गोनासायेति । ननूत्पातेनाविष्टेन यज्ज्ञाप्यते तत्र चतुर्थीति लक्षणमेवास्या वाच्यं प्रतिभाति, नैतत् । लक्ष्यलक्षणभावोऽसावभिधीयते न तु लक्ष्ये . . . . . । ततश्च यतो विधीयते तस्य लक्षणीयतामर्थादितरस्य लक्षणतां बोधयतीति । अगदरजःप्रभृतयस्तु कथममङ्गलरूपा इत्यवशिष्यते । तत्राह—अत्र गौर्या इत्यादि । ननु तथापि लक्षणवाचिन एव चतुर्थीति कथमवसितभित्यत आह—ततश्चेति । यथा तादर्थ्यस्योभयनिष्ठत्वेऽपि कङ्कणाय कनकमित्यत्र कार्यवाचिन एव चतुर्थी न तु कारणवाचिनः, तथेहापि संबन्धस्योभयाश्रयत्वेऽपि लक्ष्यवाचिन एव चतुर्थी नतु लक्षणवाचिन इत्यर्थः । तर्हि तृतीया कथं न भवतीत्यत आह—एकयैव चेति । संबन्धस्य संबन्धिनावेव विशेषस्तेन लक्षणमपि चतुर्थ्येव प्रतिपादयत्यत आह—उक्तार्थत्वात्कथं तृतीया न भवतीति शुद्धप्रातिपदिकार्थाभिधाने प्रथमेति भावः ॥