161

२ ॥ व्याप्तिचर्चा ॥

1b

नमो भगवते वीतरागाय ।

इह दहनादिना धूमादेर्व्याप्तिरध्यक्षानुपलब्धिसाधनतदुत्पत्तिलक्षणेति व्युत्पाद्यते ।
परे हि पुरस्तनास्तावदग्निमति धूमस्य दर्शनमदर्शनं च तद्विरहिणीत्येवान्वयव्यतिरेकित्वं
कल्पयाम्बभूवुः । तत्र दर्शनादर्शनं यादृच्छिकमपि सकृद् भवेदिति च भूयः प्रवृत्ति
मपेक्षते । ननु भूयसापि प्रवृत्ते दर्शनादर्शने घटकुलटादावुपलब्धो व्यभिचार इति
चेत् ? किमेतावता, तत्राप्यनुमानमस्त्वित्युच्यते, अथ तद्वद् धूमादावपि मा भूदिति ?
प्रथमपक्षस्तावद् व्यभिचारादेव निरस्तः । द्वितीयोऽप्यव्यभिचारादेव । न ह्यन्यस्य
व्यभिचारे धूमस्य किञ्चित् । न खलु विषान्नमनिष्टमिति भक्ष्यान्तरमपि हेयमस्तु ।
तावता च सर्वा निवृत्तिर्लब्धेति किमुत्पत्तिप्रार्थनया, तन्निश्चयोपयोगिना वा प्रत्यक्षा
नुपलम्भेन ? तदुत्पत्तिरपि यदि दर्शनादर्शनादेव गृह्येत कीदृशो दोषः ? अनुमानमेव
च विभागेन भवत्विति तदन्वेषणम् । स च विभागो व्यभिचाराव्यभिचारद्वारेण
सिद्धः । असति च व्यभिचारे तावतैव गमकत्वम्, अनर्थिका तदुत्पत्तिः । व्यभिचारे च
शतमपि तदुत्पत्तयो न समर्थाः । तस्मात् सन्निकर्षेण पर्येषणं संयोगेनैव कृतार्थम् । अतएव
संयोगी हेतुरुच्यते वह्नेर्धूमो न कार्यमिति ।

त्रिलोचनस्त्वाह, प्रत्यक्षानुपलम्भयोर्विशेषविषयत्वात् कथं ताभ्यां सामान्ययोः
सम्बन्धप्रतीतिः ? अथानग्निव्यावृत्तेनाधूमव्यावृत्तस्य सम्बन्धः प्रतीयत एवेति, ननु
सोऽपि कस्य प्रमाणस्य विषयः ? न तावत् प्रत्यक्षस्य, तस्य स्वलक्षणविषयत्वात् ।
नाप्यनुमानस्य, तस्यापि तत्पूर्वकत्वात् । न च व्यावृत्तः कश्चित् सम्बन्धः । अथ प्रत्यक्ष
पृष्ठभावी विकल्पो दृष्टे भेदेऽभेदमध्यवस्यति, तदेव सामान्यम् । एवमपि विकल्पानां
न वस्त्वेव विषयः, अपि तु ग्राह्याकारः । स च न वस्तु । वस्तु तु तेषां परोक्षमेवेति
कथं तेनापि सम्बन्धग्रहः ? अस्माकं तु भूयोदर्शनसहायेन मनसा तज्जातीयानां सम्बन्धो
गृहीतो भवति, अतो धूमो नाग्निं व्यभिचरति । तद्व्यभिचारे धूम उपाधिरहितं
सम्बन्धमतिक्रामेदिति हेतोर्विपक्षशङ्कानिवर्तकं प्रमाणमुपलब्धिलक्षणप्राप्तोपाधिविरह
हेतुरनुपलम्भाख्यं प्रत्यक्षमेव । ततः सिद्धः स्वाभाविकः सम्बन्धः ।

162

वाचस्पतेस्तु2426 प्रपञ्चः, तथा हि धूमादीनां वह्न्यादिभिः स्वाभाविकः सम्बन्धः,
न तु वह्न्यादीनां धूमादिभिः । ते हि विनापि धूमादिभिरुपलभ्यन्ते । यदा तु आर्द्रेन्धन
सम्बन्धमनुभवन्ति तदा धूमादिभिः सम्बध्यन्ते । तस्माद् वह्न्यादीनामार्द्रेन्धनाद्यु
पाधिकृतः सम्बन्धः, न तु स्वाभाविकः । ततो न नियतः । स्वाभाविकस्तु धूमादीनां
वह्न्यादिभिः सम्बन्धः, तदुपाधेरनुपलभ्यमानत्वात् । 2a क्वचिद् व्यभिचारस्या
दर्शनात् । अनुपलभ्यमानस्यापि कल्पनानुपपत्तेः । न चादृश्यमानोऽपि दर्शनानर्हतया
साधकबाधकप्रमाणाभावेन सन्दिह्यमान उपाधिः सम्बन्धस्य स्वाभाविकत्वं प्रति
बध्नातीति युक्तम्,

अवश्यं शङ्कया भाव्यं नियामकमपश्यताम्
2427

इति च दत्तावकाशा लौकिकप्रमाणमर्यादातिक्रमेण संशयपिशाची लब्धप्रसरा न
क्वचिन्नास्तीति नायं क्वचित् प्रवर्तेत, सर्वत्रैव कस्यचिदनर्थस्य कथञ्चित् शङ्कास्पदत्वात् ।
अनर्थशङ्कायाश्च प्रेक्षावतां निवृत्त्यङ्गत्वात् । अन्ततः स्निग्धान्नपानोपयोगेऽपि मरण
दर्शनात् । तस्मात् प्रामाणिकलोकयात्रामनुपालयता यथादर्शनमाशङ्कनीयम्, न तु
अदृष्टपूर्वमपि । विशेषस्मृत्यपेक्ष एव हि संशयो नास्मृतेर्भवति । न च स्मृतिरननुभूतचरे
भवितुमर्हति । तदुक्तं मीमांसाश्लोकवार्तिककृता,

नाशङ्का निष्प्रमाणिका
श्लो. वा., सू. २. ६०

इति । तथा तेनैव बृहट्टीकायाम्,
उत्प्रेक्षेत हि यो मोहादजातमपि बाधकम् ।
स सर्वव्यवहारेषु संशयात्मा क्षयं व्रजेत् ॥

इति । तस्मादुपाधिं प्रयत्नेनान्विष्यन्तोऽनुपलभमाना नास्तीत्यवगम्य स्वाभाविकत्वं
सम्बन्धस्य निश्चिनुमः ।

स्यादेतदन्यस्यान्येन सहाकारणेन चेत् स्वाभाविकः सम्बन्धो भवेत्, सर्वं
सर्वेण स्वभावतः सम्बध्येत, सर्वं सर्वस्माद् गम्येत । अथान्यस्य चेदन्यत् कार्यम्,
163
कस्मात् सर्वं सर्वस्मान्न भवति, अन्यत्वाविशेषात् ? ततश्च स एवातिप्रसङ्गः । यद्युच्येत
न भावस्वभावाः पर्यनुयोज्याः, तस्मादन्यत्वाविशेषेऽपि किञ्चिदेव कारणं किञ्चिच्च
कार्यमिति, नन्वेष स्वभावाननुयोगोऽकार्यकारणभूतानामपि स्वभावप्रतिबन्धे तुल्य
एव । तस्मात् यत्किञ्चिदेतदपि ।

केन पुनः प्रमाणेनैष स्वाभाविकः सम्बन्धो गृह्यते ? प्रत्यक्षसम्बन्धेषु
प्रत्यक्षेण । तथा हि यदा तावत् प्रथमं वह्निधूमयोः सहार्द्रेन्धनयोः सम्बन्धं पश्यति,
तदा किं द्वयोरपि स्वाभाविकः सम्बन्धः औपाधिको वा; अथ धूमस्यौपाधिकः, वह्नेः
स्वाभाविकः, वह्नेरौपाधिको धूमस्य स्वाभाविक इति च न शक्यं निर्धारयितुम् ।
तत्र वह्नेरनार्द्रेन्धनस्य विना धूममयोगोलकादौ दर्शनादार्द्रेन्धनोपाधिरस्य धूमेन
सम्बन्धो, न तु स्वाभाविक इति निश्चीयते । धूमविशेषस्य तु विना वह्निमनुपलम्भा
दुपाधिभेदस्य चानुपलभ्यमानस्य कल्पनायां प्रमाणाभावात् विशेषस्मृत्यपेक्षस्य
संशयस्यानुपलब्धपूर्वेऽनुत्पादात् । उत्पादे वातिप्रसङ्गात् । प्रेक्षावतां प्रवृत्त्युच्छेदात्
स्वाभाविकः सम्बन्धोऽवधार्यते ।

तदिदमवधारणं न मानसम्, अनपेक्षस्य मनसो बाह्येषु प्रवृत्ताबन्धवधिराभाव
प्रसङ्गात् । भूयोदर्शनसापेक्षस्य च प्रवृत्तौ प्रमाणान्तरापातात् । न हि मनो निमित्त
मित्येव मानसम् । तथा सति न किञ्चिन्न मानसम्, प्रत्ययमात्रस्य 2b मनोनिमित्त
त्वात् । तत्तदसाधारणकारणापेक्षया च तत्तत्प्रमाणव्यपदेशेऽत्रापि भूयोदर्शनम्
असाधारणं कारणमस्तीति प्रमाणान्तरं जातम् । तस्मादभिजातमणिभेदतत्त्ववद्
भूयोदर्शनजनितसंस्कारसहायमिन्द्रियमेव धूमादीनां वह्न्यादिभिः स्वाभाविकसम्बन्ध
ग्राहीति युक्तम् ।

एवं मानान्तरविदितसम्बन्धेषु मानान्तराण्येव यथास्वं भूयोदर्शनसहायानि
स्वाभाविकसम्बन्धग्रहणे प्रमाणमुन्नेतव्यानि । स्वभावतश्च प्रतिबद्धा हेतवः स्वसाध्येन
यदि साध्यमन्तरेण भवेयुः, स्वभावादेव प्रच्यवेरन्निति तर्कसहाया निरस्तसाध्य
व्यतिरेकसन्देहा यत्र दृष्टास्तत्र स्वसाध्यमुपस्थापयन्त्येव । न च श्यामतादिषु
मैत्रतनयत्वादीनां स्वाभाविकप्रतिबन्धसंभवः, अन्नपानपरिणतिभेदस्योपाधेः श्यामताया
मैत्रतनयत्वसम्बन्धं प्रति विद्यमानत्वेन मैत्रतनयत्वस्यागमकत्वात् । एतेन पक्वान्यस्य
वृक्षस्याग्रवर्तीनि फलानि, एतद्वृक्षप्रभवत्वात्, आस्वादितफलवदित्यादयोऽप्यौपाधिक
सम्बन्धा व्याख्याताः । तस्माद् यस्य स्वाभाविकः सम्बन्धो नियतः सोऽनुमानाङ्गम्,
164
यथा धूमकृतकत्वादिः । यस्य त्वौपाधिकः, सोऽनुमानाङ्गं न भवति, यथा तत्पुत्र
त्वादिरिति स्थितम् ।

अत्रोच्यते, व्याप्तिर्नाम व्यापकस्य तत्र भाव एव, व्याप्यस्य वा तत्रैव भाव
इत्येवं कर्तृकर्मधर्मतया प्रतीतेरन्वयव्यतिरेकरूपतया द्विधानुमानसमीहया समीहिता,
अन्यथानुमानेऽनुपयोगात् । यदि हि साधने सत्यवश्यं साध्यं भवत्येवेति सामान्येन
सिद्धं भवति, साध्याभावे वा साधनमवश्यं न भवतीति, तदा विशेषोद्देशेन साधनवति
साध्यप्रत्याशा भवति, साध्याभावे तदभावस्य । यदा तु न यथोक्तनियमः, तदा
साधनं च भवति न च साध्यमित्याशङ्कायां कथमनुमानावकाशः ? तस्मादनुमान
मिच्छता नियतं यथोक्तैव व्याप्तिरपेक्षितव्या । न च भूयोदर्शनमात्रेण तस्याः सिद्धिः ।
यथा हि यदृच्छयापि सकृत् संवादसंभावना, तथा कतिपयवारानपि यदृच्छयैव भवतः
संवादस्य निषेधः, यथा च सकृत् सहचारदर्शने व्यभिचार उपलब्ध इति न सर्वत्र
सर्वदा च तत्सहचारनियम इति शङ्का, तथा भूयोदर्शनेऽपि व्यभिचारदर्शनादेव
भवन्ती न शक्यनिषेधा ।

यत् तु व्यभिचारदर्शनादननुमानमुक्तम्, तन्न युक्तम् । तथा हि कस्य पुनरिह
व्यभिचारदर्शनमनुमानविध्नाय प्रयोजकम् । किं प्रतिपत्तुरेव, अथ शास्त्रकारस्य,
यस्य कस्यचिद् वा ? अन्त्यपक्षे प्रतिपत्तुः किमायातम्, यतो नानुमानमयं कुर्यात् ?
अन्यथान्यस्य तत्तद्विषयप्रत्यक्षीकारेणैव सोऽपि कृतार्थ इति किमनुमानमवश्य
मन्वेषते ? शास्त्रकारं च पृष्ट्वा अदृष्टसम्बन्धोऽपि धूमादग्निमनुमास्यते इत्यलौकिकम् ।
3a प्रतिपत्तुस्तु नावश्यं सन्नपि व्यभिचारो गोचरीभवति । न हि यत्र व्यभिचारस्तत्रैव
तावति काले देशे वावश्यं प्रतीतिमवतरति । अप्रतीयमानश्च नास्त्येवेति न शक्य
मवसातुम्, आत्यन्तिककालव्यवधानेऽपि वा दर्शनात्, अनुपजातबाधबुद्धीनामपि
निधनसन्निधेरवरोधाच्च । ततश्च सत्यपि व्यभिचारे प्रतिपत्तुर्दर्शनं संभाव्यते । भवति
चाव्यभिचारेऽनुमानमन्यथा नेत्युपदिष्टस्य स्मरन् किमसावव्यभिचारनिश्चयादनुमाने
प्रवर्तताम्, निवर्ततां वाऽदर्शनमात्रेण निश्चयायोगादव्यभिचारासिद्धेः सन्दिग्धा
सिद्धहेतुवत् । तत्राद्यपक्षे करभादप्यनुमानं कुर्यात् । द्वितीये तु न धूमादपि । न हि
विद्यमानस्याविद्यमानस्य वा व्यभिचारस्यानवलोकनकाले कश्चिद् विशेषः । ततो यदि
भूयांसमपि सहोपलम्भं करभगर्दभयोर्यादृच्छिकमाशङ्कते, तथा धूमदहनयोरपि कस्मान्नेति
समानम् । अथ प्रत्यासन्नयोरपि करभगर्दभयोः स्वातन्त्र्येणोपलक्ष्यमाणयोः पश्यामि
165
तावत् किमेकमपसार्यमाणमन्योऽनुधावति धेनुमिव वत्स इति जिज्ञासया तथानुतिष्ठन्न
तथा प्रतिपद्यते । वह्नौ त्वपसारिते धूमापगममेव प्रत्येति, वह्निसन्निधाने वा धूम
संभवम् ।

अतः संभाव्यते व्यभिचारः करभस्यान्यदापि न धूमस्येति चेत् ? विशिष्टमेव
तर्हि दर्शनादर्शनं धूमे उत्पत्तिग्राहकं च यादृशं तादृशं न करभे । तथाहि यदाग्न्यभावे
धूमाभावं प्रत्येति, तदा सहोपलम्भपूर्वकमग्निमात्राभावे धूमादर्शनमुपयुक्तं प्रतिबन्ध
सिद्धौ । अन्यथा सहदर्शनाभावे तावदङ्गाराविशेषचित्रभानुमात्रापसारणं च धूमश्च
नास्त्येव, करभवद् गर्दभाभाव इति क्व सम्बन्धबोधः ? सहदर्शनेऽपि यदि वस्त्वन्तर
सहितहुताशापसारः, तदा पूर्वमस्य सत्ता किं हुताशस्य वस्त्वन्तरस्य वा सत्तया प्रयुक्तेति
न निश्चयः, हुताशमात्राभावे तु तद्भावप्रयुक्त एव प्रागस्य भाव इति सुलभम् । यदापि
पावकमात्रसन्निधौ धूमसत्ता, तदापि पूर्वमुभयादर्शनपूर्वकमग्निमात्रोपदर्शने दर्शनं
धूमस्योपयुक्तम्, अन्यथाग्निमात्रमानीतं धूमश्चास्त्येवेति करभवत् कुत्र प्रतिबन्धसिद्धिः
वस्त्वन्तरसहितहुताशनानयनेऽपि कस्याभावेन प्रयुक्तः प्रागभावो धूमस्येति न निश्चयः ।
हुताशमात्रोपलम्भे तु तदभावप्रयुक्तो युक्तः ।

तदेवं पूर्वदर्शनापेक्षनियतैकादर्शनपूर्वं चान्यादर्शनं विशिष्टमुच्यते । तदपि
प्राचीनदर्शनमौतरकालिकयथोक्तादर्शनद्वयापेक्षया विशिष्टम् । एवमदर्शनपूर्वकेऽपि
दर्शने विशेष ऊहितव्यः, यदभावात् करभादौ नाश्वासः । तमेव दर्शनादर्शनयोर्विशेष
माश्रित्य 3b प्रत्यक्षानुपलम्भव्यापारव्यवहारः तद्विषयश्च भावद्वयस्वभावः कार्य
कारणभाव इत्युच्यते ।

यच्चायत्तमनायत्ते परत्र तत् तत्र तदुत्पत्त्या प्रतिबद्धमित्यपि । तथा हि तन्मात्रा
पनयने द्वितीयसाहित्यस्यापि निषेधाद् व्यक्तं तदायत्तं तत् । एवं तन्मात्रापसारणेऽपि
बीद्धव्यम्, अन्यथा द्वितीयापसारणापेक्षणात् कुतस्तन्नात्रापसारणमिति तदुत्पत्त्यैव
प्रत्यक्षानुपलम्भसाधनया व्याप्तिरुक्ता भवति, न तद्विशेषविरहिणा दर्शनादर्शनमात्रेण ?
तद्विशेषापेक्षणे च सकृदेव प्रवृत्तौ निर्वृत्तिलाभान्न भूयः प्रवृत्त्यपेक्षा । यथा हि सकृद्
दर्शनादर्शनेन प्रतीतसहचारमात्रादनाश्वासकरान्नापरमपरेण प्रत्ययम्, तथा सकृत्
प्रत्यक्षानुपलम्भाभ्यां प्रतीतविशिष्टजातिद्वयहेतुफलभावसम्बन्धान्नापरम्पराभ्यां प्रत्येय
मिति तावतैव निर्वृत्तिः । यदि न सादृश्यादिना जात्यन्तरे तदध्यवसायः पुरुषस्येति
निपुणेन प्रतिपत्त्रा भवितव्यम् । सहचारमात्रे तु तज्जातावेव संशयः । अन्यत्र
166
सहचारमात्रे व्यभिचारदर्शनं च पुष्टं बीजमस्य । न चात्र विषान्नदृष्टान्तः शान्तये,
विषान्नाद् भोज्यान्तरस्य भिन्नजातीयत्वात् । अत्र तु यः प्रयोजको भागो भूयः
सहचारलक्षणस्तेनैकजातीयत्वमेव धूमस्य, न तु विषदिग्धत्वं दधिभक्तादेः साधारण
मिति वैषम्यम् । तदुत्पत्तिमन्तरेण चाव्यभिचारस्यैवाभावाद् भेदे अव्यभिचारस्यैव
तदुत्पत्तिरूपत्वात् । अव्यभिचारापेक्षया क्षेपस्तदुत्पत्तेरयुक्त एव । तस्मात् कार्यमेव
हेतुर्धूमो धूमध्वजस्य, तदुत्पत्त्याव्यभिचाराक्षेपात्; न संयोगी, सहचारमात्रोल्लेखात् ।
कथं तर्हि करभगर्दभोदाहरणमसंयोगात् ? दासीकलससंयोगदर्शनभूम्ना सन्तोषोऽस्तु ।
करभगर्दभयोरपि वा जलबलाकयोरिव तावति काले देशेऽवस्थितिनियमस्तथा
दर्शनादस्त्विति न किञ्चिदेतत् । तस्मादर्थान्तरे गम्ये कार्यहेतुः, तद्भावसिद्धिश्च
प्रत्यक्षानुपलम्भादिति स्थितम् ।

त्रिलोचनचोद्ये तु ब्रूमः, विशेषविषयं प्रत्यक्षमिति किं विशेषोऽपि विषयोऽस्य,
अथ विशेष एव ? अयोगव्यवच्छेदपक्षे न सामान्यविषयताप्रतिहतिरिति कथं न
प्रत्यक्षानुपलम्भावकाशः सामान्यद्वये ? अन्ययोगव्यवच्छेदस्तु किमस्मत्सिद्धान्ताश्रयेण
उच्यते, वस्तुवृत्त्या वा ? अस्माकं तावदुभयमुभयमपि प्रमाणमुभयविषयम्, ग्राह्याध्य
वसायभेदेन । यद्धि यत्र ज्ञाने प्रतिभासते तद् ग्राह्यम्, यत्र तु तत्प्रवर्तते तदध्यवसेयम् ।
तत्र प्रत्यक्षस्य स्वलक्षणं ग्राह्यमध्यवसेयं च सामान्यम् । अनुमानस्य तु विपर्ययः । तत्र
साधनप्रत्यक्षं तदैवार्थक्रियार्थिनः क्षणवोक्षणेऽपि सन्तानापेक्षया सामान्यविषयम् ।
व्याप्तिग्रहणप्रकरणे 4a पुनरेकव्यक्तिदर्शनेऽपि सर्वसजातीयव्यक्तिविषयत्वेन सामान्य
विषयम् । प्रत्यक्षेण मया अग्निजन्मा धूमः परिच्छिन्न इति सकलतदन्यापोढव्यक्ति
जातमन्तर्भाव्यैव तद्बलोत्पन्नस्याध्यवसायस्य संवेदनात् । यथा रूपमात्रदर्शने रूपरस
गन्धस्पर्शसमुदायविशेषात्मनि घटे दृष्टाध्यवसायात् तद्विषयत्वं प्रत्यक्षस्य ।

न च सामान्यं नाम किञ्चिदन्यदेव, किंतु स्वलक्षणान्येव परस्परमविवेचितभेदानि
सामान्यमुच्यन्ते । भेदविवेचने तु प्रत्येकं स्वलक्षणमिति स्वशब्देनैव व्यवहारः । ततो
यद्यपि परविलक्षणाशेषस्वलक्षणानामप्रतिभासान्न ग्राह्यत्वेन विषयत्वम्, तथाप्यध्य
वसेयत्वेन दुर्निवारमिति कथमन्ययोगव्यवच्छेदः ? विकल्पानामवस्त्वेव विषय इत्यपि
परकृतान्तानभिज्ञतयैवोच्यते, अनुसन्धानानुमानयोरध्यवसायापेक्षयावस्तुविषयत्वात् ।
शेषं सिद्धसाधनम् । अथ वस्तुवृत्त्येति पक्षः ? सोऽप्ययुक्तः, सर्वज्ञानानां ग्राह्याध्य
वसेयभेदेन विषयद्वैविध्यस्य दुरतिक्रमात् । प्रमाणस्य हि प्रामाण्यमेवातिरिच्यते,
167
विषयद्वैतं तु सर्वत्र सिद्धम् । तत्रानुमाने तावद्वस्तुनोऽप्रतिभासादध्यवसेयमेव
स्वलक्षणम्, ग्राह्यस्तु स्वाकारः । एवंविधं निर्लोठितमस्माभिरपोहप्रकरणे इति न
प्रस्तूयते । यद्यपि च बुद्धेराकारो नेष्टस्तथापि वस्तुबलादायातः कथमपोहितुं शक्यः ?
न ह्यप्रतिभासे ज्ञानं नाम, प्रतिभासि चानुमायां न वस्त्विति स्थिते नियतं स्वाकारः ।
अलीकमस्त्विति चेत् ? तथापि तत्प्रतिभासे ग्राह्यमवसेयं च बाह्यमिति विषयद्वैतसिद्धौ
किं निर्बन्धेन ? एवं प्रत्यक्षेऽपि काचिदेव व्यक्तिः प्रतिभासिनी ग्राह्या । सर्वा तु
सजातीयाध्यवसेया प्रतिबन्धबोधकाले, अस्फुरणे हि यद्यवसायोऽपि स्यात् प्रत्यक्षेण
सम्बन्धबोधप्रसिद्धिगन्धोऽपि निर्धूतः स्यात् ।

यत्तु मानसेन भूयोदर्शनजनितसंस्कारसहायेनेन्द्रियेण वा ग्रहणमुक्तम्, तत्रेदं
विचार्यते । अस्ति तावदग्निधूमव्यक्त्योः पुनः पुनरुपलब्धिरैन्द्रियी । अस्ति च तत्कृत
संस्कारजन्मा विमर्शः अयमेतत्सहित एवोपलभ्यते, तत् किमनयोः सदातनोऽयं
सहचारः, अथ सुहृद्द्वयस्येव सात्यय इति ? परामर्शदुर्बलस्य हेतुनान्तरीयकप्रतीतिरपि
भवति । तदनुरूपं चानुष्ठानम् । न पुनरत्रापरो ज्ञानविवर्तः संवेद्यते । ततो
भूयोदर्शनं तावत् संस्कारद्वारेण सहायमेव कृतम्, न तत्प्रस्तुतमभिधातुं शक्यम्,
तदन्तिममेकजातिकाशेषव्यक्तिविषयक इत्यपि मनोरथमात्रम्, तद्व्यक्तीनां निर्भासा
भावात् । संशयोऽपि तदनन्तरः संशयत्वादेव न निश्चायकः सम्बन्धस्य । पश्चिमश्च
निश्चयाकारत्वेऽपि परामर्शशून्यस्यैवेति प्रत्यक्षाभिख्ययापि तदुपस्थापिते प्रमेये क
आश्वासः ? अलिङ्गजस्य हि विकल्पस्य पूर्वप्रवृत्तदर्शनव्यापारनुसारादेवार्थतथा
भावसम्भवो, न स्वातन्त्र्यात्, 4b अतिप्रसङ्गात्, पूर्वप्रवृत्तानि च दर्शनानि सहचार
मात्रसाक्षीणि वातातपादिसहचारवत् कञ्चिद् विशेषमनाविशन्ति कथमस्य यथार्थतां
समर्थयितुमीशते ? तथाभावेऽपि तान्येव तत्र प्रमाणम्, इदं तु स्मरणं प्रमाणत्वेन
निर्दिश्यत इति साधु । वातातपयोः पश्चात् सहचारविघटनास्ति विशेष इति न वाच्यम्,
व्यभिचारादर्शनकालापेक्षयाभेदस्य विवक्षितत्वात्, अत्रापि अविघटननिश्चयानुप
पत्तेश्चोक्तत्वात् । यावदेव वह्निव्यापारात् पूर्वं धूमानुदयो हृदयसंवासी, तावदेव हि
सहचारान्तराद् भेदविमर्शः, तत एव तद्व्यभिचारे धूम उपाधिरहितं सम्बन्धमति
क्रामेदिति शोभते । अन्यथा पूर्वं सहचारमात्रोपलब्धौ यथा धूममन्तरेणानलविलोकने
अनलस्य धूमेन सम्बन्धे उपाधिकल्पनं सामान्येन, तथा धूमस्यापि वह्निमन्तरेण
भावसंभावनायामुपाध्यन्तरकल्पनं भविष्यति, अतः कस्य केनौपाधिकः स्वाभाविको
168
वा सम्बन्धः स्यात् ? न हि सुहृदोरेकव्यतिरेकेणान्यदर्शनेऽव्यतिरेकेणापि तद्दर्शन
संभावना न भवति । केवलं चैत्रमन्तरेणापि मैत्रस्य भावाविरोधाद् भूधरविवर
प्रविष्टस्यापि न दर्शनयोग्यता विगलति, धूमस्य तु नियतं विना वह्निमुदय एव नास्तीति
न संभावना, तावता च तदुत्पत्तिरेव शरणीकृता भवति । सा च न भूयोदर्शना
दित्युक्तमेव ।

अत एव गोगोत्वयोरपि न स्वाभाविकः सम्बन्धोऽभिधातुं शक्यः,
तदुत्पत्तिप्रतीतिविरहेऽन्यस्मात् सहचारिणो विशेषाभावात् । न च सहचारदर्शन
मप्यस्ति, प्रत्यक्षेणोभयभागानुल्लेखात् । तत् किमत्र स्वाभाविकौपाधिकवादप्रक्षेपेण
विभागेन ? गमकत्वं च सामग्र्याः कारणत्वादेकं कारणमन्यापेक्षमेव जनकमित्यनियमः ।
कार्यं तु सामग्रीनियतत्वेन प्रत्येकं नियतमिति तदेव लिङ्गं न कारणमिति सिद्धम् ।
अथाग्नेरिन्धनसन्निधौ धूमदर्शनाद् विशेषोद्देशेनैव सिद्ध उपाधिरिन्धनम् । धूमस्य
पुनरग्निना सम्बन्धे तदुपाधिर्भवन् दृश्य एव भवेत्, अनुपलब्धस्तु नास्तीत्युच्यते ।
तत् किमिन्धनमेव परमुपाधिर्येन दृश्यतानियमः सम्बन्धे हि विवक्ष्यते, अपेक्षणीय
मर्थान्तरं स्वभावविशेष एव चोपाधिरभिधेयः । न चार्थान्तरं दृश्यतानियतम् । ततश्च
धूमस्यापि हुताशेन सह सम्बन्धे स्यादुपाधिः, न चोपलक्ष्यत इति कथमदर्शनान्नास्त्येव,
यतः स्वाभाविकसम्बन्धसिद्धिः ?

अथ यद्यपेक्षणीयमर्थान्तरं स्यात्, कथं धूम इत्येव पावकस्य सत्तानियम इति
चेत् ? नन्विदमेव चिन्त्यते, किं धूमे सति अवश्यमग्निः सम्भवी, न वेति ?
कदाचिदर्थान्तरमुपाधिमपेक्ष्य धूमोऽपि स्यात्, नाग्निरिति किमत्र निष्टङ्ककारणम् ?
तस्मात् पावकपराधीनोदयो धूमः परिनिष्ठतः कथं तदभावेऽपि भावं स्वीकुर्यादित्येव
साधु । असिद्धा 5a चेयमुपाध्यनुपलब्धिः । यथा हि दहनो नेन्धनेन विना धूमेन
संबध्यते, तथा धूमोऽपि न तेन विनाऽग्नि संबध्यत इति समानमुपाधित्व
मिन्धनस्योभयत्र । अथ सिद्धस्याग्नेरिन्धनसाहित्येन धूमलाभ इत्युपाधिव्यवस्था,
असिद्धस्य तु धूमस्य तन्निमित्तात्मलाभतया तदव्यभिचारात् स्वाभाविकः स्थाप्यत इति
चेत् ? एवमपि सैव तदुत्पत्तिरायाता, सैव च स्वाभाविकः सम्बन्धः । न च यथोक्त
मानसादिग्राह्यः । न चोपाधिर्दृश्यानुपलब्धिबाध्य इत्यौपाधिकशङ्कायां न विपक्षान्नि
वृत्तिर्धूमस्येति स्थितम् ॥

169

वाचस्पत्ये तु प्रबन्धेऽग्नेर्धूमेन संबन्धे इन्धनमुपाधिर्दृश्य उक्त एव । धूमस्य तु
वह्निना सम्बन्धे स्वाभाविकत्वमुपाधेरनुपलब्धिमात्रेण च बाधः । तत्र च क्वचिद्
व्यभिचारस्यादर्शनादिति हेतुः । तत्रेदमालोच्यते, किमयं हेतुरुपाध्यनुपलब्धिसाधकः,
अथ सैवास्य साधिकायं स्वाभाविकत्वस्य भूतानुपलब्धेरदार्ढ्यंशङ्कयोपाधेरेव बाधकः ?
प्रथमे निरुपयोगः, न हि बुद्धेर्भावाभावौ हेत्वन्तरसाध्यौ, स्वसंवेद्यवेदनान्तरस्वभाव
त्वात् । नास्ति चोपाधेरुपलब्धिरिति सिद्धैवानुपलब्धिः । एवं व्यभिचारादर्शनेऽपि
हेत्वनुपयोगो वाच्यः । व्यवहारसाधनमुपयोग इति चेत्—न, विमतेरभावात्,
अप्रतीतिमात्रस्य सिद्धत्वात् । तृतीयोऽपि न युक्तः । एकस्या दृश्यविशेषणरहिताया
निषेधसाधनाशक्तौ द्वितीयस्याः कीदृशी शक्तिः ? व्यभिचारो दृश्य एव विवक्षित इति
चेत् ? तर्हि न सर्वत्र सर्वदा वा । ततश्च न क्वचिद् व्यभिचार इत्यतः स्वाभाविक
त्वमयुक्तम् । क्वचित् तु न दृष्टो व्यभिचार इत्येवं तत्कल्पनमनलस्यापि धूमेन प्रसज्येत ।
चैत्रमैत्रादीनां वा परस्परम् । सति चैवं स्वाभाविकसम्बन्धेऽप्यनाश्वास इत्यायातम् ।

तस्मात् सर्वत्रैवाव्यभिचारः पर्येषणीयः । ततोऽनुमानविषयेऽपि यावन्न साध्यं
प्रत्यक्षेणोपस्थापयति, तावन्नाव्यभिचारं प्रतीयादिति कृतमनुमानेन । किं च तदुत्पत्ति
वादेर्ष्यया धूमस्यानेकान्तपरिहाराय स्वाभाविकवाद आश्रितः, अनेकान्तश्च व्यभिचारा
शङ्कया । ततः स्वाभाविकत्वादव्यभिचारः सर्वत्र । सर्वत्राव्यभिचाराच्च स्वाभाविक
त्वमितीतरेतराश्रयः । यस्य तु सकृदेकजातेरन्यजात्यधीनोत्पत्तिप्रतीतिरेव सर्वत्रा
व्यभिचारप्रतीतिः, तस्य नायं प्रसङ्गः, भूयोदर्शनापेक्षायामेव तदवतारस्य न्यायप्राप्त
त्वात् । यथा ह्येकदा दर्शने शङ्कायामन्यापेक्षा, तथान्यदापि शङ्कापेक्षा । परस्पराकृष्ट
एव सर्वत्र दर्शनाक्षेपः । यदि तु तत्रापि वारसंख्यानियमं दर्शयेत्, यथास्माकम्—

प्रागदृष्टौ क्रमात् पश्यन् वेत्ति हेतुफलस्थितिम् ।
5b दृष्टौ वा क्रमशोऽपश्यन्नन्यथात्वेन च स्थितिः ॥

इति प्रत्यक्षानुपलम्भयोर्वारत्रयनियमोऽवयवे, समुदाये त्वेकवारस्य, तदा तावतैव
सुस्थो भवेत् । भूय इति त्वपरिनिष्ठितसंख्यः कियता निर्वृत्तिमासादयेत् लक्ष्यानुसारी ?
तदशक्यत्वे च न क्वचिदनुमानमयं कुर्यादिति लक्षणशास्त्रमनर्थकम् । स्मरणे तु
चित्तपाटवाधानाय कियदपि दर्शनं प्रवर्त्स्यति । न तत्र परिमाणनियममन्तरेण किञ्चित्
क्षीयते, बीजेऽङ्कुरजननाय कालपरिमाणनियमवत् । एवमभिजातमणितत्त्वस्फुटी
भावेऽपि न दर्शनानां परिमाणनियमः । सूक्ष्मरूपभेदोद्भेदमात्रस्य विवक्षितत्वात्,
170
प्रभास्वरादिवावरकप्रविष्टस्य । यमलकवद् वा । धूमादौ तु न रूपस्य भेदो विवक्षितः,
किं तु स्वरूपस्य । यथा हि नीलेतररूपयोः प्राक् पटीयसोऽपि कोटिरपि दर्शनानि न
भेदावधारणपटूनि, तथा व्यभिचारदर्शनात् प्राक् व्यभिचाराव्यभिचारवतोरर्थान्तरे
सन्निधीयमानयोर्न किञ्चिद् रूपभेदावधारणम् । धूमे तु न रूपाद्विशेषोल्लेखि हृदयमपि
तु पावकाधीनसंभवतयेत्युक्तम् । अत एव च सकृत्प्रवृत्तप्रत्यक्षानुपलम्भाभ्यां निर्वृत्तिः ।
रूपापेक्षया तु धूमेऽपि यादृगेव दर्शनमाद्यं तादृगेव कोटितममपि न मणिवद्विशेषभाक् ।
तादृगेव दर्शने यदि व्यभिचारशङ्कारहितः प्रतिपत्ता, तदा न द्वितीयस्यापि दर्शनस्य
अपेक्षा । शङ्कमानस्तु शतेनापि दर्शनैरप्रत्यय एवेति भूय इति भवदीयमन्त्राक्षर
जापिनः का गतिः ? अतश्च शतधाप्यव्यभिचारदर्शी पुरस्तात् सन्देहवानेव ।

यत् त्वनुपलभ्यमानस्यापि कल्पनानुपपत्तेरिति सुप्तेनेव विलपितम्, तद्
बालस्याप्यसाम्प्रतम् । अनुपलभ्यमानस्यैव हि कल्पना भवति प्रकृतीश्वरादिवत् ।
कल्पितं तु किञ्चित् प्रमाणमन्वेति किञ्चिन्नेति विशेषः । न हि दृश्यमानो घटः कल्पित
उच्यते । तस्मादनुपलभ्यमानेष्वेव कल्पनाव्यवहारः, केवलं क्वचिदाप्तवचनादिना
बाधकादर्शना द् दृढः सत्तावसायः, विमर्शकस्य तु पाक्षिकः । ततो धूमस्यापि यदि
व्यभिचारो दृष्टो, दृष्ट एव । कस्तत्र संशयः ? यदा तु न दृष्टस्तदा सत्तैकांशावसायो मा
भूत् प्रामाणिकाधिकारात्, पाक्षिकस्तु सत्तोल्लेखः कथं वार्यः ? अथैवमभिप्रायः, न
तत्रैवानुपलब्धिर्विवक्षिता, किं त्वन्यत्रापि यन्नोपलभ्यं तस्य न शङ्केति चेत् ? नन्वग्नि
व्यभिचारश्चामीकरादौ दृष्ट एवेत्यस्तु सन्तोषः । अथ धूमे न दृष्टः, तत् किं स्थाणौ
पुरुषत्वं दृष्टं येन स्थाणौ शङ्क्यते ? ऊर्ध्वतालिङ्गिते दृष्टमिति चेत् ? इहापि भूयः
सहचारिणि दृष्ट एवान्यत्र । अत एव न चादृश्यमानोऽपीत्यादि विप्लतम् । यत्रैव तु
यत् संशय्यते, तत्रैव तस्य दर्शनमपेक्ष्यत इत्यलौकिकम् । अतो धूमजातावदृश्यमानोऽपि
व्यभिचार उपाधिर्वा दर्शनायोग्यतया निषेद्धुमशक्यः । स 6a इदानीं संशयः स्वा
भाविकत्वसंशयस्वभावः स्वाभाविकत्वनिश्चयं तावदवश्यं प्रतिबध्नाति । स्वाभाविक
संबन्धबलेन च धूमो गमकः कथं तदनिश्चये गमकत्वेन गृह्येत ? न हि धर्मिणि सत्त्वेन
हेतुर्गमकः सत्त्वसन्देहेऽपि गमको भवितुमर्हति । यश्च यत्सन्देहे प्रवर्तते स
तदसम्भवेऽपि प्रवर्तत एवेति स्वाभाविकसंबन्धं विधूयापि धूमस्येवान्यस्यापि
गमकत्वप्रसङ्गः । तस्मान्निश्चयप्रतिबन्धः स्वाभाविकत्वप्रतिबन्ध एवार्थतः, निश्चय
मन्तरेण गमकाङ्गस्य स्वयमकिञ्चित्करत्वात् । तस्मान्निरग्नौ धूमस्य,
171

अवश्यं शङ्कया भाव्यं नियामकमपश्यताम्
प्र. वा., ३. ३२४

इति दुर्लङ्घ्यमेतत्तदुत्पत्त्यनाश्रयणे । न चैवं प्रामाणिकलोकमर्यादातिक्रमोपालम्भः । न हि
प्रमाणगोचरे कश्चिदनिश्चयमाचष्टे, प्रमाणाभावे वा निश्चयम्, यथा भवानुपाधेर्बाधक
प्रमाणाभावेऽप्यभावनिश्चयम् । अत एव न संशयपिशाचस्य सर्वत्रावकाशः प्रमाणाभाव
एवानुमतत्वात् । प्रमाणविषयेऽपि किञ्चिद्वक्तुं शक्यत इति चेत् ? यदि मुखमस्तीति
वक्तव्यमुच्यताम् । केवलं यदि स्वीकृतप्रमाणधर्मो वक्ति तदा सुदानमुत्तरम् । अथेतरः,
तदेतरेणैव वक्तव्यम्, नास्माकमवसरः । स्वीकृतप्रमाणस्य हि निश्चयफलत्वात्
प्रमाणस्याविप्रतिपन्नप्रमाणविषये निश्चयस्वीकारनान्तरीयक एव तत्स्वीकारः कथं सर्वत्र
शङ्कापिशाची लब्धावकाशा भवेत् ? केवलं त्वत्प्रणीतलक्षणं न प्रमाणमिति ब्रूहि ।
तच्च विचार्यमाणमेव वर्तते । अथादृश्यमानोऽप्युपाधिर्धूमे शङ्क्यत इति प्रामाणिक
लोकयात्रातिक्रम इति चेत्—न, प्रामाणिकैरेवायोग्यानुपलब्धेर्बाधाधिकारप्रतिषेधात् ।
अन्यथेश्वरस्वर्गसाधनादेर्दत्तो जलाञ्जलिः । अनुमानागमप्रमाणसिद्धेर्नायं दोष इति
चेत्—न, पूर्वमनुपलब्ध्या बाधितेऽनुमानादेः साधकस्याप्रवृत्तेः सर्वज्ञसिद्धौ प्रसाधित
त्वात् ।

तस्मात् पूर्वापरपरामर्शविवेकफलमेतदनुपलब्धिमात्रं निश्चयसाधनमिति ।
ततः प्रमाणविषये संशयानवकाशान्नायं क्वचित्प्रवर्तेतेत्यसंबद्धम् । न च शङ्केत्येव न
प्रवृत्तिः, अर्थसंशयेन प्रवृत्तेरनिवार्यत्वात्, स्निग्धान्नपानवत् । एतत् त्वनर्थकसंशयेनोदा
हरतोऽर्थानर्थसंशयविषयोऽप्यज्ञात इति किमतः परं वाच्यम् ? न चैतत् प्रकृतम्,
प्रमाणवृत्तौ संशयोऽस्तु न वेत्यस्य प्रकृतत्वात्, तत्र चोक्तमेव । अथेदमाकूतमनेकधा
धूमस्य धामन्यव्यभिचारदर्शनात् कदाचित् तदन्तरेण धूमो भवेदितीयमनर्थशङ्का ।
सा च निवृत्त्यङ्गमिति तामवधूय स्वाभाविकसम्बन्धबोध एव विधीयतामित्यर्थः ।
यथान्नपाने मरणशङ्कां निरस्य प्रवृत्तिरेवेति । यद्येवमर्थसंशयोऽपि प्रवृत्त्यङ्गमिति युक्तम् ।
भूयः साहित्यदर्शनादव्यभिचार एव 6b हि प्रायिकः, अन्नपाने जीवनवत् । अथेदृश
मनर्थसंशयमेव ब्रूम इति चेत् ? स तर्हि प्रवर्तक एव । तत् कथं नायं क्वचित् प्रवर्तेत
इत्युच्यते ? कथं वानर्थकसंशयोऽपि निवृत्त्यङ्गम् ? एतच्च कदाचिद् व्यभिचारेऽपि
समानम्, कादाचित्कादानमानवयाचनवदिति साध्वी धूमस्य स्वाभाविकसम्बन्ध
सिद्धिः । यथादृष्टाशङ्कनं च प्रागेव प्रतिपादितम् । अतएव विशेषेत्यादि सिद्धसाधनम् ।
172
तदुक्तमित्यादिना त्वातुरमादाय दहनप्रवेश एषः । तथा हि,

बाधाज्ञाने त्वनुत्पन्ने नाशङ्का निष्प्रमाणिका
तुल० श्लो. वा., २. ६०

इति । यद्युल्लिख्यमानस्यार्थस्य बाधज्ञानमुत्पन्नं साधकं वा प्रमाणम्, तदा शङ्कायाः
क्वावकाशः, तस्याः संशयरूपत्वात्, साधकबाधकस्य चैकान्तावसायसाधनत्वात् ?
अथेन्द्रियेषु तिमिरादिबाधज्ञानानुत्पत्तिर्विवक्षिता, तदप्रस्तुतम् । न हि धूमादौ स्वरूपस्या
सिद्धिराशङ्किता, किं तु व्याप्तेरिति ।

को वाऽर्थो निष्प्रमाणिका इति यदि साधकप्रमाणविरह इष्टः, तत् किं शङ्कायाः ?
यद् वा शङ्कयोल्लिख्यमानस्यार्थस्य, तस्यापि तत्रैवान्यत्र वा ? अन्यत्रापि सजातीये,
अन्यमात्रे वा ? प्रथमपक्षस्तावन्न प्रस्तावानुरूपः । भवतु वा, तथापि तदन्यज्ञाने
साधनमेकार्धसमवेतं मानसमर्थापत्तिः स्वसंवेदनं वा, तन्न क्षीणमस्याः । शङ्कितस्य
प्रस्तुते साधकप्रमाणाभावस्तु शङ्कासाधक एवेत्युक्तम् । अन्यत्र सजातीयेन प्रमाणा
भावस्य त्वयमर्थः यद् धूमे वह्न्यनायत्तत्वं शङ्क्यते, तत् तज्जातीये प्रमाणेन
नावगतम्, तत्र व्यक्त्यपेक्षया तज्जातीयत्वम्, जात्यपेक्षया वा ? व्यक्त्यपेक्षया
तावद् धूमान्तरमेव तज्जातीयम् । यदि च तत्र चित्रभानुनानायत्तिः प्रमिता, तदा
व्यभिचारादेव व्याप्तिबहिष्कृतो धूमः साधारणानैकान्तो जात इति किमत्र सन्दिग्ध
विपक्षव्यावृत्तिकत्वार्थं शङ्कावतारणेन ? अप्रमितायामपि वह्न्यनायत्तावव्यभिचारादेव
किं शङ्कयेति चेत् ? अदर्शनमात्रेण व्यभिचारस्याभावासिद्धेः, योग्यानुपलब्धेरेवाभाव
साधनेऽधिकारात् । ततो बहुलं सहचारमात्रे व्यभिचारी नाव्यभिचारी निश्चित इति
शङ्कावकाशः । जात्यपेक्षया तु धूमजातेरन्यैव जातिः कयाचिद् द्रव्यादिप्रत्यासत्त्या
सजातीया, ततोऽभिमतपक्षोपनिपाते जलादौ व्यभिचारदर्शनमुक्तमेव । युक्तश्चायमेव
पक्षः । धूमे व्याप्तिचिन्तायां देशकालान्तरविप्रकृष्टं धूममेकीकृत्यैव निर्णयप्रक्रमात्
जात्यन्तर एव शङ्क्यमानदर्शनमनुरूपम्, तावतापि स्मृतेरनुभवपूर्वत्वाप्रच्युतेरिति ।
प्रथमपक्षादन्यत्रावाचकं चेदमक्षरं तत्र चानुपयुक्तमिति यत्किञ्चिदेतत् ।

अजातबाधकोत्प्रेक्षिणः संशयात्मत्वमपि बालविलपितमेव । बाधोत्प्रेक्षणं
हि निश्चयात्मतया संशयविरुद्धमित्युक्तम्, न ह्यनिश्चयफलं बाधकं वा । ततो यत्र
तदभावः 7a तत्र नः संशय इति कथं सर्वव्यवहारेषु तदात्मकत्वम् ? अथ
173
नोषर्बुधाधीनत्वस्य धूमे बाधकमुत्प्रेक्षते य इति विवक्षितम्, किं तु वह्न्यप्रतिबद्धत्वसंशय
एव व्याप्तिनिश्चयस्य विरोधाद् बाधक उक्त इत्येवं नेयम् । तथाप्युत्प्रेक्षेतेति विरुद्धम् ।
विकल्पनं ह्यत्प्रेक्षार्थः, न च संशयस्यैव विकल्पात्मनो विकल्पनं नाम प्रस्तुतम् ।
जननं तु युक्तम् । तदाप्यजातविशेषणमपार्थकम्, जातस्योत्पादनार्थासङ्गतेः । अथा
जातमभूतमसत्यमपि शङ्क्यमानमनग्न्यधीनतादिकं प्रमेयं स्वविरुद्धबाधकमुत्प्रेक्षेत
स्वकल्पनामात्रेणोद्भावयेदित्यर्थः, तदापि तदसत्यत्वं केनचित् प्रमाणेन प्रसाध्य यद्येवं
ब्रूयात्, सर्वं शोभेत । न चाक्रोशादन्यदस्ति साधनमस्य साहसिकस्य । यदि च
यथाप्रसिद्धातिरिक्तमभ्यूहत एवाक्रोशपात्रत्वम्, तदा दर्शनादर्शनमात्रप्रसिद्धे व्याप्ति
वादे विपक्षवृत्तिशङ्कामपाकर्तुं स्वाभाविकसम्बन्धादिकमभ्यूहमानस्यापि किं न तत्त्वम् ?
तस्यापि वा सम्बन्धस्य मानसग्राह्यत्वबाधकमिन्द्रियग्राह्यत्वं वदतः, सर्वज्ञबाधकानि
वा ज्ञेयत्वादीनि । यथा प्रसिद्धोर्वस्यादिशब्दार्थबाधकं वा पा?त्र्याद्यर्थं ब्रुवतः, किं
वा भूयो बौद्धीयशङ्कासन्निपातशातनमीदृशमाक्रोशसाधनमनन्यशक्यमूहितबतोऽस्यैव
प्रथमं क्षयगमनमुचितम् ।

संशयोत्थापकस्य तदिष्टमिति चेत् ? ननु संशयस्यापि पूर्वमजातस्यैवोत्थापनाद्
भ्रष्टः, ततः साधकबाधकोपनीतनिश्चयस्याप्यजातस्योत्थापनात् किं न दुष्टः ? प्रमाण
बलान्निश्चयो दुर्लङ्घ्य इति चेत् ? तदभावे तर्हि संशयोऽपि दुर्लङ्घ्य इत्यलमतिविसा
रिण्या कथया । ततः पूर्वापरपरामर्शेन प्रमाणविषयादन्यत्र संशयोद्भावनं कथं मोहादित्य
नुन्मत्तो भाषते ? प्रमाणप्रतिबद्धो हि निश्चयो यदि तदभावेऽपि भवेत् किमर्थं यत्नेन
प्रमाणान्वेषणं प्रेक्षस्य, तद्विप्रतिपत्तिनिराकरणाय वा श्रमः शास्त्रकाराणाम् ? तस्मात्
प्रमाणापाये नियतमायातः संशयः कथमनिष्टिमात्रेण निराकर्तुं शक्यः ? यद्यप्येवं
तथापि गत्यन्तरविरहात् संव्यवहारे प्रायः सहवारदर्शनात्, अदर्शनाच्च सकृदपि
व्यभिचारस्य, विकल्पोल्लेखितमपरिपुष्टसंशयमसन्तमिव कृत्वा निश्चय एव व्यवहर्तव्यो
न संशयः ।

अत्रोच्यते । तत्त्वतः कार्यकारणभावः प्रमाणसिद्धोऽस्ति न वा ? संश्च नियत
विषयोऽन्यथा वा ? नेति पक्षे सर्वमयत्नशीर्णम्, साधनदूषणयोरप्यनवकाशादिति
विभक्तं क्षणभङ्गे । सन्नपि यद्यनियतविषयः, तदापि सन्नेवेति विस्तृतं शास्त्रे । न च
स्वर्गाद्यर्थिनो वेदेश्वराद्यनुवर्तनं नियमेन वाच्यम्, ब्रह्मवधादेरपि तल्लाभप्रसङ्गात् ।
ततोऽस्ति चासौ नियतविषयश्च यथोक्तप्रत्यक्षानुपलम्भसाधनश्चेत्यवश्याभ्युपगन्तव्ये
174
आयाते निश्चयस्य सिद्धत्वाद् गत्यन्तराभावोऽसिद्धः, 7b तमन्तरेण स्वाभाविक
सम्बन्धसिद्धेरप्यनाश्रयत्वात् । यत्तु यत्नेनान्विष्यन्त इत्यादि, तत्रापि व्यभिचारान्वे
षणमेवोपाध्यन्वेषणं विद्मः । व्यभिचारमन्तरेणोपाधिव्यवस्थाया अशक्यत्वात् । ततो
यावद् धूमदर्शनम्, तावद् व्यभिचारशङ्कयोपमृद्य निरूपणापर्यवसाने गतमनुमानेनेत्युक्त
प्रायम् । अन्यथा यत्नेनान्विष्यमाणा इत्यस्य कोऽर्थः ? कतिपयवाराव्यभिचारगोचरीकरणे
हि परत्र कीदृशी निर्वृतिः ?

यदपि स्यादेतदिति वल्गितं तदपि निःसारम् । प्रमाणसिद्धे हि रूपे स्वभावाव
लम्बनम् । न तु स्वभाववादबलेनैव वस्तुरूपव्यवस्था । तद् यदि नियतविषयान्वय
व्यतिरेकग्राहकप्रत्यक्षानुपलम्भप्रमाणसिद्धे हेतुफलभावे स्वभाववादः, तत् किमायातं
स्वाभाविकसम्बन्धे ? यत्र तदुत्पत्तिप्रतीतिसामग्रीं हृदयेन दूरीकृत्यान्यतः सहचरित
द्वयाविशेषप्रतीतौ प्रतीत्युपाय एव दवीयान्, तत्सामग्र्यपेक्षणे च तदुत्पत्तिरेव सा ।
किमाहोपुरुषिकया नामान्तरकरणेन ? अत्रान्तरे भूयोदर्शनजनितसंस्कारसहायेन्द्रियेण
ग्रहणपर्यन्तं पूर्वदूषणेनैव निरस्तम् ।

यच्चायं संशयस्य विशेषदर्शनापेक्षया,

सामान्यदर्शनाद्विशेषादर्शनाद्विशेषस्मृतेश्च संशयः ।
वै. सू. २. २. १७.

इति लक्षणक्षतिं संशयमनिच्छन् उत्कलयति, तत्र किं लक्षणक्षतिभयात् प्रमाणाविषये
द्व्याकारबुद्ध्यैव न भाव्यम्, उतश्वित् द्व्याकारत्वेऽपि नासौ संशय इत्यभिमतम्,
अथ तत्त्वतः संशयो भवतु मा वा वयं तु संशयत्वेन व्यवहरामोऽस्मल्लक्षणक्षयादिति
पक्षाः । प्रथमस्तावदसम्भवी, विकल्पोल्लेखितस्य रूपस्य साधकबाधकयोरेकान्तसाधन
योरभावे श्वः प्रियागमनवार्तादिवत् किं सत्यमेतन्न बेत्युभयाङ्गोल्लेखिविकल्प
जन्मनो राजाज्ञयापि निषेद्धुमशक्तेः । शक्यन्ते हि कायवाग्व्यवहारा अन्यादृशेऽपि चेतसि
बलादेव भयादिनान्यथा कर्तुम्, न तु चित्तविवर्तः प्रमाणाप्रमाणद्वारायातः । एतत्
तु स्यात् । भूयसैकभागस्योपलम्भात् परिपुष्ट इव सोऽङ्गः परिस्फुरति, एकान्ताशक्तेस्त्वन्यो
भागः क्षीण इव, तादृक्सामग्रीविरहे पुनरुभयोऽपि साधारणः । यथा तत्र वेश्मनि
काकः किमस्ति नास्ति वेति द्व्याकारतापि क्वापि नापैति । स एव संशयार्थ इति
द्वितीयोऽप्ययुक्तः । अन्यथानिश्चयाकाराभ्यां भ्रान्तिसम्यग्ज्ञानाभ्यां भिद्यमानो
175
यदि न संशयस्तत् किं तुरीयो राशिरेषः, ततस्तमगृह्णतो लक्षणस्यैवायमस्तु दोषः, न
लक्ष्यमन्यथाकर्तुं शक्यम् । अत एवान्तिमोऽपि नोपयोगी । उभयभागावलम्बि संवेदनं
चेदेकान्तक्रियामपेक्षमाणं सिद्धम्, तावतैव स्वाभाविकसम्बन्धासिद्धेः किमत्रभवतः
सन्देहव्यवहारापेक्षया इत्यलं बालवादितया ।

मानसदूषणे तु सिद्धसाधनमेवास्तु किमत्रापि परिश्रमेण ? स्वभावप्रतिबन्धे
तु गमकत्वं 8a सिद्धसाधनमेव । स तु तदुत्पत्तिलक्षण एवेति स्थापितम् । एवं च
भूयोदर्शनसामर्थ्यकदर्थनात् तत्सहायानि मानान्तराणि प्रत्यक्षविषयस्वभावप्रति
बन्धसिद्धये बन्ध्यानि बोद्धव्यानि । विपर्ययबाधकमेव तु प्रमाणमनुमानमुन्नेयम्,
तदभावे विपक्षवृत्तिनिषेधस्याशक्यत्वात्, तत्पुत्रताया इव श्यामत्वे । यत् पुनरत्र
अन्नपानपरिणतिभेदस्योपाधेर्भावात् स्वाभाविकसम्बन्धवैधुर्यमुत्तरम्, तन्न युक्तम्,
आहारपरिणतिभेदस्योपाधित्वनिश्चयाभावात् । यथा हि दहनमात्रादनिन्धनान्न धूम
इति धूमेन वह्नेः सम्बन्धि इन्धनमुपाधिरुच्यते, तथा यदि मैत्रजनितस्यापि कस्यचिद्
विवक्षिताहारपरिणामविरहेण श्यामतोपालप्स्यते स उपाधिर्निरचेष्यत, तदा किमुपाधि
वादेन, व्यभिचारादेव न मैत्रपुत्रत्वं गमकमितीयतैव पर्याप्तत्वात् ? न चैवं शक्यम् ।
तत् कथमसावुपाधिर्निश्चितः ? किंश्विन्मैत्रस्यैव जन्मान्तरप्रणिधानात् सप्ताष्टापि
दृश्यमानाः श्यामतनवः सूनवो न जाताः किमत्र प्रमाणम् ? तद्वत् तर्हि मातुरपि
सुतानामपि वा प्रणिधानमाशङ्क्येत । तत्पुण्यप्रणिधानयोरदृढत्वे चाहारभेदस्यापि
शक्तिः संभाव्यते । तत्र किंप्रयुक्तमेषां श्यामत्वमिति शङ्कैव उपाधिशंकानुमानमनव
काशयति । किं तन्निश्चयेन ? पर्यवसितमिदानीमन्तिमेन श्यामतासाधनेन । यद्विपक्ष
निवृत्तं पक्षसपक्षविश्रान्तमबाधितविषयमप्रतिहेतुम्, तत्पुत्रताहेतुमहेतूकर्तुमुदरं मृदित्वा
संशयपिशाचमुत्थापयता कथं न भीतं भवता ? तस्मात् तत्पुत्रतायाः श्यामत्वे
प्रतिबन्धसाधकप्रमाणाभावादश्यामतायामदर्शनमात्रेणासम्भवानुपपत्तेरहेतुत्वमित्येव साधु,
किमन्तर्गर्डुनोपाधिवादेन ?

सन्दिग्धविपक्षव्यावृत्तिकत्वं च हेतुदूषणं तात्त्विकमेवाभ्युपगन्तव्यम्, न
ह्यन्यथा सर्वाङ्गसुन्दरस्यास्य हेतुत्वापसारः शक्यः । अपि चैवमनभ्युपगमे वङ्रे
लोहलेख्यत्वसाधनाय प्रार्थितस्य पार्थिवत्वहेतोः कमुपाधिमीक्षमाणो नानुमानमनुमन्यते
भवान् ? अथ प्रशिथिलावयवेषु काष्ठादिष्वयःकोटिमज्जनं दृष्टं दृढं च वज्रमिति स
एवोपाधिरिति चेन्नैवम् । न खलु घनावयवत्वेन शतकोटिस्फटिकयोर्विशेषमुपलभामहे,
यतस्तरणिमणावप्रतिहन्यमानमयः पवौ प्रतिहन्येतेति स्यात् ।

176

स्यादेतत् । वज्रे व्यापार्यमाणमयः प्रतिहन्यमानमुपलब्धं तावत् । ननु यस्य
साध्यविपर्यबाधकं साधकं वा प्रवृत्तम्, न तं प्रत्यनुमानप्रसञ्जनमारब्धम् । यस्य तु
शतशिखरपक्षीकरणमात्रं वर्तते, तेन कथमनुमानमुपाधेरबोधात् स्वाभाविकसम्बन्धा
वधारणेऽपि परिहार्यमित्युक्तप्रायम् । अथ पार्थिवे उपाध्यन्तरानवधारणेऽपि स्वागतः
कश्चिद् विशेषो भविष्यत्युपाधिर्यतो न लोहलेख्यत्वमिति चेत् ? अत्र तर्हि 8b
लब्धावकाशा शङ्कापिशाची धूममप्यनुधावेत्, धूमस्यापि स्वागतः कश्चिद् विशेषो
भविष्यति, येनाग्निं विना भविष्यति । ननु यत्नेनानुसरन्तो नोपलभामहे धूमे
स्वगतविशेषलक्षणमुपाधिम् । वज्रे तु पार्थिवेऽवगच्छामो लोहव्यापारणात् ।

तत् तर्हि लोहव्यापारणं प्रवृत्तेऽनुमाने प्रयोजनेन, उत यदृच्छया, आहोस्वित्
जिज्ञासया ? आद्यपक्षे महती प्रयोजनसिद्धिरनुमानादित्यनुमानान्तरमपीदृशमेव
भवतः । यदृच्छया तु न तावान् श्रमः, यावता लेख्यनिश्चयः । भवतु वा तस्याननु
मानम्, अन्यस्य कथम् ? जिज्ञासा तु निरवकाशैव । तथा हि मृत्काष्ठपाषाण
तीक्ष्णभेदेषु पार्थिवेषु कोटिशोऽयःकोटिमज्जनदर्शिनो व्यभिचारस्याप्यदर्शनात् स्वा
भाविकसम्बन्धनिश्चयाल्लेख्यतानुमानेन निरस्तव्यभिचारसंशयस्य क्व तत्पूर्वकजिज्ञासा
वकाशः ? अन्यथा सौधशिखरात् पर्वतनितम्बसंवाहितं धूममप्युपलभ्य भूयोदर्शनेन
स्वाभाविकसम्बन्धबोधवतस्तत्रापि जिज्ञासैव स्यात्, नानुमानम् । ततः सर्वथा
नुमानापसार एव । कतिपयवारसंवादे चान्यदा जाते स्वाभाविकसम्बन्धनिश्चयात्
कालान्तरे धूमादनुमानमन्वेति न यावज्जीवं संवादे पार्थिवतादिवदिति श्लाधनीयप्रज्ञः ।

अथ पार्थिवत्वेऽपि काठिन्यतारतम्यदर्शनात् क्वचिल्लेख्यतानिवृत्तिरपि संभाव्यत
इति भूयस्यपि संवादे पार्थिवत्वाद्यननुमानम्, धूमे तु नाग्निनिरपेक्षतातारतम्योपलम्भ
इति चेत् ? नन्वग्निरपेक्षेतेत्यग्निविच्छेद एव वक्तव्यः । न च यत्रात्यन्तिकविच्छेदो
भावी तत्रावश्यं प्राग्विच्छेदतारतम्यदर्शनं निगडपुरुषवत् । अन्ते तु कतिपयक्षणे
धूमेऽपि भविष्यति, केवलं न पुरुषनिगडवत् पृथक्सिद्धयोर्धूमानलयोः संयोगमात्रम्,
किं तु धूमस्य धूमध्वजादेव जन्मेति नान्तेऽपि विच्छेदशङ्का । तावद्विशेषास्पर्शे तु
शङ्कैव । तस्माद् वह्निविच्छेदिनः स्वरूपस्य धूमे पार्थिवे वा लोहलेख्यताया आहत्या
दर्शनमात्रं भूयो विपर्ययदर्शनं च साधारणमिति नैकनियता स्वाभाविकसंबन्धसिद्धिः,
साध्ये नौपाधिकव्यवस्था चेति समानमनुमानमननुमानं वा ।

177

यदा तु धूमे तदुत्पत्तिरेव व्याप्तिसाधनी, भेदाभावात्, न तु पार्थिवे
लोहलेख्यत्वेन, नापि तादात्म्यम्, स एव लोहलेख्यत्वमेवात्मा अस्येत्यसिद्धेः ।
विपर्ययबाधकस्यानुमानस्य दर्शयितुमशक्यत्वात्, कृतकत्ववत् । प्रत्यक्षस्य च
जातिविशेषाधिकारेणैव प्रवृत्तेः, यावतीषु पार्थिवजातिषु लोहलेख्यत्वमुपलब्धम्, तत्रैव
व्याप्तिसिद्धिर्नान्यत्र । तदा धूमकृतकत्वादिर्हेतुः, पार्थिवतत्पुत्रत्वादिस्तु सन्दिग्धविपक्ष
व्यावृत्तिको हेत्वाभासः । एवं तच्छाखाप्रभवत्वादि, प्रथमप्रसवोद्रिक्तवातातपस्पर्शाद्य
पेक्षया पाकस्य 9a क्वचिदेकशाखाप्रभवेऽप्यभावशङ्कनात् । तदेवं कस्यचिदर्थान्तरेण
व्याप्तिप्रक्रमे यदि भूयोदर्शनमुपायः, तदा विपक्षादनीक्षामात्रेण निवृत्त्यसिद्धेः, तादृशां
व्यभिचारदर्शनाच्च सन्दिग्धविपक्षव्यावृत्तिकतया नैकान्तिकेन साध्यसाधनं धूमादिः ।
स्वाभाविकादिवादेन तु हृदयलेपनमशुचिनेव परिहार्यम् । डिण्डिकरागमात्रादापाततः
परस्वीकरणमात्रोपयोगिनोऽतिरिक्तस्यार्थस्य प्रतिपादनादिति प्रतिपादितम् ।

तस्माद् भेदे तदुत्पत्तिप्रतीतिरेव व्याप्तिप्रतीतिः । सा च प्रत्यक्षानुपलम्भा
भ्यामेव । भवतु भेदे तदुत्पत्तिप्रतीतिरेव व्याप्तिप्रतीतिः, न तु प्रत्यक्षानुपलम्भाभ्याम्,
वर्तमानक्षणग्रहणनियमात् प्रत्यक्षस्य, अनुपलम्भस्य च तत्स्वभावत्वात् । यच्चाध्य
वसायापेक्षयाशेषसजातीयविशेषत्वमाख्यातमक्षधियः, तत्राप्यध्यवसायो नामानन्तरो
विकल्प एव । ततस्तद्वशेन प्रत्यक्षं सर्वविषयमिति याचितकमण्डनमेतत् । तद्वरमग्नेर्धूम
इति सकलोभयव्यक्तिलक्षणसामान्यद्वयालम्बनो विकल्प एव तद्भावग्राहकः स्वीक्रियताम्,
प्रमाणान्तरं प्रत्यक्षान्तरं वा, अनधिगताधिगमादध्यक्षव्यापारकाले भावाच्चेति चेत् ?
तदप्यसारम्, विकल्पेऽपि हि सर्वविषयत्वमध्यवसायसरणमेव, स्वलक्षणस्फूर्तेरभावात् ।
एकव्यावृत्तच्छायानुकारमात्रेण स्वाकारस्यैव प्रतिभासनात् । तत् कीदृशोऽस्य विशेषः
प्रत्यक्षात् ? केवलं स्वानुरूपानुव्यवसायाद्युत्तरप्रबन्धापेक्षया विकल्पे विषयाध्यवसाय
व्यवस्था । प्रत्यक्षे तु तमपि विकल्पमादायेति भेदः । समस्तवस्तुस्पर्शस्तु नैकत्रापि ।
न चान्योऽस्ति ग्राहकप्रकार इति चर्चितम् ।

तस्मात् संव्यवहारे सिद्धमध्यवसायेनापि विषयव्यवस्थानमपरिहार्यमनु

178
भवविकल्पयोश्च साधारणमिति प्रत्यक्षविषयीकृते हेतुफलभावे मानसव्यवहारस्वभावोऽपि
विकल्पः स्मृतिरेव, न प्रमाणम् । उचिता चैकदेशद्वारेणापि समुदायस्पर्शादशेषसजातीय
ग्रहणव्यवस्थाध्यक्षस्य, न विकल्पस्य प्रकृत्या बहिरर्थस्य । तस्मात् प्रत्यक्षानुपलम्भसंभवैव
हेतुफलभावस्वभावव्याप्तिसिद्धिरिति स्थितम् ॥

॥ व्याप्तिचर्चा नाम प्रकरणं समाप्तम् ॥
॥ कृतिरियं महापण्डितज्ञानश्रीमित्रपादानाम् ॥
  1. ता. टी. पृ. १३८

  2. प्र. वा., ३. ३२४