184 यथा वीरचरिते—

मुनिरयमथ वीरस्तादृशस्तत्प्रियं मे विरमतु परिकम्पः कातरे क्षत्रियासि ।
तपसि विततकीर्तेर्दर्पकण्डूलदोष्णः परिचरणसमर्थो राघवः क्षत्रियोऽहम् ॥853

यथा वा तत्रैव—

ब्राह्मणातिक्रमत्यागो भवतामेव भूतये ।
जामदग्न्यश्च वो मित्रमन्यथा दुर्मनायते ॥854

अथ स्मृतिः—

सदृशज्ञानचिन्ताद्यैः संस्कारात् स्मृतिरत्र च ।
ज्ञातत्वेनार्थभासिन्यां भ्रूसमुन्नमनादयः ॥ २० ॥

यथा—

मैनाकः किमयं रुणद्धि गगने मन्मार्गमव्याहतं शक्तिस्तस्य कुतः स वज्रपतनाद् भीतो महेन्द्रादपि ।
तार्क्ष्यः सोऽपि समं निजेन विभुना जानाति मां रावणं हा ज्ञातं स जटायुरेष जरसा क्लिष्टो वधं वाञ्छति ॥855

यथा वा मालतीमाधवे—

माधवः

मम हि प्राक्तनोपलम्भसंभावितात्मजन्मनः संस्कारस्यानवरतप्रबोधात् प्रतायमानस्तद्विसदृशैः प्रत्ययान्तरैरतिरस्कृतप्रवाहः प्रियतमास्मृतिप्रत्ययोत्पत्तिसंतानस्तन्मयमिव करोति वृत्तिसारूप्यत- श्चैतन्यम् ।

  1. २।२७
  2. २।१०
  3. हनु॰ ना॰ ४।९