117

ओँ अर्हम्

अथ द्वितीयो विधिविध्यरः ।


अयमपि तु विधिवृत्त्येकान्तो विप्रतिषेधादयुक्तः । तद्यदि लोकतत्त्वमज्ञेयमेव
लोकतत्त्वव्यावर्तनं तर्ह्यप्रत्ययमेव । यदि तज्ज्ञानमफलमेव किमिति शास्त्रविहितार्थ-


अयमपि तु विधिवृत्त्येका1510न्तो विप्रतिषेधादयुक्त इति । कः पुनः सम्बन्धः ? स्वविषय
1511म्पातनेनार्थानां भा1512वनात्मभिर्विधिनियमवृ1513त्तिभिर्विदितप्रत्येकत1514त्त्वाभिः समधिगम्या जैनसत्यत्वसाधनवृत्ता
विवक्षितद्वादशविकल्पविशेष1515णैकैव वृत्तिरधिकृतेत्यनन्तरोक्ताया विधिवृत्तेरपि प्रत्येकवृत्ताया मिथ्यादृष्टित्वा
दयमपि तु विधिवृत्त्येकान्तस्त्याज्यः । कस्मात् ? अयुक्तत्वात्, अयुक्तत्वं विप्रतिषेधात् । विरुद्धः1516 प्रतिषेधो
विप्रतिषेधः, सर्वमुक्तं मृषा इति प्रतिषेधवत् । अपिशब्दात् सामान्यविशेषोभयवादैकान्तः प्रथमनयदूषि
तोऽनुमत इत्ययमभिसम्बन्धः ।


कथं विप्रतिषेध इति चेत्, उच्यते--यदुक्तं त्वया 1517र्वमज्ञानानुविद्धमेव ज्ञानम्, न1518
ज्ञानाज्ञानयोः कश्चिद्विशेषोऽस्ति संशयविपर्ययानध्यवसायनिर्णयानामवबोधैकार्थत्वात्, न लोकतत्त्वं
ज्ञातुं शक्यम्, विफ1519लश्च विवेकयत्नः शास्त्रेषु
इति । तद्यदि लोकतत्त्वमज्ञेयमेव सर्वशास्त्र
विहितलोकतत्त्वव्यावर्तनं तर्ह्यप्रत्यय1520मेव
अशक्यप्राप्त्यफलत्वा1521भ्याम्, प्रतिषेधस्य प्रतिषेध्य- आ८३-१
स्वरूपज्ञानविषयत्वाच्च किं त्वयैवेदं 1522विदित्वाऽविदित्वा वा सा1523मान्यविशेषौ स्वविषयौ परविषयौ वा
स्याता
मित्यादि लोकतत्त्वं शास्त्रान्तरेषु कल्पितं दूषितम् ? विदित्वा चेत्, न तर्हि तन्मतं न विदितम् ।
अथाविदित्वा ततः कथं दूषितम् ? इत्युभयथापि न युज्यते प्रतिषेधो विरुद्धत्वात्, प्रतिषिध्यते प्र1524तिषेध्यं
च न ज्ञायत इति हास्यमेतत् । स्यान्मतम्--प्रतिषेध्यं ज्ञायते, 1525तैस्तस्य वस्तुनः सत्त्वादिगुणत्रयात्मक
क्ष1526णसद्रूप-द्रव्यादिषट्वदार्थात्मकादितया बहुधा कल्पितस्यानुपपत्तेरिति । एतदपि विप्रतिषिद्ध1527म्, तेषामपि
मतानां 1528लोकतत्त्वान्तःपातिनां मिथ्याविधिकत्वं ज्ञातमज्ञातं वा स्यात् ? इति तुल्यविकल्पत्वात्, ज्ञाता

  1. ॰कान्तो पिप्रति॰ प्र॰ ॥

  2. ॰संघात॰ प्र॰ ॥

  3. भावानान्मभि॰पा॰डे॰लीं॰रं॰ही॰भावान्नात्मभि॰ वि॰ । दृश्यतां पृ॰ १० पं॰ ५ ॥

  4. ॰वृत्तिभिविदित॰पा॰डे॰लीं॰॰वृत्तिभिरविदित॰ रं॰ ही॰॰वृत्तिभिरनेकान्तविदित॰ वि॰

  5. ॰तत्ताभिःय॰

  6. ॰षेणैकैव प्र॰ ॥

  7. ॰द्धप्रति॰ प्र॰ ॥

  8. दृश्यतां पृ॰ ११३ पं॰ ३ ॥

  9. दृश्यतां पृ॰ ११३ पं॰ ६ ॥

  10. दृश्यतां पृ॰ ११ पं॰ ४ ॥

  11. ॰यमेवमशक्य॰ प्र॰ ॥

  12. ॰त्वाभ्यां प्रतिषेध्यस्वरूप॰य॰

  13. वेदित्वा प्र॰ ॥

  14. दृश्यतां पृ॰ ११ पं॰ ५ ॥

  15. प्रतिषेधं य॰

  16. तैःस्तस्यय॰तेस्य भा॰

  17. ॰क्षणतद्रूप॰य॰॰क्षणद्रूप॰ भा॰

  18. द्धस्तेषामपि य॰॰द्धः षेमपि भा॰

  19. लोकसत्वान्तः॰ प्र॰ ॥