119

उपदेशादेव तज्ज्ञानयोग इति चेत्, न, उभयथापि पौरुषेयत्वाद्वेद-


कालातुरप्रकृतिसात्म्याग्निबलाब1551लवातादिरोगसमुत्थाननिदानादिलक्षणा1552नभिज्ञस्यौषधोपदेशो न घटते तथा
अग्निहोत्रं जुहुयात् स्वर्गकामः इत्याद्युपदेशः । अथवा हिताहितप्राप्तिपरिहारार्थत्वात् सर्वोपदेशानां तद-भ्८३-१
भावात् क्रीडितमेवास्त्वितीदं बा1553लकाहिग्रहणवत् तज्ज्ञानविरहितस्योपदेशश्रवणग्रहणधारणत1554र्कणानुष्ठा1555नादि
अनर्थानुबन्ध्येव स्यादितीदमर्थप्रदर्शनार्थं द्वितीयमुदाहर1556णम् ।


उपदेशादेव तज्ज्ञानयोग इति चेत् । स्यान्मतम्--पुरुषस्यातीन्द्रियार्थद1557र्शनशक्तिशून्यत्वात्
स्वर्गापूर्वकर्मसम्बन्धज्ञाने पू1558र्वविज्ञानकारणाभावाद्वन्ध्याया दौहित्रस्मरणवत् । द्रव्य-गुण-रस-वीर्य-विपाकादि
ज्ञानस्यानुमानं पूर्वविज्ञानकारणं सम्भाव्येत । तस्मादुपदेशादेवाग्निहोत्रकर्मस्वर्गफ1559लाभिसम्बन्धादि
ज्ञानमिति । एतच्चायुक्तम्, उभयथापि पौरुषेयत्वात्, दृष्टादृष्टार्थत्वेनोपदेशज्ञानस्यापि पौरुषेयत्वात्,
ज्ञानतो व1560चनतश्च पुरुषाधीनत्वादिति वा; यथा त्वमतीन्द्रियेष्वर्थेषु पूर्वविज्ञानकारणाभावं मन्यसे पुरुषस्य
पुरुषज्ञानवचनानां तद्विषयाणां चाप्रामाण्यं रागादियोगा1561त्तथा स1562र्वोपदेशस्योपदेष्टृज्ञानस्य1563 श्रोतृज्ञानवचनयोश्च
ज्ञानत्ववचनत्वाभ्यां पौरुषेयत्वानतिवृत्तेर्भारतरामायणादिवदप्रामाण्यम् । अग्निहोत्राद्युपदेशस्यातीन्द्रियार्थस्य
प्रामाण्यवत् साङ्ख्याद्यतीन्द्रियार्थोपदेशप्रामाण्यं वा । वानरमूलिकादिपरिज्ञानव1564त् कस्यचित् किञ्चिद्विषयं
1565त्त्वज्ञानं स्यात्, न तु सर्वौषधादिविषयैकपुरुषज्ञानम्, अतो वैद्यकादिष्वपि पूर्वज्ञानकारणाभावः । तद्विष
यैकपुरुषविज्ञानवद1566तीन्द्रियेन्द्रियग्राह्यसर्वपदार्थविषयैकपुरुषविज्ञानाभ्युपगमो वावश्यम्भावी, किं कारणम् ?
वेदवचनयोरन्यथानुपपत्तेः, पुरुषमन्तरेण वेदनं वेदो ज्ञानमित्यर्थः तेन च ज्ञातस्य वचनं परप्रत्याय1567नंभ्८३-२
तदुभयं प्रत्ययनं प्रत्यायनं च नोपपद्यते, तयोः पुरुषस1568मवायित्वात् । उक्तं च—

रू1569पं निबन्धः सम्बन्धः प्रामाण्यं प्रत्ययः क्रिया ।

शब्दस्य पुरुषाधीना ज्ञानं चानन्यदात्मनः इति ।

  1. ॰बलवतोरोग॰य॰

  2. ॰णाभिज्ञ॰य॰

  3. बालकादिग्र॰य॰

  4. ॰तर्कमानु॰ प्र॰ ॥

  5. ॰ष्वानादिभा॰॰षानादि पा॰ वि॰॰धानादि रं॰ ही॰॰थानादि डे॰ लीं॰

  6. ॰हरणार्थमुपदेशादेव न ज्ञानयोग प्र॰ ॥

  7. ॰दर्शनां शून्यत्वात्य॰

  8. अत्र स्वर्गापूर्वकर्मसम्बन्धज्ञाने वन्ध्याया दौहित्रस्मरणवत् पूर्वविज्ञानकारणाभावात् उपदेशादेव तज्ज्ञानयोगः इत्यर्थमभिप्रेत्य सङ्गमनीयोऽयं पाठः । अन्यथा पूर्वविज्ञानकारणाभावो वन्ध्याया दौहित्रस्मरणवत् इति पाठः स्यात् । धर्मस्य शब्दमूलत्वादशब्दमनपेक्ष्यं स्यात् । १ । ३ । १ । ... ...शब्दलक्षणोऽर्थो धर्म इत्युक्तम्, चोदनालक्षणोऽर्थो धर्म इति, अतो निर्मूलत्वान्नापेक्षितव्यमिति । ननु ये विदुः इत्थमसौ पदार्थः कर्तव्यः इति कथमिव ते वदिष्यन्ति अकर्तव्य एवायम् इति ? स्मरणानुपपत्त्या । न ह्यननुभूतोऽश्रुतो वा पदार्थः स्मर्यते । न चास्य वैदिकस्य अलौकिकस्य च स्मरणमुपपद्यते पूर्वविज्ञानकारणाभावादिति । या हि वन्ध्या स्मरेदिदं मे दौहित्रकृतमिति न मे दुहितास्तीति मत्वा न जातुचिदसौ प्रतीयात् सम्यगेतज्ज्ञानमिति --मी॰ शाबरभा॰ १ । ३ । १ ॥

  9. ॰फलांभिसम्ब॰य॰॰फलादिसम्ब॰ भा॰

  10. वचनश्च प्र॰ ॥

  11. ॰योगास्तथा प्र॰ ॥

  12. सर्वज्ञोप॰ य॰ । अत्र सर्वस्योप॰ इत्यपि पाठः स्यात् ॥

  13. ॰पदेष्टज्ञा॰वि॰ विना॰ । ॰पदिष्टज्ञा॰ वि॰

  14. ॰वत् तस्यत्तद्विषयंय॰

  15. तत्तद्ज्ञानंवि॰तत्त+इज्ञानं पा॰

  16. ॰दतीन्द्रियग्राह्य॰य॰

  17. ॰यनं च तदु॰ य॰

  18. ॰समायित्वात्पा॰डे॰लीं॰वि॰॰सामायित्वात् भा॰

  19. रूपन्निबन्धः प्र॰ ॥