738

ओँ अर्हँ


सद्गुरुभ्यो नमः


अथ नवमो नियमारः ।


यदि भेदप्रधानो भावः कथमसौ ? स भवितारमन्तरेण स्वरूपमपि प्राप्तुमसमर्थोऽ
स्वतन्त्रत्वादसन् खपुष्पवत् । तदभावे भेदा एव विप्रकीर्णाः स्युः । ततश्च भेत्तव्याभावाद्
भेदा अपि न भवितुमर्हन्तीति धर्मधर्मिस्वरूपविरोधः । घटादिभेदाभावः, भेत्तव्याभावात्,
गगनोदुम्बरकुसुमवत् । ततश्चात्यन्तनिरुपाख्यत्वात् स्ववचनाभ्युपगमानुमानप्रत्यक्षविरोधा
अपि ।


पृथिवी घटो भवति इत्यत्र यदि विशेष एव भवति तर्हि सामान्यस्याभावे
विशेषोऽपि नास्त्येव । असति च विशेषे कुतः सामान्यस्यासत्प्रधानोपकारिता ?


विधि-नियमसर्वभङ्गवृत्त्यात्मकैक7650तत्त्वाधिकारे वर्तमान उभयनियमभङ्गारदर्शनेऽप्यपरितुष्यत
उत्तरनयस्य नियमभङ्गस्योत्थानम् । तस्मिंस्तु दूषिते स्वमतप्रदर्शनं युक्तमिति तद्दूषणार्थमाह --यदि
भेदप्रधानो भाव
इत्यादि यावद् धर्म-धर्मिस्वरूपविरोधः । यद् भेदो भवति प्राधान्येन, अन्वयोऽ
स्योपसर्जनम्
7651त्युक्तं तत्र तमेवंविधं भावमवधारयामः --कथमसौ ? इति, स त्वयेष्टोऽन्वयो भावो४७७-१
भवितुर्भेदस्य क्रिया भेदातिरेकेण भवितारं कर्तारमन्तरेण स्वरूपमपि प्राप्तुमसमर्थो 7652निश्चयोये ?
कस्मात् ? अस्वतन्त्रत्वादकर्तृत्वादभविता, अभवितृत्वादसन् खपुष्पवत् । तस्य अन्वयस्य भावस्य
अभावे भेदा एव विप्रकीर्णा भेद्यवस्तुरहिताः स्युः । ततश्च भेत्तव्यस्यान्वयस्याभावाद् भेदा अपि
न भवितुमर्हन्ति । 7653भिद्यमानो हि भेदः, कुतो भिद्यतेऽसौ निर्भेद्यत्वात् खपुष्पवदिति भेदाभावाद् धर्म
धर्मिणोः स्वरूपाभावे अन्वयोपसर्जनो भेदप्रधानः शब्दार्थः इत्येतद् वाक्यं निराकृतधर्मधर्मिस्वरूपकं
संवृत्तम् । तदुपसंहृत्य साधनमाह --घटादिभेदाभावः, भेत्तव्याभावात्, गगनोदुम्बरकुसुमवदिति ।
उभयोर्भेत्तृभेत्तव्ययोरभावः, न गगनकुसुमादुदुम्बरकुसुममुदुम्बरकुसुमाद्वा गगनकुसुमं भेत्तृ भेत्तव्यं
वेति दृष्टान्तः, तथा उपसर्जनप्रधानयोः सामान्य-भेदयोरिति दार्ष्टान्तिकोऽर्थः । ततश्चात्यन्तेत्यादि ।
इत्थं निरुपाख्यत्वाच्छून्यत्वापत्तौ स्ववचना-ऽभ्युपगमा-ऽनुमान-प्रत्यक्षविरोधा अपि प्राप्ताः, ते
चानिष्टा इति ।


किञ्चान्यत्, पृथिवी घटो भवति इत्यत्र निर्धार्यम्--किं पृथिवी भवति न घटः, उत घटो
भवति न पृथिवी, उभयं वा भवति, न भवति ? इति । तत्र यदि विशेष एवेत्यादि, सामान्यस्योप
सर्जनस्याभावे 7654विशेषोऽपि नास्त्येवेतीदा7655नीमेवोक्तत्वादसति च घटे विशेषे कुतः सामान्यस्यासतोऽ
7656

  1. ॰कतत्वाधि॰भा॰॰कत्वाधि॰ य॰

  2. दृश्यतां पृ॰ ७३७ पं॰ २ ॥

  3. ऽनिश्चयाय ?निश्चयेन ? ऽनिश्चेयः ?निरुपाख्यः ?

  4. विद्यमानो प्र॰ ॥

  5. ॰विशेषणोवे नास्त्ये॰य॰

  6. पृ॰ ७३८ पं॰ ४ ॥

  7. ॰निरूपणाख्य॰य॰