85

जनितेन त्वध्यवसायेन सारूप्यवशान्नीलबोधरूपे ज्ञाने 419व्यवस्थाप्यमाने सारूप्यं व्यव
स्थापनहेतुत्वात् प्रमाणं सिद्धं भवति ।


यद्येवमध्यवसायसहितमेव प्रत्यक्षं प्रमाणं स्यात् न केवलमिति चेत् । नैतदेवम् ।
यस्मात् प्रत्यक्षबलोत्पन्नेनाध्यवसायेन 420दृश्यत्वेनार्थोऽवसीयते नोत्प्रेक्षितत्वेन । दर्शनञ्चार्थ
साक्षात्करणाख्यं प्रत्यक्षव्यापारः । उत्प्रेक्षणं तु421 विकल्पव्यापारः । तथाहि परोक्षमर्थं


येनाभिप्रायेण निश्चयप्रत्ययस्य व्यवस्थापकत्वमुक्तं तमभिव्यनक्ति--न त्विति । तुर्निश्चया
त्प्रत्यक्षं भेदवद् दर्शयति । अवस्थापनाऽशक्तौ हेतुमाह--निर्विकल्पकत्वादिति ।


ननु परमार्थतो यदि तज्ज्ञानं नीलमेव रूपतया सरूपं तदा तथानिश्चयो भवतु वा मा
वा । स्वयमेवाविकल्पकत्वेऽपि तेन रूपेण सद्व्यवहारगोचरो भविष्यतीत्याशङ्क्याह—
निश्चयप्रत्ययेनेत्यादि । निश्चयप्रत्ययेनानुरूपेण । अननुरूपेणाक्षणिकविकल्पेनावस्थापितस्यापि
क्षणिकबोधस्य सद्व्यवहारस्य योग्यत्वात् । तेनाव्यवस्थापितमसत्कल्पमसत्तुल्यम् स्वविषये
व्यवहारयितुमशक्तत्वा36b त् । गच्छत्तृणज्ञानादिवत् ।


तस्मादित्यादिनाऽमुमर्थमुपसंहरति । यस्मान्निश्चयेन तथाऽव्यवस्थापितमसता सदृशं
भवति तस्मात् । नीलबोधात्मना नीलस्यायं बोध इत्याकारेण सद् भवति सद्व्यवहारयोग्यं
भवति । यस्मात्स्वसामर्थ्योत्पन्नेनानुरूपेण निश्चयप्रत्ययेन व्यवस्थापितं तथा भवति नान्यथा
तस्मात्कारणादध्यवसायमनुरूपं निश्चयं कुर्वत् । एवकारेणाऽकरणावस्थायाः प्रमाणव्यवहारं
निरस्यति । अमुमेवार्थं व्यतिरेकमुखेन द्रढयन्नाह--अकृते त्विति । तुः करणावस्थां भेदवतीमाह ।


भवतु तथाऽव्यवस्थापितं किमत इत्याह--तथा चेति । तस्मिंश्च तेनात्मनाऽव्यवस्था
पनप्रकारे सति । तदनिष्पत्तावपि किं न प्रमाणमित्याह--अत इति । अतोऽधिगतिक्रियायाः
फलभूताया अनिष्पत्तेः । साधकतमत्वाभाव इति वाक्यभेदः । तस्मात्साधकतमत्वाभावात् ।
अर्थाधिगमलक्षणप्रमाणसिद्धौ हि साधकतमं प्रमाणमुच्यते । सा चेन्न निष्पन्ना तर्हि किमपेक्ष्य
साधकतमत्वमात्मसात्कुर्यात्, येन तज्ज्ञानं प्रामाण्यमश्नुवीतेति समुदायार्थः ।


ननु अवसायाभावे तावदियं गतिस्तद्भावेऽपि यद्येषैव गतिस्तदा न प्रत्यक्षं नाम प्रमाण
मित्याशङ्क्यान्वयमुखेनेदानीमाह--जनितेनेति । तुरजननावस्थाया जननावस्थां भेदवतीं
दर्शयति । तेन तथाव्यवस्थाप्यमाने व्यवस्थापकत्वे च निमित्तमाह--सारूप्यवशादिति ।
सिद्धं
प्रतीतं भवति ।


यदि प्रत्यक्षं केवलमसहायं प्रवर्त्तयितुमनीशानं नियमेन निश्चयमपेक्षते तर्हि तत्सहितमेव
प्रमाणं प्रसज्येतेत्यभिप्रायवान् प्राह--यद्येवमिति । एवमनन्तरोक्तं यद्यभ्युपगम्यते तदैवं स्यात् ।
चेदिति पराभ्युपगमं दर्शयति । नेति प्रतिषेधति । एवं सत्येतन्न भवति । हेतुमाह—


  1. ज्ञानेऽवस्था० A. P. H. E. N.

  2. दृष्टत्वेना० A. B. C. D. P. H. E. N.

  3. ०क्षणं विक० A. C. D.