234 ईर्ष्यामानः पुनः स्त्रीणामेव नायिकान्तरसङ्गिनि स्वकान्ते उपलब्धे सति । अन्यासङ्गस्तु श्रुतो वानुमितो वा दृष्टो वा स्यात् । तत्र श्रवणं सखीवचनात्, तस्या विश्वास्यत्वात् । यथा ममैव—1107

सुभ्रूस्त्वं नवनीतकल्पहृदया केनापि दुर्मन्त्रिणा मिथ्यैव प्रियकारिणा मधुमुखेनास्मासु चण्डीकृता ।
किं त्वेतद् विमुश क्षणं प्रणयिनामेणाक्षि कस्ते हेतः किं धात्रीतनया वयं किमु सखी किं वा किमस्मत्सुहृत् ॥

प्रणयिनः प्रणयिनीप्रसादनपरं वाक्यं 1108सुभ्रूस्त्वमित्यादि ।

1109उत्स्वप्नायितो यथा रुद्रस्य—

निर्मग्नेन मयाम्भसि स्मरभरादाली समालिङ्गिता केनालीकमिदं तवाद्य कथितं राधे मुधा ताम्यसि ।
इत्युत्स्वप्नपरंपरासु शयते श्रुत्वा वचः शार्ङ्गिणः सव्याजं शिथिलीकृतः कमलया कण्ठग्रहः पातु वः ॥

भोगाङ्कानुमितो यथा—

नवनखपदमङ्गं गोपयस्यंशुकेन स्थगयसि पुनरोष्ठं पाणिना दन्तदष्टम् ।
प्रतिदिशमपरस्त्रीसङ्गशंसी विसर्प- न्नवपरिमलगन्धः केन शक्यो वरीतुम् ॥1110

गोत्रस्खलनकल्पितो यथा—

केलीगोत्तक्खलणे वि कुप्पए केअवं अआणंती ।
1111दुद्दमस्स मुसा परिहासं जाआ सच्चं चिअ परुण्णा ॥

  1. A.T.A. seems to read subhrūs tvam. N.S.P. subhru tvam.

  2. M.G.T. and Tri.MS. read with long ū (subhrūs tvam). It seems also the reading in A.T.A. N.S.P. gives subhru tvam.

  3. N.S.P. vṛttyaṅgaiḥ.

  4. शिशु॰ ११ । ३४
  5. A.T.A. seems to read duddamamusaparihāsa. But according to Bh.Nṛ’s chāyā I chose the reading given here. N.S.P. gives duṭṭha uasu, with chāyā as duṣṭa paśya. The first foot of this verse occurs in a verse quoted in Sarasvatīkaṇṭhābharaṇa.