अत्र कमलमनम्भंसि कमले कुवलयमेतानि कनकलतिकायाम् इत्यन्यधर्माणामन्यत्रारोपणं समाधिः, सा च सुकुमारसुभगेत्युत्पातपरम्परा केयमित्यश्लीलामङ्गलार्थौ दोषगुणावपि, श्लाध्यविशेषगुणयोग उदात्त-724 त्वम्, विकटबन्धत्वमुदारता, उपक्रमाभेदो रीतिः, 1582अर्थप्राकट्यं प्रसादः, अनिष्ठुरता सौकुमार्यम्, 1583अभीष्टतमता प्रेयः, दीप्तरसत्वं कान्तिरिति गुणा दश, रसास्तु रत्युत्कर्षहर्षधृत्युत्कण्ठावेगविस्मय1584मतिवितर्कचिन्ताचपलताहासोत्साहस्तम्भगद्गदोन्माद1585व्रीडावहित्थभयशङ्काः विंशतिर्वागारम्भानुभावे श्रृङ्गारिणः प्रियाचाटुकारस्य कस्यचित्प्रतीयन्त इति रसाधिकः ॥