यात् । तथा कुर्वच्च वस्तुविषयं प्रामाण्यमश्नुवीत नान्यथेति । स
79
भावः, तस्मात् ।
भावित्वाद् भवति । बीजाद्यविनाभाविनोऽप्यङ्कुरादेरप्रापकत्वात् । तस्मात् 399प्राप्यादर्थादुत्प
त्तावप्यस्य ज्ञानस्याऽस्ति कश्चिदवश्यकर्त्तव्यः प्रापकव्यापारोयेन कृतेनार्थः प्रापितो भवति ।
विषयप्रदर्शनमेव प्रापकस्य प्रापकव्यापारो नाम ।
इति पुंल्लिङ्गनिर्देशसमर्थनार्थमाह--सर्वेति । इवार्थे वति । तद्वल्लिङ्गस्य परिग्रह इति
षष्ठ्यन्तेन विग्रहः । अत्रापि सामान्यलक्षणमेवानुमानस्य विषय इत्यवधारणीयं न त्वनुमान
स्यैवेति प्रत्यक्षपृष्ठभाविनोऽपि विकल्पविशेषस्य तत्विषयत्वादन्यथा लिङ्गनिश्चयायोगादिति ।
सम्प्रति प्रत्यक्षस्य विषयविप्रतिपत्तिनिराकरणे प्रकृते किमप्रकृतमनुमानस्य विषय
विप्रतिपत्तिनिराकरणमाचरितमित्याशङ्कामपाकर्त्तुं सामान्येत्यादिनोपक्रमते । एतच्चोक्त
इत्येतदन्तं सुज्ञानम् ॥
विषयेत्यादि फलमित्येदन्तं सुबोधम् । फलप्रदर्शने चायं वार्त्तिककारस्याशयः—
प्रमाकरणं खलु लोके प्रमाणमुच्यते । ततः करणसाध्या फलरूपा प्रमितिरवश्यदर्शयितव्येति ॥
ननु यस्मिन् विषये क्रियासाधनं व्याप्रियते401...कथमिति । किमन्यत्प्रमाणमिति
पुनरिहोपेक्षितमनेन । अर्थेत्यादि प्रतिवचनं व्याचष्टे अर्थस्येति । एतच्च तस्मादित्यन्तं सुगमम् ।
ननु संवादकं ज्ञानं प्रमाणम् । संवादश्च तदुत्पत्तिमात्रात् । तत् किमर्थे प्रतीति
स्तत्फलं मृग्यत इत्याशङ्क्याह--एतदुक्तं भवतीति ।
80
अथ प्रापकत्वं प्रापणशक्तियोगात् । सा च शक्तिस्तत उत्पत्तेरेव । तथा च कथं
पूर्वपक्षातिक्रम इत्याह--प्रापणशक्तिश्चेति । चो यस्मात् । न केवलादेकाकिनोऽर्थप्रदर्शन
विनाकृतात् । विवक्षितेन विना भवतीति विनाभावी ग्रहादित्वाण्णिनिः, व्यभिचारीत्यर्थः ।
अर्थेन विना भावीति तृतीया पा० २. १. ३० इति योगविभागात्समासः । तस्य भाव
स्तस्मात् । कथं पुनर्न केवलादित्याह--बीजादिति । यत एवं तस्मात् । यद्यपि सन्तान
एव प्राप्यो न च तस्मात्तस्योत्पत्तिस्तथापि विषयेऽस्यैकत्वमध्यवसाय प्राप्यादर्थादुत्त्पत्ता
वपीत्युक्तम् । प्रापकस्य ज्ञानस्यावश्यकर्त्तव्यः प्रतीतिक्रियारूपः । प्रापितो भवतीति पूर्ववद्
योग्यत34b योच्यते । भवतु तस्य कर्त्तव्यमन्यत्, तथापि न तत्फलमित्याह--स एवेति ।
च स्फुटमेतदित्यस्मिन्नर्थे ।
भवतु अवश्यकर्त्तव्यः प्रापकव्यापारः । स पुनरज्ञानात्मको भविष्यति । तथा च कथं
प्रतीतिः फलमित्याह उक्तमिति । चो यस्मादर्थे । पुरस्तात्पूर्वस्मिन् । केनोक्तमेतदिति चेत्
प्रवर्त्तकत्वमपि प्रवृत्तिविषयोपदर्शकत्वमेवेत्यादिना । आस्तामर्थप्रतीतिरवश्यकर्त्तव्या प्रमाणस्य
तथापि कथं तदेव प्रत्यक्षज्ञानं फलं तस्यातद्रूपत्वादित्याशङ्क्य यदर्थप्रतीतिरूपत्वं प्रतिज्ञातं
तदुपपादयन्नाह--तदेवेति । चो यस्मादर्थे ।
नन्वर्थप्रदर्शनं कर्त्तव्यतया प्रदर्शितम् । तत् कथमर्थप्रतीत्यामेकं तत् प्रदर्श्यत इत्याह—
अर्थप्रदर्शनरूपमिति । अनयोरर्थाभेद इत्यभिप्रायः । यत एवमतोऽस्मात्तदेव प्रत्यक्षं ज्ञानमेव
नार्थान्तरमित्यर्थात् । प्रमाणादन्यज्ज्ञानमेव फलं यदि स्यात्, किंस्यात् ? येन यत्नेन गरीयसा
प्रमाणादभेदोऽस्य साध्यत इति चेत् । उच्यते । धीप्रमाणता, प्रवृत्तेस्तत्प्रधानत्वात् प्रमाणवा०
१. ५.इत्यत्राज्ञानात्मनस्तावत्प्रामाण्यमपहस्तितम् । ज्ञानात्मनश्च प्रमाणस्या402 भिन्नेऽपि
प्रमितिरूपे फलेऽवश्यमर्थपरिच्छेदात्मताऽभ्युपेतव्या । अन्यथा ज्ञानत्वमेव तस्य न स्यात् । प्रमा
जनकत्वेन च ज्ञानत्वे चक्षुरादेरपि ज्ञानत्वं स्यात् । बोधरूपत्वं चास्वसंवेदनतया न नियामकम् ।
स्वसंवेदनरूपत्वे वा ग्राह्याकारसंवेदनमेवार्थवेदनमिति कथं भिन्नं फलम् ? प्रतिकर्मव्यवस्था
ऽनुपपत्तेश्च न निराकारत्वं विज्ञानस्याभ्युपेयम् । ज्ञानमेवार्थस्य प्रकाश इति च सर्वतन्त्र
सिद्धोऽयमर्थः । ततो न ज्ञानस्याधिगमरूपतायां विप्रतिपत्तव्यं केनचित् । सत्यां च तदात्मतायां
तदेव फलं युज्यते, तावतैव प्रमाणव्यापारपरिसमाप्तेः ।
अपि च यदि ज्ञानस्य स्वयमर्थरूपपरिच्छेदरूपत्वेनार्थपरिच्छेदकत्वं न स्यात्, किन्तु
भिन्नपरिच्छित्तिजनकत्वेन; तदाऽर्थस्य परिच्छित्तेरपरोक्षतैव व्यवस्थापयितुं न शक्येत ।
तथाहि तदाद्यं ज्ञानमर्थं परिच्छिनत्त्यर्थमपरोक्षयतीति कोऽर्थोऽर्थविषयां परिच्छित्तिं जनयतीति ।
साऽपि यद्यर्थमपरोक्षयति तदाऽपरां प्रतीतिं जनयतीति स्यात् । एवमुत्तरत्राप्येवमेवेति
परिच्छित्तीनामानन्त्यम्, न त्वर्थस्यापरोक्षतेत्यायातमान्ध्यमशेषस्य जगतः ।
अथ तासामेका स्वयमर्थपरिच्छेदरूपा अर्थापरोक्षतारूपोपेयते; तदा न भिन्नपरिच्छित्ति
जनकत्वं परिच्छेदकत्वम् । किन्तर्हि ? स्वयमर्थपरिच्छेदात्मत्वमिति आद्यस्यापि तथात्व
मनिवारितम् । तथा च कथं प्रमाणाद् व्यतिरिक्तं फलमिति ? ।
इह न क्रियैव करणं लोके तयोर्भेदेनावस्थितेः । या चेयं ज्ञानलक्षणा क्रिया सा चेत्फलं
81यदि तर्हि ज्ञानं प्रमितिरूपत्वात् प्रमाणफलम्, किं तर्हि प्रमाणमित्याह--
अर्थसारूप्यमस्य प्रमाणम् ॥ २० ॥
अर्थेन सह यत् सारूप्यं403 सादृश्यम् अस्य ज्ञानस्य तत् प्रमाणम् । इह यस्मा
द्विषयाद्404 विज्ञानमुदेति तद्विषयसदृशं तद् भवति । यथा नीलादुत्पद्यमानं नीलसदृशम् । तच्च405
सारूप्यं सादृश्यम् आकार इत्याभास इत्यपि व्यपदिश्यते ॥
ननु च ज्ञानादव्यतिरिक्तं सादृश्यम् । तथा च सति तदेव ज्ञानं प्रमाणं तदेव च406
प्रमाणफलम् । न चैकं वस्तु साध्यं साधनं चोपपद्यते । तत् कथं सारूप्यं प्रमाणमित्याह--
किमन्यत्प्रमाणं भविष्यति इत्यागूर्य पूर्वपक्षवादी यदीत्याद्याह । यदीति सम्भावयति । तर्हि
शब्दोऽक्षमायाम् । तदेव प्रत्यक्षं ज्ञानमेवमि408ति न क्षम्यत एतदित्यर्थः । प्रमाणस्य फलं
साध्यम् । तर्हि तस्मिन् काले किम्प्रमाणमिति योज्यम् ।
अत्रार्थसारूप्यमित्युत्तरं व्याचष्टे--अ35a र्थेनेति । अर्थेन विषयेण । विषयसारूप्यं
च ज्ञानस्य प्रत्यक्षाख्यस्य विषयसमानाकारतयोत्पादः । इहेत्यादिना सारूप्यमेवोपपादयति ।
एतच्च नीलसदृशमित्यन्तं सुबोधम् । केवलमेवं वदतोऽयमाशयः--अनेकप्राग्भावेनोदयमानमपि
विज्ञानमर्थस्यैवाकारं बिभर्ति, नान्यस्येत्यनुभवसिद्धमपर्यनुयोज्यम्, सदृशत्वनिश्चयस्य
ताद्रूप्येण सततमुदयात् । यदि हि तदन्याकारो विषयः स्यात् तदा तदितरस्याकारधारि
विज्ञानं कदाचिज्जनयेत् । यथा शुक्तिः कथञ्चिद्रजताकारज्ञानप्रबन्धोदयेऽपि तद्देशोपसृष्टस्य
स्वाकारानुकारि ज्ञानं जनयति । न चाभ्रान्तस्य नीलज्ञानस्य कदाचिदप्यन्याकारत्वमस्ति ।
तस्मादर्थोऽप्येवमाकार इति निश्चीयते । बाह्यार्थेऽर्थसारूप्यावगमे गतिरियमेवेति ।
ननु चान्यत्र विषयाभासः प्रमाणमुक्तस्तथाविषयाकारः, इह त्वर्थसारूप्यम् । तत्कथं न
व्याघात इत्याशङ्क्याह--तच्चेति । चो यस्मादवधारणे वा । इत्यप्यनेनापि शब्देन ।
अर्थसारूप्यमेव तेन तेन शब्देनाभिहितम् । ततो न व्याघात इत्यभिप्रायः ॥
किं तर्हि प्रमाणमिति पृच्छता यच्चेतसि निहितमासीत् तदिदानीं ननु चेत्यादिना
कण्ठोक्तं करोति । एतच्च प्रमाणमित्येतदन्तं सुबोधम् ।
82
तद्वशादिति । तदिति सारूप्यम्, तस्य वशात् सारूप्यसामर्थ्यात् । अर्थस्य
प्रतीतिः अवबोधः । तस्याः सिद्धिः । 409तत्सिद्धेः कारणात् । अर्थस्य प्रतीतिरूपं
प्रत्यक्षं विज्ञानं सारूप्यवशात् सिद्ध्यति प्रतीतं भवतीत्यर्थः । नीलनिर्भासं हि विज्ञानं
यतः, तस्मात् नीलस्य प्रतीतिरवसीयते । येभ्यो हि चक्षुरादिभ्यो410 विज्ञानमुत्पद्यते न तद्वशात्
तज्ज्ञानं नीलस्य संवेदनं शक्यतेऽवस्थापयितुम्411 । नीलसदृशं तु अनुभूयमानं नीलस्य संवेदन
मवस्थाप्यते ।
न चात्र जन्यजनकभावनिबन्धनः, साध्यसाधनभावः, येनैकस्मिन् वस्तुनि विरोधः
स्यात् । अपि तु व्यवस्थाप्यव्यवस्थापनभावेन412 । तत एकस्य वस्तुनः किञ्चिद्रूपं प्रमाणं
किञ्चित् प्रमाणफलं न विरुध्यते ।
एतस्मिन् पूर्वपक्षे तद्वशादित्याद्युत्तरमाचार्यीयं विवृणोति तदिति । तच्छब्दार्थं
वशशब्दार्थं च स्फुटयति सारूप्येति । अर्थस्येति नीलपीताद्यात्मना विशिष्टस्येति द्रष्टव्यम् ।
यतः प्रमितिरियं विशिष्टेनैव कर्मणाऽवच्छिन्ना प्रतीयते । अमुमेवार्थम्--अर्थस्येत्यादिना
स्पष्टयति । सिद्धिशब्दस्यार्थमभिव्यनक्ति प्रतीतमिति । प्रतीतं तन्नीलस्येदं ज्ञानं न पीतस्येत्या
द्याकारेण निश्चितं भवतीत्यर्थः । उक्तमर्थं नीलेत्यादिनोपसंहरति । हिरवधारणे । यत
एवं तत्तस्मात् नीलस्य प्रतीतिर्नीलस्यैवेदं ज्ञानमित्यवसीयते ।
ननु जनकेभ्य एवेयं ज्ञानस्य व्यवस्था भविष्यति । ते हि ज्ञानं जनयितुं शक्ताः
किमङ्ग निश्चाययितुं न शक्नुयुः ? अतश्च न सारूप्याधीनोऽयं प्रतीतिनियम इत्याशङ्क्याह—
येभ्य इति । हिर्यस्मात् । एवं ब्रुवतोऽयं भावः--नेन्द्रियालोकौ नियामकौ । तयोः सर्वज्ञान
साधारणत्वात् । अर्थगतोऽपि विशेषो न नियामकः । ज्ञानादेव हि स प्रत्येतव्यः । तदविशेषे स
कथं विशेषव्यवस्थाया अङ्गं भवेदिति । नीलसारूप्येऽपि यद्ययं न्यायस्तदा कथं तस्यापि निया
मकत्वमित्याह--नीलेति । तुरिन्द्रियादिभ्यो जनकेभ्यः सारूप्यं भेदवद् दर्शयति । नील
सदृशमनुभूयमानं संवेदनं ज्ञानं नीलस्य नीलस्यैवेति व्यवस्थाप्यते ।
अयमत्र प्रकरणार्थः--यदि ज्ञानमर्थसरूपं न स्यात् किन्तु निराकारं बोधैकरूपं तदाऽ व्यवस्थापनहेतुर्हि सारूप्यं तस्य ज्ञानस्य । व्यवस्थाप्यं च नीलसंवेदनरूपम् । व्यवस्थाप्यव्यवस्थापकभावोऽपि कथमेकरय ज्ञानस्येति413 चेत् । उच्यते । नीलसदृश तस्मादसारूप्यव्यावृत्त्या सारूप्यं ज्ञानस्य व्यवस्थापनहेतुः । अनीलबोधव्यावृत्त्या च
नुभवैकरूपतया तदविशिष्टं, सर्वत्र परिच्छेद्यतया कर्मस्थानप्राप्ते नीलपीतादाविति नील
स्यैवेदं संवेदनम्, इदं पीतस्यैवेत्यनुभवसिद्धः प्रतिकर्मविभागो हीयेत । 35b अर्थगतश्चाकारो
ज्ञानाधीनप्रतिपत्तितया ज्ञानस्य विशिष्टरूपतासन्देहेन सन्दिग्धः । न च तेनैव सन्दिग्धरूपेण
तदेव सन्दिग्धं रूपं निश्चेतुं शक्यम् । ज्ञानगतश्च विशेषोऽर्थकृतः सारूप्यादन्यो नोपपद्यते ।
सन्नपि न तावदिदंतयाऽसौ निर्देष्टुं शक्यः । न चानिरूपितेन तदात्मकः कर्मनियमनिश्चयः ।
यद्रूपश्च यश्च कर्मनियमनिश्चयो ज्ञानस्य तस्मिन्ननिरूपिते कीदृशी तद्रूपताव्यवस्था ? यथा
83
मनुभूय414 तद्विज्ञानं यतो नीलस्य ग्राहकमवस्थाप्यते निश्चयप्रत्ययेन, तस्मात् सारूप्यमनुभूतं
व्यवस्थापनहेतुः । निश्चयप्रत्ययेन च तज्ज्ञानं नीलसंवेदनमवस्थाप्यमानं व्यवस्थाप्यम् ।
नीलबोधरूपत्वं व्यवस्थाप्यम् ।
नीलादिरनिरूपिते क्षणिकत्वे तद्रूपो न निरूप्यत इति । तस्माद् यत इयमधिगतिरव्यवधानात्
तत्त्वं प्रतिलभते तदेवान्येनाव्यवधीयमानव्यापारं स्वभेदेन भेदकं प्रमाकरणं प्रमाणम् । न
पुनरनेनैव व्यवधीयमानव्यापारमिति । तच्चेदृशं सारूप्यमेवेति । एष च वादोऽस्माभि
र्विस्तरेण विशेषाख्यानेऽभिहित इति ततोऽप्यपेक्षितव्य इति ।
ननु चैवमप्येकस्यैव ज्ञानस्य साध्यत्वं साधनत्वञ्च कथमुपपद्यते ? नहि परशुरेव च्छिदा
भवति । ततः प्रमाणफलयोरभेदो नाभ्युपैतव्य इत्याशङ्क्याह--न चेत्यादि । चो
यस्मादर्थे । अत्रेति प्रमाणफलचिन्तायां विरोधोऽनुपपत्तिः स्यात् । यद्येवं न भवति कथं
नामेत्याह--अपि तु किन्तु । व्यवस्थाप्यं विशेषरूपेण नियाम्यम् । व्यवस्थाप्यते विशिष्टे
नात्मना नियम्यतेऽनेनेति व्यवस्थानिमित्तम् व्यवस्थापनमभिप्रेतम् । व्यवस्थापनभावेनेत्ययं
पाठो वक्ष्यमाणविरोधी । यदा तु व्यवस्थापकभावेनेति पाठो दृश्यते तदा करणे कर्त्तृ
भावविवक्षया तथा द्रष्टव्यम् । साध्वसिश्च्छिनत्तीति यथा । तयोर्व्यवस्थाप्यव्यवस्थापनयो
र्भावस्तथाज्ञानाभिधाननिमित्तं रूपं तेन । इत्थंभूतलक्षणा चेयं तृतीया । यत एवं ततस्त
स्मादेकस्य वस्तुनः प्रत्यक्षलक्षणस्य ज्ञानस्य वस्तुनः किञ्चिद्रूपं व्यावृत्तिपरिकल्पितं कृतकत्वा
दिवत् । तत्रेयं ब्राह्यार्थे प्रमाणादिव्यवस्था । ग्राह्याकारोऽर्थसारूप्याख्य आत्मनः संविदमर्थ
संविदमादर्शयन्नर्थे प्रमाणम् । अत एव बाह्योऽर्थः प्रमेयः । वस्तुतः स्वविदपीयमर्थसम्बन्धिनी
व्यवसीयमानाऽर्थसंवित्तिः फलमिति ।
ननु किमत्र व्यवस्थापननिमित्तम्, किञ्च व्यवस्थाप्यं येनैतत् स्यादित्याह--व्यवस्था
पनेति । व्यवस्थापनं व्यवस्थाकारणम् । व्यवस्थायां प्रयोजकव्यापार इति यावत् । तस्य
हेतुर्निमित्तम् । हिर्यस्मात् । तस्य प्रत्यक्षज्ञानस्य । किन्तर्हि व्यवस्थाप्यमिति ? चो
व्यवस्थापनहेतोर्व्यवस्थाप्यं भिनत्ति । नीलस्येदं नान्यस्येत्यनेनाकारेण यन्नीलसंवेदनं तद्रूपम् ।
एतदसहमानो व्यवस्थाप्येत्याद्याह । न केवलमेकस्य जन्यजनकभावोऽनुपपन्न इत्यपिना
दर्शयति । उच्यत इत्यादिना परिहरति । यतो यस्मान्नीलसदृशमनुभूयेति वास्तवं रूपमनू
दितम् । न तु नीलसदृशमनुभवामीति निश्चयोऽस्ति । अपि तु नीलमेवानुभवामीति नीलस्य
ग्राहकमवस्थाप्यते ।
84
व्यवस्थापकश्च विकल्पप्रत्ययः प्रत्यक्षबलोत्पन्नो द्रष्टव्यः । न तु415 निर्विकल्पकत्वात्
प्रत्यक्षमेव नीलबोधरूपत्वेना416त्मानमवस्थापयितुं शक्नोति । निश्चयप्रत्ययेनाव्यवस्थापितं
सदपि नीलबोधरूपं विज्ञानमसत्कल्पमेव । तस्मान्निश्चयेन नीलबोधरूपं व्यवस्थापितं विज्ञानं
नीलबोधात्मना सद् भवति ।
तस्मादध्यवसायं कुर्वदेव प्रत्यक्षं प्रमाणं भवति । अकृते त्वध्यवसाये नीलबोधरूपत्वे
नाव्यवस्थापितं भवति विज्ञानम् । तथा च प्रमाणफलमर्थाधिगम417रूपमनिष्पन्नम् । अतः
साधकतमत्वाभावात् प्रमाणमेव न स्याज्ज्ञानम् ।
ननु न तावता ज्ञानमात्मनैवात्मानं418 तथा36a व्यवस्थापयति, अनिश्चयात्मकत्वात् ।
न च निश्चयोऽप्यात्मानं तथाऽवस्थापयितुं पर्यवाप्नोति, स्वात्मन्यविकल्पकत्वात् । तत्केन
तथा व्यवस्थाप्यत इत्याह--निश्चयप्रत्ययेनेति । निश्चयात्मकज्ञानेनोत्तरकालभाविना ।
तेनाप्यनुरूपेणेति द्रष्टव्यम् । तस्मात्सारूप्यमनुभूतं स्वसंवेदनेन प्रतीतं व्यवस्थापनहेतुर्नीलस्येदं
संवेदनम्, न पीतस्येति नियमकरणस्य हेतुर्निमित्तम् । इदं च व्यवस्थापनहेतुर्हि सारूप्यं तस्य
ज्ञानस्येत्यस्य समर्थनम् । यदि ज्ञानस्य तस्य सारूप्यमेवं व्यवस्थापनहेतुस्तर्हि किं कीदृशं च
सद् व्यवस्थाप्यमित्याह--निश्चयेति । चोऽवधारणे । तदित्यस्मात्परो द्रष्टव्यः । यस्यैव
नीलज्ञानस्य सारूप्यं तथोक्तं तदेव ज्ञानं व्यवस्थाप्यं नीलस्यैवेत्याकारेण नियाम्यमित्यर्थः ।
कीदृशं सत्तथा व्यवस्थाप्यमित्याह--नीलेति । पीतादिसंवेदनव्यावृत्त्या नीलस्येदं संवेदनं
ज्ञानमित्यवस्थाप्यमानं निश्चीयमानम् । केनावस्थाप्यमानमित्याकाङ्क्षायां निश्चयप्रत्ययेनेति
योजनीयम् । ननु किं ज्ञानात् सारूप्यं व्यतिरिच्यते येन सारूप्यं तथोक्तम्, ज्ञानं त्वेवमुच्यत
इत्याशङ्क्योपसंहारव्याजेनाह--तस्मादिति । यस्मात् सारूप्यादन्यव्यवस्थापनहेतुर्न घटते,
सारूप्यं च ज्ञानादन्यं नोपपद्यते तस्मात्कारणात् । अयं च--तत एकस्य वस्तुनः किञ्चिद्रूप
मित्यादेरुपपत्त्या प्रसाधितस्योपसंहारः ।
अयं प्रकरणार्थः । एकस्यैव ज्ञानस्य व्यावृत्तिकृतं भेदमाश्रित्याह व्यवस्थाप्यव्यस्था
पनभावः । वास्तवं चाभेदमुपादाय प्रमाणफलयोरभेद उच्यते । न च काचित्क्षतिरिति ।
सम्प्रति निश्चयप्रत्ययेनेति ब्रुवता यादृशो निश्चयो विवक्षितस्तं व्यवस्थापक इत्यादि जनितेन त्वध्यवसायेन सारूप्यवशान्नीलबोधरूपे ज्ञाने 419व्यवस्थाप्यमाने सारूप्यं व्यव यद्येवमध्यवसायसहितमेव प्रत्यक्षं प्रमाणं स्यात् न केवलमिति चेत् । नैतदेवम् ।
नोपसंहारव्याजेन स्पष्टयति । व्यवस्थापयतीति व्यवस्थापकः । स च तद्बलोत्पन्नोऽप्यनुरूपो
द्रष्टव्यः । अननुरूपविकल्पेन व्यवस्थापितयोरपि व्यस्वथाप्यव्यवस्थापनयोरनुपपत्तेः । यथा
मरीचीर्दृष्ट्वा तद्बलोत्पन्नेन विकल्पेनावस्थाप्यमानयोर्जलसारूप्यज्ञानयोर्न तथाभावः ।
85
स्थापनहेतुत्वात् प्रमाणं सिद्धं भवति ।
यस्मात् प्रत्यक्षबलोत्पन्नेनाध्यवसायेन 420दृश्यत्वेनार्थोऽवसीयते नोत्प्रेक्षितत्वेन । दर्शनञ्चार्थ
साक्षात्करणाख्यं प्रत्यक्षव्यापारः । उत्प्रेक्षणं तु421 विकल्पव्यापारः । तथाहि परोक्षमर्थं
येनाभिप्रायेण निश्चयप्रत्ययस्य व्यवस्थापकत्वमुक्तं तमभिव्यनक्ति--न त्विति । तुर्निश्चया
त्प्रत्यक्षं भेदवद् दर्शयति । अवस्थापनाऽशक्तौ हेतुमाह--निर्विकल्पकत्वादिति ।
ननु परमार्थतो यदि तज्ज्ञानं नीलमेव रूपतया सरूपं तदा तथानिश्चयो भवतु वा मा
वा । स्वयमेवाविकल्पकत्वेऽपि तेन रूपेण सद्व्यवहारगोचरो भविष्यतीत्याशङ्क्याह—
निश्चयप्रत्ययेनेत्यादि । निश्चयप्रत्ययेनानुरूपेण । अननुरूपेणाक्षणिकविकल्पेनावस्थापितस्यापि
क्षणिकबोधस्य सद्व्यवहारस्य योग्यत्वात् । तेनाव्यवस्थापितमसत्कल्पमसत्तुल्यम् स्वविषये
व्यवहारयितुमशक्तत्वा36b त् । गच्छत्तृणज्ञानादिवत् ।
तस्मादित्यादिनाऽमुमर्थमुपसंहरति । यस्मान्निश्चयेन तथाऽव्यवस्थापितमसता सदृशं
भवति तस्मात् । नीलबोधात्मना नीलस्यायं बोध इत्याकारेण सद् भवति सद्व्यवहारयोग्यं
भवति । यस्मात्स्वसामर्थ्योत्पन्नेनानुरूपेण निश्चयप्रत्ययेन व्यवस्थापितं तथा भवति नान्यथा
तस्मात्कारणादध्यवसायमनुरूपं निश्चयं कुर्वत् । एवकारेणाऽकरणावस्थायाः प्रमाणव्यवहारं
निरस्यति । अमुमेवार्थं व्यतिरेकमुखेन द्रढयन्नाह--अकृते त्विति । तुः करणावस्थां भेदवतीमाह ।
भवतु तथाऽव्यवस्थापितं किमत इत्याह--तथा चेति । तस्मिंश्च तेनात्मनाऽव्यवस्था
पनप्रकारे सति । तदनिष्पत्तावपि किं न प्रमाणमित्याह--अत इति । अतोऽधिगतिक्रियायाः
फलभूताया अनिष्पत्तेः । साधकतमत्वाभाव इति वाक्यभेदः । तस्मात्साधकतमत्वाभावात् ।
अर्थाधिगमलक्षणप्रमाणसिद्धौ हि साधकतमं प्रमाणमुच्यते । सा चेन्न निष्पन्ना तर्हि किमपेक्ष्य
साधकतमत्वमात्मसात्कुर्यात्, येन तज्ज्ञानं प्रामाण्यमश्नुवीतेति समुदायार्थः ।
ननु अवसायाभावे तावदियं गतिस्तद्भावेऽपि यद्येषैव गतिस्तदा न प्रत्यक्षं नाम प्रमाण
मित्याशङ्क्यान्वयमुखेनेदानीमाह--जनितेनेति । तुरजननावस्थाया जननावस्थां भेदवतीं
दर्शयति । तेन तथाव्यवस्थाप्यमाने व्यवस्थापकत्वे च निमित्तमाह--सारूप्यवशादिति ।
सिद्धं प्रतीतं भवति ।
यदि प्रत्यक्षं केवलमसहायं प्रवर्त्तयितुमनीशानं नियमेन निश्चयमपेक्षते तर्हि तत्सहितमेव विकल्पयन्त उत्प्रेक्षामहे न तु पश्याम इति उत्प्रेक्षात्मकं विकल्पव्यापारमनुभवादध्यवस्यन्ति422 । ॥ 423आचार्यधर्मोत्तरविरचितायां न्यायबिन्दुटीकायां प्रत्यक्षपरिच्छेदः प्रथमः ॥
प्रमाणं प्रसज्येतेत्यभिप्रायवान् प्राह--यद्येवमिति । एवमनन्तरोक्तं यद्यभ्युपगम्यते तदैवं स्यात् ।
चेदिति पराभ्युपगमं दर्शयति । नेति प्रतिषेधति । एवं सत्येतन्न भवति । हेतुमाह—
86
तस्मात् स्वव्यापारं तिरस्कृत्य प्रत्यक्षव्यापारमादर्शयति यत्रार्थे प्रत्यक्षपूर्वकोऽध्यवसायस्तत्र
प्रत्यक्षं केवलमेव प्रमाणमिति ॥
यस्मादिति । दृश्यत्वेन दर्शनविशिष्टत्वेन । प्रकारान्तरं निरस्यति नेति । उत्प्रेक्षितत्वं
साक्षात्करणाभिमानशून्यज्ञातृत्वम् ।
ननु विकल्पव्यापारो दर्शनम् । ततः स्वव्यापारविशिष्टार्थाध्यवसाने तस्य का
क्षतिरित्याशङ्क्याह--दर्शनञ्चेति । चो यस्मादर्थे । यद्येवं कस्तर्हि विकल्पव्यापार इत्याह—
उत्प्रेक्षणमिति ।
एतदेव तथाहीत्यादिनाऽवस्यन्तीत्यनेन424 ग्रन्थेन समर्थयति ।
भवत्वेवं तथापि कथं प्रत्यक्षस्य केवलस्य प्रामाण्यं न तु विकल्पस्यापीत्याशङ्क्यो
पसंहारापदेशेनाह--तस्मादिति । एतच्च सुबोधम् ।
एवमभिधाने चायमस्याशयो बोद्धव्यः । स्यात्खलु विकल्पस्यापि प्रामाण्यं यद्यसौ
स्वव्यापारयुक्त एव प्रत्यक्षस्य साहाय्यं भजते । न चायं तथा व्याप्रियते । स्वीकृतप्रत्यक्ष
व्यापारस्यैव प्रवृत्तिदर्शनात् । स च दर्शनलक्षणो व्यापारः प्रत्यक्षेणैव सम्पादित इति
कथमयमपि पिष्टपेषणकारी प्रामाण्यं प्रतिलभेत ।
अथ प्रत्यक्षं तावत्स्वप्रामाण्यव्यव37a हाराय तमपेक्षते । ततः सोऽपि प्रमाणमेवेति
मतिस्तर्हि पिता पितृव्यवहारायावश्यं पुत्रमपेक्षत इति पुत्रोऽपि पिता प्रसज्यत इति
कृतमतार्किकवचनविचारणयेति सर्वमवदातम् ॥
॥ पण्डितदुर्वेकविरचितधर्मोत्तरनिबन्धस्य धर्मोत्तरप्रदीपसंज्ञितस्य प्रथमः परिच्छेदः ॥
- ↩
-
पत्रमत्र त्रुटितम्--सं०
↩ -
पत्रमत्र त्रुटितम्--सं०
↩ -
पत्रमत्र त्रुटितम्--सं०
↩ -
पत्रमत्र त्रुटितम्--सं०
↩ -
पत्रमत्र त्रुटितम्--सं०
↩ -
पत्रमत्र त्रुटितम्--सं०
↩ -
पत्रमत्र त्रुटितम्--सं०
↩ -
पत्रमत्र त्रुटितम्--सं०
↩ - तोऽस्यते↩
-
प्रतौ दुष्खानि इत्येवं वर्त्तते--सं०
↩ - श्व↩
-
लेखोऽत्र घृष्टः ।
↩ -
लेखोऽत्र घृष्टः ।
↩ -
लेखोऽत्र घृष्टः ।
↩ -
लेखोऽत्र घृष्टः ।
↩ - ↩
- रे↩
- पुरुषार्थसिद्धिः↩
- ने↩
-
लेखोऽत्र घृष्टः ।
↩ -
एकोऽक्षरोत्र वर्त्तते किन्तु स सम्यङ्न पठ्यते ।
↩ - ↩
- ↩
-
तन्निरूप्यते A
↩ -
अथाभिधेयस्यापि किं प्रयोजनाभिधानेनेत्याह--टि०
↩ - ↩
-
प्रयोजनं तदा--C
↩ -
अभिधेयप्रतिपत्तये--टि०
↩ -
अपिशब्दादर्थसन्दर्भे30
- र्भो↩
ऽपि--टि०↩ - र्भो↩
-
काव्यालङ्कारवृत्तौ--काव्यशब्दोऽयं गुणालङ्कारसंस्कृतयोः शब्दार्थयोर्वर्त्तते १. १. इति ।
↩ - ↩
-
अत्र च एवंप्रकारवाक्ये--टि०
↩ - चै↩
-
ननु अभिधेयप्रयोजनाभिधानेपि यावच्छास्त्रस्य सम्बन्धादीनि नोक्तानि तावत्
प्रेक्षावन्तो न तत्र प्रवर्त्तन्ते इत्याह--त36- अ↩
त्रेत्यादि । ननु तथाप्यस्मदुक्तस्य किमुत्तर
मित्याह--अस्मिंश्चार्थे--टि०↩ - अ↩
-
अभिधेयार्थेऽकथितान्यपि सामर्थ्यादुक्तानि भवन्तीत्यर्थः--टि०
↩ -
अभिधेयप्रत्यागते--
↩ - र्श↩
-
पाणिनि टि० ५. २. १२७
↩ -
सर्वपुरुषार्थसिद्धिहेतुः सम्यग्ज्ञानम् । अस्मिन्नर्थे उच्यमाने कथं सम्बन्धादीन्युक्तानि-टि०
↩ -
नन्वादिवाक्ये यथाऽभिधेयप्रयोजनमभिधत्ते एवं सम्बन्धादि किमिति न वक्ति ?
↩
इक्याह--टि० -
यदि साक्षान्न वक्ति कथं तर्हि समर्थं तद्दर्शने इत्याह--टि०
↩ -
अथ वार्त्तिकेन सामर्थ्यलब्धमभिधेयं प्रयोजनं चाह--टि०
↩ - म्र↩
-
व्युत्पाद्यत इति णिच्निर्द्देशात् प्रयोक्तृप्रयोज्यविषयं प्रयोजनं वाच्यमित्याह--टि०
↩ - ↩
-
शास्त्रकर्त्तुः--टि०
↩ - ↩
- ↩
- ↩
- ↩
- ↩
- शे↩
-
ननु यथाऽभिधेयप्रयोजने दर्शिते एवं सम्बन्धादि दर्श्यतामित्याह--टि०
↩ - मनो व्यु↩
-
उक्तान्यभिधे० B.
↩ -
श्रयावुभौ--श्लोकवा०
↩ - ↩
-
अत्रवशब्दो व्याख्यातृणामभिधेयादिप्रकाशने कदाचित् क्रीडाद्यर्थमपि प्रवृत्ति
↩
र्भवतीति--टि० - ↩
- ↩
-
इव १--इत्यादिरूपेण अनर्थसम्भावनाया अनन्तरं संख्याङ्का निर्दिष्टाः B प्रतौ
↩
D प्रतौ च--सं० -
उपायोऽस्ति प्रयो० C
↩ -
भवतु नामैतावद्द्वषणसंभावना को दोष इति चेदाह--टि०
↩ - न्ध↩
-
उक्तेषु त्वाभिधेयादिष्वर्थसं०--E. अभिधेयादिष्वर्थसं० H. P. अभिधेयादिषु
त्त68- तू↩
क्तेष्वर्थसं० B.↩ - तू↩
-
नन्वभिधेयाभिधानेऽप्यनर्थसम्भावनया न प्रवृत्तिर्भविष्यतीत्याह--टि०
↩ - ↩
-
इति तस्मादर्थे--टि०
↩ - तू↩
- न्तर
ग्रन्थः ?↩ - मूस↩
- न्तः↩
- न्नो↩
- त↩
-
अथाविसंवादकमिति कः शब्दार्थ इत्याह--टि०
↩ - ↩
-
ननु प्रदर्शक-प्रवर्त्तक-प्रापकाणि विभिन्नान्येव प्रमाणानि । तत् कथं स्वयं प्रदर्शित
↩
मर्थं ज्ञानं प्रापयदिति सामानाधिकरण्यमित्याशङ्क्याह ॥ यद्वा प्रदर्शक-प्रवर्तक-प्रापकाणि
विभिन्नान्येव प्रमाणानि अभ्युपगम्यन्ते कैश्चिदिति तन्निराकर्तुं प्रवर्त्तक-प्रापकयोस्तावदैवयं
प्रदर्शयन्नाह--टि० -
पाठोऽत्र पश्चाद् वर्धितो दृश्यते किन्तु सूक्ष्मत्वात् न पठ्यते ।
↩ - ब्दप्र↩
-
पाणिनि ३. २. १२६ ।
↩ - ↩
-
यत एव प्रवर्त्तकत्वमेव प्रापकत्व प्रवर्तकत्वमपि प्रवृत्तिविषयप्रदर्शकत्वम्--टि०
↩ -
अत एवार्था० B.
↩ -
यत एव समाप्ता प्रमाणव्यापृतिः--टि०
↩ - ↩
- ↩
- ↩
-
एवं सामान्येनाविसंवादकं सम्यग्ज्ञानं प्रतिपाद्य विशेषेण प्रत्यक्षानुमाने स्वव्यापारं
↩
कुर्वतां सम्यग्ज्ञानं भवत इति दर्शयन्नाह--टि० - ↩
-
अनुभूयते--टि०
↩ -
निश्चितः--टि०
↩ -
लिङ्गदर्शनं लिङ्गजातम् । तच्च वह्न्यव्यभिचारि धूमनिश्चयं ज96
- नयति↩
सामान्येन
साध्याविनाभावित्वस्मरणजातम्--यथा धूमं प्रत्यक्षेण गृहीत्वा सर्वत्रायं वह्निज इति स्मरणं
तस्मात्--टि०↩ - नयति↩
-
विकल्पयत्--टि०
↩ -
तत्पृष्ठभाविना विकल्पेनावसीयते । एतदुक्तं भवति--प्रतिभासमानार्थाध्यवसायं
↩
कुर्वत् प्रत्यक्षप्रमाणं संवादकमित्यर्थः--टि० -
नियतार्थस्य B.
↩ -
शब्दोपमानादिकम्--टि०
↩ - ↩
-
सूक्ष्मत्वात् न पठ्यते ।
↩ - यतस्तु↩
-
शब्दादिना--टि०
↩ - ↩
- ↩
-
अर्थः--टि०
↩ -
०योः तद्व109
- च्च↩
यथा C.↩ - च्च↩
-
अनियतोऽर्थः--टि०
↩ -
मानसविकल्प०--टि०
↩ - ↩
-
लिङ्गम्--टि०
↩ -
सत्त्वासत्त्वयोः--टि०
↩ - षा↩
- वे↩
-
अनियतोर्थः--टि०
↩ - ↩
- ↩
-
इति तद भवति सम्यग्ज्ञानमिति शेषः--टि०
↩ - क्त↩
- ल्प↩
- गतार्था↩
- त्वानियत↩
-
ज्ञानेन--टि०
↩ - ↩
-
ननु च यदि उपदर्शितार्थप्रापणात् प्रमाणं सम्यग्ज्ञानं शुक्लशङ्खे पीतज्ञानं कुञ्चिका
↩
विवरमणिप्रमायां मणिज्ञानम्, अर्धरात्रे मध्याह्नकालग्राहिस्वप्नज्ञानं च प्रमाणमाप्नोति ।
एभिरुपदर्शितार्थस्यार्थमात्रस्य प्राप्तेस्ततश्च सम्यग्ज्ञानमित्याशङ्क्याह--टि० -
अर्थाधिगमात्मकत्वं हि प्रापकत्वमि० C. D. अर्थक्रियासमर्थवस्त्वधिगमात्मकत्वम्--B.
↩ -
प्रापणमि० N.
↩ - शङ्खा↩
- शङ्↩
- ↩
- ↩
-
०अर्धरात्रकालवस्तुनः N. अर्धरात्रः कालो यस्य मध्याह्नकालवस्तुनः टि० ।
↩ - प↩
- ↩
- ↩
- तं↩
-
कथं पूर्वशब्दः कारणे वर्त्तते इत्याह--टि०
↩ - ↩
-
अव्यवहितम्--टि०
↩ - ↩
-
किमनन्तरकारणं ज्ञानं भवति यदपेक्षया व्यवहितस्य ग्रहणार्थं पूर्वग्रहणं
↩
कृतमित्याह--टि० - ↩
- ↩
- ↩
-
ससन्देहाः--टि०
↩ - ↩
- ↩
- ↩
- ↩
-
अर्थहेतुनिबन्धना--टि० ।
↩ - ↩
-
सिद्धिरुच्यते B.
↩ -
अर्थ उपयाच्ञायाम्--धातुपाठ १०. ३७३ ।
↩ -
प्रवृत्तः--D.
↩ - ↩
- ↩
- ↩
-
एवमिति सम्यग्ज्ञानवत्--टि०
↩ -
ततो मिथ्याज्ञानात्--टि०
↩ -
सिद्धेः B
↩ -
सम्यक् न पठ्यते ।
↩ - ↩
- ↩
-
सर्वा सम्य० D.
↩ -
तस्मात् P.
↩ - ↩
-
ननु बहुव्रीहिणा सर्वपुरुषार्थसिद्धिरुच्यते । ततः प्राधान्यात् तच्छब्देन तत्सम्बन्धो
↩
युक्तो न तु ज्ञानस्येत्याह--टि० -
यद्यपि समा० C.
↩ -
एवं मन्यते--विप्रतिपत्तिनिराकरणद्वारेण सम्यग् ज्ञाप्यतेऽनेन प्रकरणेनेति वक्ष्यमाण
↩
लक्षणयुक्तं सम्यग्ज्ञानं नान्यलक्षणयुक्तमिति स्वरूपकथनम् । तामेव विप्रतिपत्तिं क्रमेण
दर्शयति--टि० - ↩
-
द्विविधम्--इति इति नास्ति H.
↩ -
द्वे विधे B.
↩ -
स्मार्यते समयं परः प्रमाणवा० ४. २६७--सं० ।
↩ - स्मा↩
- वे↩
- ण↩
- प्रमारू↩
- ↩
-
ननु सम्यग्ज्ञानलक्षणे कथिते सति पश्चात् तद्भेदः प्रदर्शयितुं युज्यत इत्याह--टि०
↩ -
व्यक्तिभेदे प्रद० A. P. H. E. N. भेदे प्रद० B. व्यक्तिभेदे च दर्शिते D.
↩ - ↩
- ↩
- ध↩
-
नास्ति इति पदं B. P. H. E. N. प्रतिषु किन्तु विद्यते तत्पदं C. D. प्रतयोः ।
↩ - ना↩
- व्यक्ति↩
- चानेनै↩
- य↩
- त्वाधि↩
-
उपसर्ग--टि०
↩ -
ननु चास्यां व्युत्पत्तौ इन्द्रियज्ञानस्यैव प्रत्यक्षशब्दवाच्यता स्याद् न योगिज्ञानादे
↩
रित्याह--टि० -
इन्द्रियज्ञानेऽक्षाश्रितत्वमर्थसाक्षात्कारित्वं च समवेतम्--टि०
↩ -
अनेन त्वलक्षाश्रि० A.
↩ -
एकस्मिन्निन्द्रियज्ञाने--टि०
↩ -
एकार्थसम्बद्धम्--टि०
↩ - ↩
- ब्दा↩
- नत्वा↩
- ↩
-
जातिः--टि०
↩ - ↩
-
गृहीतपक्ष० B.
↩ - द↩
- स्थो↩
- कत्वं↩
- मित्य↩
- ↩
- ↩
-
त्वं विधी० B.
↩ -
ननु प्रत्यक्षस्याद्याप्यसिद्धत्वात् कथमनूद्यत्वं सम्भवतीत्याह--टि०
↩ - प्यं↩
-
ननु च तयोरप्रसिद्धत्वात् प्रत्यक्षस्याप्यप्रसिद्धिरेव, प्रत्यक्षस्यैतत्स्वभावत्वादित्याह--टि०
↩ - ↩
- ↩
-
सर्वासु प्रतिषु कल्पनास्वभावरहितमित्यर्थः इति पाठस्य सत्त्वेऽपि प्रदीपानुसारी
↩
पाठोऽत्र गृहीतः ।--सं० । - ↩
- ↩
-
धर्मोत्तरे सर्वत्र प्रतिषु कल्पनास्वभावरहितम् इत्येव पाठो लभ्यते न तु कल्पनास्व
↩
भावेन रहितम् इति । -
कल्पनाभ्रान्त०--टि०
↩ - ↩
-
प्रमात्रा--टि०
↩ -
गच्छदवृक्षदर्शनम्--टि०
↩ - ता↩
-
०गामी वृक्षः--C.
↩ -
यो देशो यस्य--टि०
↩ -
०प्यते न स दृष्ट इति--C.
↩ - ↩
-
तथेत्यारभ्य विप्रतिपत्तिनिराकरणार्थमित्यन्तः पाठो नास्ति--A. P. E. H.
↩ -
सविकल्पकज्ञानमपि प्रत्यक्षमित्युक्तं मीमांसकैः यथा अस्ति ह्यालोचना मीमांसा
↩
श्लो० प्रत्यक्षसूत्र--श्लो० ११२ इत्यादि । एतस्य विप्रतिपत्तेः--टि० - ↩
-
सामान्ये--टि०
↩ - ↩
-
न किञ्चित् प्रयोजनम्--टि०
↩ - ↩
- ↩
-
ननु न239
- च↩
यद्यपि तस्मिन् ज्ञाने आकारयोर्मिलनं तथापि शब्दार्थयोः संसर्गो
नास्तीत्याह--टि०↩ - च↩
- ↩
- ↩
-
वाच्यरूपत्वेन--टि०
↩ -
०ज्ञानेऽभिधानाभिधेययोः--B.
↩ -
०कारौ निविष्टौ B.
↩ - रा↩
- ↩
- ↩
- ↩
- ↩
- ↩
-
संगृह्यते C.
↩ -
०ग्रहणेन तु C.
↩ -
बालकल्पना--टि०
↩ - ↩
- ↩
- ↩
-
ननु च विकल्पज्ञानस्यानियतप्रतिभासित्वमेव न सिद्धम्--टि०
↩ -
उत्तरमाह--टि०
↩ -
धर्मोत्तरे सर्वप्रतिषु पूर्वदृष्टस्य इति पाठः । किन्त्वत्र प्रदीपानुसारी पाठो
↩
गृहीतः ।--सं० -
धर्मोत्तरे सर्वप्रतिषु पूर्वदृष्टस्य इति पाठः । किन्त्वत्र प्रदीपानुसारी पाठो
↩
गृहीतः ।--सं० - ↩
-
इन्द्रियविज्ञानम्--टि०
↩ -
एतस्य इन्द्रियग्राहिणो ज्ञानस्य--टि०
↩ -
वाच्यवाचकभावसद्भावेऽपि अभिलापसंसृष्टार्थं सद् विज्ञानं सविकल्पकम्, अन्यथा
↩
निर्विकल्पकमित्यर्थः--टि० - ↩
-
तर्हि स्व० B.
↩ -
शब्दादिकं घटादिकं वा--टि०
↩ - ↩
-
ग्रहणकाले--टि०
↩ -
स्मर्यमाणसंकेतस्य--टि०
↩ - ↩
- ↩
-
द्रष्टव्यमिति अध्याहारः--टि०
↩ - तो↩
-
०मिदं भ्रम० B.
↩ - ↩
- ↩
- ↩
- ↩
- ↩
- ↩
- ↩
-
वैभाषिकैः--टि०
↩ - ↩
- लोऽत्र↩
- ↩
-
परैर्दोष० D.
↩ -
अस्पष्टम्--सं०
↩ -
इन्द्रियविज्ञान० B.
↩ - ↩
-
च नास्ति--C.
↩ -
इन्द्रियविज्ञान०--C.
↩ - ↩
-
अत्र प्रदीपसम्मतः--एकार्थक्रियाकारित्वेन इति पाठः ।--सं०
↩ - ↩
- ↩
- ↩
-
स्वविषयानन्तरेत्यादिना--टि०
↩ -
आलम्बनप्रत्ययभूतेनापि A. B. C. D. P. H. E. N. यदा योगिना परस्यै
↩
वंविधज्ञानमालम्ब्यते तदालम्बनभूतेन तेन च योगिज्ञानं जन्यते इति--टि० -
अपिशब्दो भिन्नक्रमे--योगिज्ञानमपि इति--टि०
↩ -
बौद्धानां मते समनन्तरप्रत्ययेति उपादानकारणमुच्यते--टि०
↩ - ↩
- ↩
-
०न्द्रियविज्ञान--C.
↩ - ↩
-
०क्षमुक्तं B--
↩ -
अत्र परस्यायमाशयः--मनोविज्ञानमिन्द्रियसव्यपेक्षम् । अथ चेन्द्रियविज्ञानं308
- ना↩
दन्यो विषयस्तस्य । ततोऽन्धबधिराद्यभावो व्यवहितस्य नीलादेर्ग्रहणं च प्राप्नोतीत्याह
यदेत्यादि । अयमर्थः--यस्मादिन्द्रियविज्ञानविषयोपादेयभूतः क्षण एको गृहीतक्षणो न भवत्यस्य
विषयः, अन्धबधिरादेश्च नेन्द्रियज्ञानविषयसहकारि विद्यते तेन तेषां न मनोविज्ञानं
भवतीत्यर्थः--टि०↩ - ना↩
-
कल्पितः--टि०
↩ - ↩
-
०भूतः क्षण एको गृहीतः D.
↩ -
प्रसङ्गोऽपि निर० D.
↩ - कुष्ठि↩
- ↩
- का↩
-
द्रष्टव्योऽभिधर्मकोषः--पञ्च बाह्या द्विविज्ञेयाः-- १. ४८.
↩ - त्थः↩
-
पङ्क्तिबाह्यं लिखितः पाठो न पठ्यतेऽस्पष्टत्वात्--सं०
↩ - ↩
-
मात्रावग्राहि C.
↩ -
०मात्मसंवे० D.
↩ -
मीमांसकान् प्रति विज्ञानं स्वसंवेदनप्रत्यक्षमुक्तम् । यश्च सांख्योऽपि बाह्यरूपाः
↩
सुखादयः इति मन्यते तं प्रत्याह--टि० । इह रूपादौ D. - ↩
-
०कालं वेद्यते C.
↩ - ↩
- ↩
- ↩
- ↩
- ↩
-
पङ्क्तिबाह्यं लिखितं सम्यक् न पठ्यते--सं०
↩ - द↩
-
सातदिरूप० C.
↩ - ↩
-
सातरूपत्वमनु० D.
↩ -
०स्ति विज्ञा० D.
↩ - ↩
- ↩
- ↩
-
यथावस्थितः--टि०
↩ -
दुःखसमुदयमार्गनिरोधाः । तत्र दुःखं संसारिणः स्कन्धाः । समुदयो रागादिगणः ।
↩
मार्गः क्षणिकत्वभावना । निरोधो मोक्षः ।--टि० - ↩
-
स्फुटाभत्वस्य--टि०
↩ - ↩
-
त्वं प्रक० E.
↩ - ↩
- ↩
- र्ण↩
- ?↩
- कृष्य↩
- प↩
- दे↩
- ↩
-
०ग्राहित्वादस्फुटाभं सविकल्पकम् C. अस्फुटाभम् । अस्फुटा
↩
भत्वात् सविकल्पकं--A. P. अस्फुटाभम् । अस्फुटाभत्वादेव च सवि० D. B. H. E. N. - र्श्व↩
-
शुभचित्तैकाग्र्यम्--टि०
↩ -
यस्यास्तीति स C.
↩ - ↩
- ↩
-
पर्यायग्राह्य इत्यर्थः--टि०
↩ -
अर्थक्रियाकारित्वम्--टि०
↩ - ↩
- ↩
- द्ध↩
- ↩
-
सामान्ये--टि०
↩ - ↩
-
सामान्यग्राहि--टि०
↩ - इत्याह--क्षणस्येति↩
- ↩
-
०सीयते ततश्च स्व० D.
↩ - ↩
- ↩
- रूपे↩
- से↩
- ↩
- ↩
- ↩
-
तान्येव हि स्व० C.
↩ -
पाणिनि २. ३. २१.
↩ -
०क इवाव D.
↩ - ↩
- ↩
- ↩
-
पङिक्तबाह्यं लिखितं न पठ्यते--सं०
↩ -
सामान्यात्--टि०
↩ - ↩
-
विकल्पविषयात्--टि०
↩ - ↩
- ↩
- ↩
-
तस्मात् सामा० B.
↩ -
ततस्तस्मात् सामा० B.
↩ - ने↩
-
बहुव्रीहि--टि०
↩ -
तदेव प्रत्य० C.
↩ - ↩
-
प्रत्यक्षस्य ज्ञान० D.
↩ - ↩
- ↩
-
अत्र पङ्क्तिबाह्यं किञ्चिल्लिखितमस्ति । सूक्ष्मत्वात् न पठ्यते--सं०
↩ - स्य↩
- ↩
- ↩
- ↩
- ↩
- ↩
- मेवे↩
-
ततः सिद्धेः B.
↩ - ↩
-
साधारणत्वाच्चक्षुरादीनाम्--टि०
↩ - ↩
- ↩
-
०ते । सदृशमनुभूयमानं तद्वि० A. B. P. H. E. N. ०ते । सदृशमनुभूय तद्वि० C. D.
↩ -
न च निर्वि० C.
↩ -
रूपत्वं नात्मा० C.
↩ - ↩
-
इतिकरणेनाभ्युपगमस्य स्वरूपं चेत्यनेनाभ्युपगमं दर्शयति । इति पाठोऽष्टम
↩
पंक्तिसम्बद्धत्वेन पक्तिबाह्यभागे लिखितः प्रतौ दृश्यते किन्तु तस्य कुत्र निवेश इति न
ज्ञायते--सं० - ↩
- ↩
- ↩
- ↩
-
प्रमाणमिति न्यायबिन्दुटीकायां प्रथमः परिच्छेदः समाप्तः ॥ मङ्गलमस्तु ॥ A.
↩
प्रमाणमिति आचार्यधर्मोत्तरविरचितायां न्यायबिन्दुटीकायां प्रथमः परिच्छेदः समाप्तः । C. - त्यन्तेन↩