456

अथाश्रयिसमवायादृतेऽपि कार्यं स्वेनैवास्तित्वेनोत्पन्नमाश्रयो भवति खपुष्प
वैधर्म्येण, एवं तर्हि तस्य स्वत एव सतः किं तदतिरिक्तसत्तासम्बन्धकल्पनया प्रयोज
नम् ? कार्यखपुष्पयोराश्रयकृतविशेषाभावो वा । यद्यसत् सद् भवति, विशेषहेतु
र्वक्तव्यः--खपुष्पं कस्मान्नोत्पद्यते ? घटादि कस्मादुत्पद्यते ?


अथोच्येत--कारणवदकारणविशेषात् । यद्यकारणं नोत्पद्यते तत्पुरुषवाच्यं
ततः कार्यं नोत्पद्यत एव कारणमेवोत्पद्यते इति स एव कारणवादः परिगृहीतः
स्यात् । अथ बहुव्रीहिसमासाश्रयणम्, तन्नोत्पद्यतेऽविद्यमानकारणत्वाद् घटवत्;


स्वयमसतः कार्यस्याश्रयत्वाभावात् खपुष्पमुत्पन्नमाश्र4926यन्त्वाश्रयिण इत्यहो परमता4927किङ्करत्वं भवतामिति ।
4928त्तायाः समवायाभावे च कुतः कार्योत्पत्तिः ? इति ।


अथाश्रयीत्यादि । अ4929थैतस्मात् खपुष्पतुल्यत्वापत्तिदोषभयात् सत्ताया आश्रयिण्याः समवायादृतेऽपि
सत् कार्यं तदाश्रयभूतं स्वेनैवास्तित्वेन स्वभावसत्तयैवोत्पन्नमाश्रयो भवति कदाचिदप्यनुत्पत्स्यमानस्य
खपुष्पस्य वैधर्म्येणेतीष्यते, तत एवं तर्हीत्यादि, इष्यत एवैतदस्माभिः स्वेनैव महिम्ना तत् सत् इति,
न तु त्वया । त्वया चैवमस्माभिरिवेष्यमाणे खरविषाणाद्यसद्विलक्षणस्य तस्य कार्यस्य स्वत एव सतः किं
तदतिरिक्तसत्तासम्बन्धकल्पनया प्रयोजनम् ?
न किञ्चित् तेन कल्पितेनेत्यर्थः, सत्तासम्बन्धानर्थक्यम्,
अतः सर्वद्रव्यगुणकर्मादिकारणसमवायिकार्यसंसर्गवादो निवर्तते तस्मादेव । तदनिष्टानभ्युपगमे यो मया
३१६-२ प्रागुक्तः कार्यखपुष्पयोराश्रयकृतविशेषाभावो वा, तत्र तु4930ल्ये तयोरसत्त्वे कार्यमेवोत्पद्यते खपुष्पमेव
नोत्पद्यत इति को विशेषहेतुः ? तद्व्यक्तिः --यद्यसदित्यादि गतार्थं यावद् घटादि कस्मादुत्पद्यत इति,
इत्यतः कार्यखपुष्पयोरविशेषदोषस्तदवस्थः ।


अथान्यथैतद्दोषपरिहारार्थमुच्येत--कारणवदकारणविशेषात्, यथासङ्ख्यं सकारणं घटादि
खपुष्पमकारणमित्यस्ति विशेषः, कारणैः समवाय्यसमवायिभिर्घटा4931दि सम्बध्यते न तु खपुष्पादीति । स
एव स्वाभिप्रायं विवृणोति --यद्यकारणं नोत्पद्यते तत्पुरुषवा4932च्यमिति न भवति कारणमित्यकारणम्
इत्थं तत्पुरुषसमासश्चेदिष्टः ततः कार्यं नोत्पद्यत एव कारणमेवोत्पद्यते, तस्यैव विधिविध्यादिप्राच्य
नयदर्शनात् कार्यतयोत्पादात् स एव कारणवादः परिगृहीतः स्यात्, स च मया नेष्टः । तस्मात्
तत्पुरुषे नैव विचारः कार्यः । अथ यस्य न कारणं तदकारणमिति बहुव्रीहिस4933मासाश्रयणं तन्नोत्पद्यते
कार्यं तस्यां बहुव्रीहिकल्पनायामविद्यमानकारणत्वात् खपुष्पवत् । घटवदिति वैधर्म्यम्, यथा घट उत्पद्यते
न तथेति । ततः किम् ? ततोऽनुत्पन्नत्वात् तदनाश्रयः सत्तायाः, सत्तानाश्रयत्वात् तत्सम्बन्धाभावाच्च न

  1. ॰श्रयंत्याश्रयिण प्र॰ ॥

  2. ॰किंकत्वंभा॰परमतकिङ्करत्वं ?

  3. सत्ताया प्र॰ ॥

  4. अथैव तस्मात् प्र॰ । अथ वैतस्मात् ?

  5. तुल्ये जयो॰ प्र॰ । तुल्येऽनयो॰ ?

  6. ॰टादिभि सम्ब॰पा॰डे॰ भा॰॰टादिभिः सम्ब॰ रं॰ वि॰॰टादि अभिसम्ब॰ ?

  7. ॰वाच्यं इतिभा॰॰वाच्य इति य॰॰वाक्यमिति ? ॰वाक्ये इति ?

  8. ॰समाश्रयणं प्र॰ । दृश्यतां पृ॰ ३२०-- १ ॥