377

ओँ अर्हम्

अथ पञ्चम उभयारः ।


सत्यमेतद् भवतीति भावः इति । किन्त्विदं द्रव्यमेवार्थः इति विरुध्यतेऽ
भ्युपगमेन स्ववचनेन वा तदवयवेन वा, यत् तद् भवति तस्य भावत्वादपि, अतोऽ
न्यथाऽसत्त्वात् खपुष्पवत्, उभयम्--द्रव्यं भावश्च ।


एवमनन्तरनयेनाभिहिते ब्र4204वीत्युत्तरः --सत्यमेतद् यदुच्यते त्वया 4205वतीति भावः इति ।
किन्त्विदं द्र4206व्यमेवार्थः इति विरुध्यते, द्रव्यं च भव्ये
पा॰ ५ । ३ । १०४, द्रवतीति द्रव्यं द्रूयत
इति वा द्रव्यमिति क4207र्तृकर्मसाधनव्युत्पत्तिमात्रभेदे सत्यपि अर्थभेदाभावात् सर्वसर्वात्मकत्वाच्च द्रव्यमेव
पृथिव्यादिव्रीह्यादिभावेन भवति नान्यः कश्चिद्भावोऽस्ति इत्येतदवधारणं विरुध्यते, केन सह विरुध्यते ?
अभ्युपगमेन, यस्मात् त्वयैवाभ्युपगतं विशेषणं द्रव्यं भवतीति भावः इति भवनलक्षणस्य प्रकृत्यर्थस्य
साध्यस्य द्रव्यलक्षणेन प्रत्ययार्थेन साधनेन कर्त्रा विशेषणात् त4208द्द्व्यर्थताभ्युपगतेति, विशेषणविशेष्ययोश्च
भेदात् द्रव्यमेवार्थः इति पूर्वोऽभ्युपगमो विरुध्यते, इतरथा वैयर्थ्यं पौनरुक्त्यं वा स्याद् द्रव्यं भवति२६८-२
इति । अथवा प्रकृष्टकालेनाभ्युपगमेन विरुध्यते इति किं चित्रमा4209यत्याम् ? किन्तु स्ववचनेन वा विरुध्यते
इति वर्तते, वाशब्दस्य विकल्पार्थत्वात् समुच्चयार्थत्वाद्वा अभ्युपगमेन स्ववचनेन च विरुध्यत इति, अत
आह --तदवयवेन वा, भवति इति द्र4210व्यम् इति वा विशेषणविशेष्यभेदानुपादानेऽपि एकस्मिन्नेव पदे
प्रकृतिप्रत्ययार्थभेदोपादानात्, भू4211 सत्तायां प्रकृतिः, ल4212ट्प्रत्ययः कर्तरि, तौ प्र4213कृतिप्रत्ययौ प्रत्ययार्थं सह
ब्रूतः प्रधानोपसर्जनभावेन, यथा राजपुरुषौ पुरुषार्थमिति, तथा द्रव्यमित्यत्रापि द्रु गतौ पा॰ धा॰ ९४५
कृत्यल्युटो बहुलम् पा॰ ३ । ३ । ११३ इति कर्तृकर्माद्यन्यतमसाधने य4214त्प्रत्यये प्रकृतिप्रत्ययभेदा4215भ्युपगमात् ।
किं कारणम् ? यत् तद्भवति तस्य भावत्वादपि, यत् तत् त्वदिष्टं द्रव्यं तद् भावोऽपि क्रियापि, क्रिया
भावः प्रवृत्तिरिति पर्यायाः, भावस्यापि भावात् भवतीति भावः इति व्युत्पत्तेः द्रव्यम् इति भवति इति
च वचनाद् भवनस्य द्रव्याद् भिन्नत्वात् । अतोऽन्यथाऽसत्त्वात्, यदि द्रव्यं भावोऽपि न स्यात्
क्रियापि न स्यात् ततस्तदसत् स्यादभावत्वादक्रियत्वात् खपुष्पवदिति । तस्माद् द्रव्यक्रिययोः सत्त्वाद्
यदुक्तं त्वया द्र4216व्यमात्रमुत्क्षेपणादि इति तदसत् ।


  1. प्रवी॰ प्र॰ ॥

  2. दृश्यतां पृ॰ ३७० पं॰ ३ ॥

  3. दृश्यतां पृ॰ ३७३ पं॰ ६ ॥

  4. दृश्यतां पृ॰ ३७३ पं॰ ३ ॥

  5. तद्व्यर्थ॰ प्र॰ ॥

  6. ॰मायत्यं । प्र॰ ॥

  7. द्रव्यमतीति वा प्र॰ ॥

  8. भू सत्तायाम्--पा॰ धा॰ १ ॥

  9. वर्तमाने लट्--पा॰ ३ । २ । १२३ ॥

  10. दृश्यतां पातञ्जलमहाभाष्ये ३ । १ । ६७ ॥

  11. अचो यत् पा॰ ३ । १ । ९७ ॥

  12. ॰दात् गमात् प्र॰ ॥

  13. दृश्यतां पृ॰ ३६९ पं॰ ४, पृ॰ ३७० पं॰ ८ ॥