सप्तमः निक्षेपपरिच्छेदः ।
-
–प्रौढमेयप्र– ब॰ ।
↩ - ↩
-
व्याख्या–पुनरपि कथभूत ? तपोनिर्जीर्णकर्मा, तपसा यथाख्यातचारित्रलक्षणेन
↩
व्युपरतक्रियानिवृत्तिशुक्लध्यानेन निर्जीर्णानि निर्मूलितानि कर्माणि ज्ञानावरणादीनि द्रव्यभावरूपाणि
येनासौ तथोक्त । अनेन चारित्रतपस्याराधनाद्वय सूचितम् । भूय किंभूत ? जीवस्थानगुणस्थान
मार्गणास्थानतत्त्ववित् अनेन ज्ञानाराधना ज्ञापि>ता । पुन किंविशिष्ट ? विवृद्धाभिनिवेशन, विशेषेण
वृद्ध क्षायिकस्वरूपेण परिणतमभिनिवेशन सम्यग्दर्शन यस्यासौ तथोक्त । अनेन दर्शनाराधना निरूपिता ।
एवमाराधनाचतुष्टयस्यैव मोक्षमार्गत्वोपपत्ते । किं कृत्वा विवृद्धाभिनिवेशन सजात इत्याशक्याह–
अनुयुज्य पृष्ट्वा । कानि ? द्रव्याणि । किंविशिष्टानि ? जीवादीनि । कै ? अनुयोगैश्च प्रश्नैरेव । किं
विशिष्टै ? निर्देशादिभिदा गतैः । तत्र किमित्यनुयोगे वस्तुस्वरूपकथन निर्देश यथा चेतनालक्षणो
जीव इति । कस्येत्यनुयोगे स्वस्येत्याधिपत्यकथन स्वामित्वम् । केनेति प्रश्ने स्वेनेति करणनिरूपण
साधनम् । कस्मिन्नित्यनुयोगे स्वस्मिन्नित्याधारप्रतिपादनमधिकरणम् । कियच्चिरमिति प्रश्ने अनन्त
कालमिति कालप्ररूपण स्थिति । कतिविध इत्यनुयोगे चैतन्यसामान्यादेकविध इति प्रकारकथन विधा
नम् । पूर्वं कृत्वा विरचय्य न्यस्य । कान् ? अर्थवाक्प्रत्ययात्मभेदान्, अर्थश्च वाक् च प्रत्ययश्च
ते आत्मान स्वभावा येषा ते च ते भेदाश्च व्यवहारास्तान् । तत्र अर्थात्मानौ भेदौ द्रव्यभावौ तयोर
र्थधर्मत्वात् । वागात्मको नामव्यवहार । प्रत्ययात्मकश्च स्थापनाव्यवहार तस्य सकल्परूपत्वात् ।
किंविशिष्टास्तान् ? श्रुतार्पितान् श्रुतेन अनेकान्तेन विकल्पितान् । कै ? नयानुगतनिक्षेपै, नयान्
द्रव्यपर्यायविषयाननुगता अनुवृत्ता निक्षेपा न्यासास्तै । किंरूपै ? उपायै कारणैः । क्व ? भेदवेदने
मुख्यामुख्यविशेषनिर्णये कारणभेदैरित्यर्थ । आदौ किं कृत्वा ? परीक्ष्य विचार्य । कै परीक्ष्य ? अभिस
धिभि ज्ञातुरभिप्रायै नयैरित्यर्थ । पूर्वं किं कृत्वा ? अधिगम्य ज्ञात्वा । कमर्थम् ? जीवादिप्रमेयम् ।
किंविशिष्टम् ? अनेकान्तात्मकम् । कस्मात् ? श्रुतात् स्याद्वादात् । –लघी॰ ता॰ पृ॰ ९५–९७ । -
–मभिग– ब॰ ।
↩ - ↩
-
विचार्यार्थवाक्– श्र॰ ।
↩ -
–भेदाच्छ्रुता– ब॰ ।
↩