268 ईदृशमर्धान्तादिगोचरमसन्धानम् अज्ञातं न्यङ्गमस्मिन्निति अज्ञातन्यङ्गमविदितदोषम् अदुष्टं ज्ञातं प्राज्ञैः शिष्टैरिति यावत् ।
अद्रिः मलयपर्वतादिः । वनं कालिङ्गादि । राष्ट्रं दक्षिणापथादिकम् । आदिशब्देन नदीधन्वादिपरिग्रहः । स तादृशो देशो विज्ञायते । रात्रिर्दिवा च रात्रिंदिवम् । ऋतवश्च प्रावृडादयः षडिति रात्रिंदिवर्तवः कालविशेषत्वात् कालः सामान्येन विज्ञायते । नृत्यं ताण्डवं लास्यं च । नानारसभावाभिनयाङ्गहारादिरूपं गीतं ज्ञेयम् । तच्च