1

ओँ अर्हम्

॥ णमो त्थु णं समणस्स भगव+ओ महावीरस्स ॥


॥ नमः श्री+अन्तरिक्षपार्श्वनाथाय ॥


तार्किकचक्रचक्रवर्ति-प्रवचनप्रभावकाचार्यभगवच्छ्री
मल्लवादिक्षमाश्रमणप्रणीतं
श्रीमत्सिंहसूरिगणिवादिक्षमाश्रमणसन्दृब्धया न्यायागमानुसारिण्या
नयचक्रवालवृत्त्या समलङ्कृतं द्वादशारं
नयचक्रम् ।
टीकान्तर्गतप्रतीकाद्यनुसारेण सङ्कल्पितम्

प्रथमो विध्यरः


न्यायागमानुसारिणी नयचक्रवालवृत्तिः


॥ ओँ नमो वीतरागाय ॥ ऐँ नमः ॥


मूलम्


व्याप्येकस्थमनन्तमन्तवदपि न्यस्तं धियां पाटवे

व्यामोहे न, जगत्प्रतानविसृतिव्यत्यासधीरास्पदम् ।

वाचां भागमतीत्य वाग्विनियतं गम्यं न गम्यं क्वचि

ज्जैनं शासनमूर्जितं जयति तद् द्रव्यार्थ-पर्यायतः ॥

जयति नयचक्रनिर्जितनिःशेषविपक्षचक्रविक्रान्तः ।

श्रीमल्लवादिसूरिर्जिनवचननभस्तलविवस्वान् ॥