115
तस्या अवयव एकदेशोऽसमस्तवृत्तिरन्यथावृत्तित्वात् । लोके हि तदेकदेशवृत्तिता तस्मादन्यत्त्ववस्तु, अलौकिकत्वात्, खकुसुमवत्, व्यतिरेके घटवत् । निबन्धनं चास्य--आता भंते ! णाणे, अण्णाणे ? गोतमा ! णाणे णियमा आता, आता पुण
मृद्घटादिसामान्यविशेषत्वद्रव्यत्वानामिति दिक् ।
सिया णाणे सिया अण्णाणे । भगवतीसू॰ १२ । ३ । ४६७
द्र1492व्यार्थभेदत्वात् । लोकव्यवहारविषयो हि व्यवहारः, तदेकदेशो विधिनयः, तस्माद्द्रव्यार्थभेदः । यथा—
तस्य शब्दार्थव्युत्पत्तिदर्शनार्थमाह --द्रव्यशब्द इति, द्रोरवयवो द्रव्यम् इति व्युत्पादितत्वात् अथ द्रुः
कः ? दु द्रु गतौ पा॰ धा॰ ९४४, ९४५, तत्तुल्यार्थमव्युत्पन्नं प्रातिपदिकम्, द्यु1495द्रुभ्यां मः पा॰
५ । २ । १०८ इति निपातितत्वात्, तस्यार्थो द्रुर्गतिर्यात्रा1496 व्यवहारो लोकस्येति । तस्या यात्राया अवयव८२-१
एकदेश इत्यर्थकथ1497नम् । स एकदेशः क इति चेत्, उच्यते--एकदेशोऽसमस्तवृत्तिरन्यथावृत्तित्वात्,
समस्तलोकव्यवहारविप1498रीतवृत्तित्वान्मिथ्यादृष्टिरित्यर्थः । सा पुनरस्या विधिवृत्तेरेकदेशवृत्तिता कुतः परिच्छि
द्यत इति चेत्, लोकत एव परिच्छिद्यत इत्यर्थः । यस्माल्लोके तदेकदेशवृत्तिता मृद्घटादिसामान्य
विशेषत्वद्रव्यत्वानाम्, मृत् सामान्यम्, घटो विशेषः, मृदः सामान्यं द्रव्यत्वम्, घटविशेषश्छिद्रबुध्न
खण्डौष्ठ-सम्पूर्ण-रक्त-कृष्णतादिः । सर्व एवैषोऽपरित्याज्योऽर्थकलापः समस्तवृत्तौ नयानां य1499थास्वं च
प्रमाणवशाद्व्यवस्थाप्यः । तस्याज्ञानानुविद्धत्वैकान्ताद्वक्ष्यमाणदोषसम्बन्धाच्च लौकिकस्या1500प्यस्याऽयुक्तिः ।
इति परिसमाप्तौ, विधिनयश1501तभेदे दिगिति ।
तस्मादन्यत् त्ववस्तु, अलौकिकत्वात्, खकुसुमवदिति गतार्थम् । अभिप्रायार्थः--स तु
मन्यते 1502लोकोऽलौकिकैकान्तं साङ्ख्यादिपरिकल्पितमवस्त्विति । व्यतिरेके घटवदिति, यद्वस्तु तल्लौकिक
मेव यथा घटः का1503र्यं वा कारणं वा सामान्यं वा विशेषो वा यो वा स वास्तु यथालोकप्रसिद्धि पृथु
बुध्नादिप्रागुक्तसामान्यविशेषभ1504वनात् स च लौकिक इति । व्यतिरेके वैधर्म्ये ।
सर्वनयानां जिनप्रवचनस्यैव निबन्धनत्वात् किमस्य निबन्धनमिति चेत्, उच्यते, निबन्धनं चास्य—
आ1505ता भंते ! णाणे, अण्णाणे ? इति स्वामी गौतमस्वामिना पृष्टो व्याकरोति 1506गोतमा ! णाणे
-
द्रव्यार्थभेदात् प्र॰ ॥
↩ -
॰पग+ईय॰ ॥
↩ -
॰परूपणा॰भा॰ ॥
↩ -
दुद्रुभ्यां प्र॰ ॥
↩ -
॰र्यत्रा प्र॰ ॥
↩ - ↩
-
॰रीतवर्त्तित्वान्मि॰ प्र॰ ॥
↩ - ↩
- ↩
- ↩
-
लोकोकान्तं प्र॰ ॥
↩ -
कार्यं कारणं वाय॰ ॥
↩ -
॰भावनात् प्र॰ । अस्मिन् पाठे तु स्वारस्ये ॰भावितत्वात् इत्यर्थमभिप्रेत्य सङ्गमनीयम् ॥
↩ -
आया भंते नाणे अन्नाणेय॰ ॥
↩ -
गो॰ नाणे नियमा अतोय॰ ॥
↩