794

ओँ अर्हँ


सद्गुरुभ्यो नमः


अथैकादशो नियमोभयारः ।


इदमशक्यं श्रोतुमपि यद् यत्तद् रूपादिभवनमेव भाव इति व्यवस्थाप्य वस्तुसंक्रान्ति
प्रतिषेधि नोत्पयत्त्भाव इति वचनम् । अवश्यं हि तैः केनापि प्रकारेण भवितव्यं भावरूपेणा
भावरूपेण वा । तत्र चात्यन्तभवनेन यद् भवनं तद् व्यावर्तितम्, अत उत्पादविनाशेनैवैषां
भवनमव्यावर्तितम्, तद्व्यावर्तनेऽभावता तेषाम् । ननु तैर्यत् तद् भूयते स एव भाव इति
भवतैवोक्तम् ।


ननु तैर्भूयतेऽनुत्पादित्वेनैव । न तर्हि तैर्भूयतेऽनुत्पादविनाशित्वात् खपुष्पवत् वैधर्म्येण
पृथिवी-शिवक-स्तूपकादिवत्, अकालत्वेऽकालत्वात् । उत्पादाद्यनभ्युपगमादकालत्वम् ।


नयचक्रसम्यग्दर्शनाधिकारे प्रत्येकनयस्वरूपपरिज्ञानपूर्वकत्वान्नयचक्रज्ञानस्य अनन्तरनयदर्शने
चापरितोषादुत्तरोत्थानमिति स एव सम्बन्धः, पूर्वस्य दूषणं स्वमतप्रक्रिया च सहोच्यते नियमोभय8191नयेऽ
स्मिन्नित्यत आह --इदमशक्यम् इत्यादि । इदं श्रोतुमप्यशक्यं कुतो वक्तुं स्ववचनादिविरोधात् ?
कतमदशक्यम् ? यद् यत्तदित्यादि, यद् यस्मादित्यर्थः, यत्तदिति वचनमभिसम्बध्यते रूपादिभवन
मेव भाव इति स्वमतं व्यवस्थाप्य वस्तुसङ्क्रान्तिप्रतिषेधि नोत्पत्त्य8192भाव इति ।


कथं पुनरेतदशक्यम् ? इत्यत आह --अवश्यं हीत्यादि । तैरवश्यं हि रूपादिभिः केनापि प्रकारेण
भवितव्यं भावरूपेणाभावरूपेण वा अत एव त्वद्वचनात् हिशब्दस्य वचनहेत्वर्थत्वात् । तदवधारयितु
माह --तत्र चेत्यादि, तयोश्च भावाभावयोरत्यन्तभवनेन यद् भवनं तद् व्यावर्तितं द्रव्यार्थिकमतमेषु
पर्यवास्तिकनयेषु, अतो भवनव्यावर्तनाद् भावरूपेण भवनाभावात परिशषादुत्पादविना8193शेनैवैषां
रूपादीनां भवनमव्यावर्त्तं र्तितम् । किं कारणम् ? यस्मात् तद्व्यावर्तनेऽभावता तेषां रूपादीना
मुत्पाद-विनाशरूपेणापि भवने व्यावर्तिते खपुष्पवदभावता स्यात्, तद्धि केनचिद्रूपेणाभवनादत्यन्तासत्,
तथा मा भूदित्युत्पाद-विनाशरूपं भव8194नमिष्टं त्वयापीति तद्दर्श्यते --ननु 8195तैर्यत्तद् भूयते स एव भाव५१३-१
इति भवतैवोक्तं
जन्मभङ्गभवनाभ्युपगमात् ।


इतर आह --ननु तैर्भूयतेऽनुत्पादित्वेनैवेति मयोक्तत्वादयुक्तमिति । अत्रोच्यते --न तर्हि
तैर्भूयते, 8196अनुत्पादविनाशित्वात्, खपुष्पवत्, वैधर्म्येण पृथिवी-शिवक-स्तूपकादिव
दुत्पाद

  1. ॰भयेऽस्मि॰य॰

  2. पृ॰ ६६ पं॰ ९ ॥

  3. ॰विनाशने चैषांभा॰॰विनाशने वैषां य॰

  4. भवनत्वया॰य॰

  5. तैर्यनुद्भूयते प्र॰ ३ ॥

  6. एतदन्तर्गतः पाठो य॰ प्रतौ नास्ति ॥