अध्यायः 038
अथ पुत्रदर्शनपर्व ॥ 2 ॥
धृतराष्ट्रेण पुत्रदर्शनानन्तरं युधिष्ठिरादिभिः सह पुनः
स्वाश्रमंप्रत्यागमनम् ॥ 1 ॥ व्यासेन धृताष्ट्रंप्रति युधिष्ठिरादीनां
नगरप्रस्थापनचोदना ॥ 2 ॥ नगरंप्रति पुनरागमनमनिच्छतापि युधिष्ठिरेण
धृतराष्ट्रस्य कुन्तीगान्धार्योश्च निदेशनिर्बन्धेन पुनः सर्वैःसह हास्तिनपुरं
प्रत्यागमनम् ॥ 3 ॥
जनमेजय उवाच ।
दृष्ट्वा पुत्रांस्तथा पौत्रान्सानुबन्धाञ्जनाधिपः ।
धृतराष्ट्रः किमकरोद्राजा चैव युधिष्ठिरः ॥
वैशम्पायन उवाच ।
तद्दृष्ट्वा महदाश्चर्यं पुत्राणां दर्शनं पुनः ।
वीतशोकः स राजर्षिः पुनराश्रममागमत् ॥
इतरस्तु जनः सर्वस्ते चैव परमर्षयः ।
प्रतिजग्मुर्यथाकामं धृताराष्ट्राभ्यनुज्ञया ॥
पाण्डवास्तु महात्मानो लघुभूयिष्ठसैनिकाः ।
अनुजग्मुर्महात्मानं सदारास्तं महीपतिम् ॥
तमाश्रमगतं धीमान्ब्रह्मर्षिर्लोकपूजितः ।
द्वैपायनोऽभ्युपागम्य राजानमिदम्नब्रवीत् ॥
धृताष्ट्र महाबाहो शृणु कौरवनन्दन ।
श्रुतास्ते ज्ञानवृद्धानामृषीणां पुण्यकर्मणाम् ॥
अद्धाभिजनवृद्धानां वेदवेदाङ्गवेदिनाम् ।
धर्मज्ञानां पुराणानां वदतां विविधाः कथाः ॥
मा स्म शोके मनः कार्षीर्दिष्टे न व्यथते बुधः ।
श्रुतं देवरहस्यं ते नारदाद्देवदर्शनात् ॥
गतास्ते क्षत्रधर्मेण शस्त्रपूतां गतिं शुभाम् ।
यथा दृष्टास्त्वया पुत्रास्तथा कामविहारिणः ॥
युधिष्ठिरः स्वयं धीमान्भवन्तमनुरुध्यते ।
सहितो भ्रातृभिः सर्वैःइ सदारः ससुहृज्जनः ॥
विसर्जयैनं यात्वेष स्वराज्यमनुशासताम् ।
मासः समधिकस्तेषामतीतो वसतां वने ॥
एतद्धि नित्यं यत्नेन पदं रक्ष्यं नराधिप ।
बहुप्रत्यर्थिकं ह्येतद्राज्यं नाम कुरूद्वह ॥
इत्युक्तः कौरवो राजा व्यासेनामितबुद्धिना ।
युधिष्ठिरमथाहूय वाग्मी वचनमब्रवीत् ॥
अजातशत्रो भद्रं ते शृणु मे भ्रातृभिः सह ।
त्वत्प्रसादान्महीपाल शोको नास्मान्प्रबाधते ॥
रमे चाहं त्वया पुत्र पुरेव गजसाहये ।
नाथेनानुगतो विद्वन्प्रियेषु परिवर्तिना ॥
प्राप्तं पुत्रफलं त्वत्तः प्रीतिर्मे परमा त्वयि ।
न मे मन्युर्महाबाहो गम्यतां मा चिरं कृथाः ॥
भवन्तं चेह संप्रेक्ष्य तपो मे परिहीयते ।
उपयुक्तं शरीरं च त्वां दृष्ट्वा धारितं पुनः ॥
मातरौ ते तथैवेमे शीर्णपर्णकृताशने ।
मम तुल्यव्रते पुत्र न चिरं वर्तयिष्यतः ॥
दुर्योधनप्रभृतयो दृष्टा लोकान्तरं गताः ।
व्यासस्य तपसो वीर्याद्भवतश्च समागमात् ॥
प्रयोजनं चिरं वृत्तं जीवितस्य ममानघ ।
उग्रं तपः समास्थास्येत्वमनुज्ञातुमर्हसि ॥
त्वय्यद्य पिण्डः कीर्तिश्च कुलं चेदं प्रतिष्ठितम् ।
श्वोवाऽद्य वा महाबाहो गम्यतां माचिरं कृथाः ॥
राजनीतिः सुबहुशः श्रुता ते भरतर्षभ ।
संदेष्टव्यं न पश्यामि कृतमेतावता विभो ॥
वैशम्पायन उवाच ।
इत्युक्तवचनं तं तु नृपो राजानमब्रवीत् ।
न मामर्हसि धर्मज्ञ परित्यक्तुमनागसम् ॥
कामं गच्छन्तु मे सर्वे भ्रातरोऽनुचरास्तथा ।
भवन्तमहमन्विष्ये मातरौ च यतव्रतः ॥
तमुवाचाथ गान्धारी मैवं पुत्र शृणुष्व च ।
त्वय्यधीनं कुरुकुलं पिण्डश्च श्वशुरस्य मे ॥
गम्यतां पुत्र पर्याप्तमेतावत्पूजिता वयम् ।
राजा यदाह तत्कार्यं त्वया पुत्र पितुर्वचः ॥
वैशम्पायन उवाच ।
इत्युक्तः स तु गान्धार्या कुन्तीमिदमभाषत ।
स्नेहबाष्पाकुले नेत्रे परिमृज्य विनीतवत् ॥
विसर्जयति मां राजा गान्धारी च यशस्विनी ।
भवत्यां बद्धचित्तस्तु कथं यास्यामि दुःखितः ॥
न चोत्सहे तपोविघ्नं कर्तुं ते धर्मचारिणि ।
तपसो हि परं नास्ति तपसा विन्दते महत् ॥
ममापि न तथा राज्ञि राज्ये बुद्धिर्यथा पुरा ।
तपस्येवानुरक्तं मे मनः सर्वात्मना तथा ॥
शून्येयं च मही कृत्स्ना न मे प्रीतिकरी शुभे ।
बान्धवा नः परिक्षीणा बलं नो न यथा पुरा ॥
पाञ्चालाः सुभृशं क्षीणाः कन्यामात्रावशेषिताः ।
न तेषां कुलकर्तारं कञ्चित्पश्याम्यहं शुभे ॥
सर्वे हि भस्मासान्नीतास्ते द्रोणेन रणाजिरे ।
अवशिष्टाश्च निहता द्रोणपुत्रेण वै निशि ।
चेदयश्चैव मत्स्याश्च दृष्टपूर्वास्तथैव नः ॥
केवलं वृष्णिचक्रं च वासुदेवपरिग्रहात् ।
यद््दृष्ट्वा स्थातुमिच्छामि धर्मार्थं नार्थहेतुतः ॥
शिवेन पश्य नः सर्वान्दुर्लभं तव दर्शनम् ।
भविष्यत्यंब राजा हि तीव्रं चारप्स्यते तपः ॥
एतच्छ्रुत्वा महाबाहुः सहदेवो युधांपतिः ।
युधिष्ठिरमुवाचेदं बाष्पव्याकुललोचनः ॥
नोत्सहेऽहं परित्यक्तुं मातरं भरतर्षभ ।
प्रतियातु भवान्क्षिप्रं तपस्तप्स्याम्यहं वने ॥
इहैव शोषयिष्यामि तपसेदं कलेवरम् ।
पादशुश्रूषणेरक्तो राज्ञो मात्रोस्तथाऽनयोः ॥
तमुवाच ततः कुन्ती परिष्वज्य महाभुजम् ।
गम्यतां पुत्र मैवं त्वं वोचः कुरु वचो मम ॥
आगमा वः शिवाः सन्तु स्वस्था भवत पुत्रकाः ।
उपरोधो भवेदेवमस्माकं तपसः कृते ॥
त्वत्स्नेहपाशबद्धा च हीयेयं तपसः परात् ।
तस्मात्पुत्रक गच्छ त्वं शिष्टमल्पं च नः प्रभो ॥
एवं संस्तंभितं वाक्यैः कुन्त्या बहुविधैर्मनः ।
सहदेवस्य राजेन्द्र राज्ञश्चैव विशेषतः ॥
ते मात्रा समनुज्ञाता राज्ञा च कुरुपुङ्गवाः ।
अभिवाद्य कुरुश्रेष्ठमामन्त्रयितुमारभन् ॥
युधिष्ठिर उवाच ।
राज्यं प्रति गमिष्यामः शिवेन प्रतिनन्दितः ।
अनुज्ञातास्त्वया राजन्गमिष्यामो विकल्मषाः ॥
एवमुक्तः स राजर्षिर्धर्मराज्ञा महात्मना ।
अनुयज्ञे जयाशीर्भिः पूजयित्वा युधिष्ठिरम् ॥
भीमं च बलिनां श्रेष्ठं सान्त्वयामास पार्थिवः ।
स चास्य सम्यङ्मेधावी प्रत्यपद्यत वीर्यवान् ॥
अर्जुनं च समाश्लिष्य यंमौ च भरतर्षभौ ।
अनुयज्ञे स कौरव्यः परिष्वज्याभिनन्द्य च ॥
गान्धार्या चाभ्यनुज्ञाताः कृतपादाभिवादनाः ।
जनन्या समुपाघ्राताः परिष्वक्ताश्च ते नृपम् ॥
चक्रुः प्रदक्षिणं सर्वे वत्सा इव निवारणे ।
पुनः पुनर्निरीक्षन्तः प्रचक्रुस्ते प्रदक्षिणम् ॥
द्रौपदीप्रमुखाश्चैव सर्वाः कौरवयोषितः ।
न्यायतः श्वशुरे वृत्तिं प्रयुज्य प्रययुस्ततः ॥
श्वश्रूभ्यां समनुज्ञाताः परिष्वज्याभिनन्दिताः ॥
संदिष्टाश्चेतिकर्तव्यं प्रययुर्भर्तृभिः सह ॥
ततः प्रजज्ञे निनदः सूतानां युज्यतामिति ।
उष्ट्राणां क्रोशतां चापि हयानां हेषतामपि ॥
ततो युधिष्ठिरो राजा सदारः सहसैनिकः ।
नगरं हास्तिनपुरं पुनरायात्सबान्धवः ॥ ॥
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि पुत्रदर्शनपर्वणि अष्टत्रिंशोऽध्यायः ॥ 38 ॥ ॥ समाप्तं चेदं पुत्रदर्शनपर्व ॥ 2 ॥
7-38-12 बहवः प्रत्यर्थिनः प्रार्थयानाः शत्रवो यत्र तत् ॥ 7-38-15 नाथेन त्वया ॥ 7-38-24 अन्विष्ये सेविष्ये ॥ 7-38-32 कथामात्रावशेषिता
इति झ.पाठः ॥ 7-38-35 अविषह्यं च राजा हीति झ.पाठः ॥ 7-38-41 श्रेयसः परादीति
क.ट.पाठः । शिष्ठमायुरिति शेषः ॥ 7-38-49 निवारणे स्तनपानादिति शेषः ॥ 7-38-50
तथैव द्रौपदी भद्रा पाण्ड्यजा भुजगेन्द्रजेति क.ठ.थ.पाठः ॥
श्रीः