तृतीयः परिच्छेदः
कथं पुनः स्वसंवेदनमात्रस्थितौ हेतुफलभावसिद्धिः, यतः प्रकृतफलहेतुपद्धतिरव
धानभाजनीभवतु ? तथा हि, न पूर्वा न परा नापि तदुभयवासनाप्रसूतानुसन्धानरूपा
बुद्धिरस्मादिदमिति भेदग्रहणनान्तरीयकं हेतुफलभावानुभवव्यवहारमवतरीतुं शक्नोति,
सर्वासां स्वविन्मात्रमयतयान्यदीयवार्तापरिचयानुपपत्तेः । यद्यपि चाद्य धियावधि
मात्रमधिगतं तथापि नावधिमत्, परया चावधिमदेव नावधिः । अनुसन्धानधिया
तु नैकयापीति कोऽपरः प्रतिपत्ता ? अवधिरवधिमदित्यपि तद्वलादेव यस्मान्नैकमपि
विषयः ततश्च तयोरपि शुद्धस्वरूपमेव विषयः ।
एतेन पूर्वापरभावः प्रत्याख्यातः, पूर्वापरतयापि कयाचिदग्रहात्, येन तदात्मक
एव हेतुफलभाव इति मनोरथसिद्धिः । न हि प्रत्यक्षस्यात्र व्यापारः, भिन्नप्रतीत्यभावे
पूर्वापरत्वादेर्दूरीकृतत्वात् । अथापि स्यात्, क्रमेणोदयात् पूर्वापरीभावस्तावदस्ति, ततः
पूर्वापरा बुद्धिरात्मानं पूर्वापररूपमेवानुभूतिगोचरीकरोति । विमर्शाकारविरहात्तु शब्द
एव परमप्रवर्तितः । न च तावता वस्त्वनुभवहानिः, न हि नाम रूपं वस्तूनाम्, तदपि
पश्चादनुसन्धानबुद्ध्या प्रवर्तते । न च 87b तावता तस्याः स्ववेदनक्षतिः ।
स्वसंविदितैव हि परत्र बाधकमुपस्थापयति, पूर्वपूर्वाहितविशिष्टसंस्कारद्वारेण
नियतपूर्वापरभावबोध एव च हेतुफलबोध इति ।
अत्रोच्यते,
समस्तमेतद् व्यवहारयोग्यम् ।
क्व भेदपूर्वापरभावयोगः ॥
परस्परं तस्य तथा भिदापि ।
न्न बाह्यमस्त्येव च बाह्यमानः ॥
तथा धियोऽपि ग्रहणं स्वयं तु ।
किञ्चित्करो नानुभवोऽन्यथा हि ॥
स्वसिद्धमेवाप्रमयापि तत् किल ।
स्फुटं वियच्चित्रणमीदृशी स्थितिः ॥
यतो न जातु प्रतिपत्तिगोचरः ।
सहेत सन्देहमबाधितं यदि ॥
विना न सोऽप्यन्ध इवान्यवेदने ।
न विप्लुतः स्वात्मनि तत्र न क्रमः ॥
परापरीभूतमपीक्षितं न हि ।
भ्रमेऽपि न स्वस्य तथा विवक्षितम् ॥
ननु हेतुफलभावविलोपस्त्वयापि कथं साध्यः, प्रमाणाभावात् ? न हि प्रत्यक्षं
निश्चायकम्, अविकल्पकत्वात् । नापि विकल्पमात्रम्, अतिप्रसङ्गात् । प्रत्यक्षजे
लिङ्गजे वावसायः स्वकारणस्यार्थस्य निश्चायकः प्रतिबन्धादिति चेत् ? प्रमाणसिद्ध
एव तर्हि हेतुफलभावः कथं बाध्यः स्यात् ?
तदयुक्तम् । न ह्येवं प्रमाणसिद्धिरुपपादिता भवति, प्रत्यक्षस्य हेतुफलभाव
ग्रहनिषेधेऽप्रवृत्तिनिषेधाक्षेपात् । परोपगमापेक्षायां न च स्वतन्त्रसिद्धिः, प्रसङ्गस्या
साधनत्वात् । केवलं परस्य प्रतिषेधप्रतिबन्धमात्रमुपसंहरेदयमुपन्यासः ।
414
तथा च,
इत्यादि । न च परस्य निषेधप्रतिबन्धे कृते स्वयं सद्व्यवहारसिद्धिः । अथ परस्यापि
परामर्शसिद्धिप्रतिबन्ध एव, न केनचित् प्रमाणेन हेतुफलभावसिद्धिरिति नासद्व्यव
हारसिद्धिरिति चेत्— न, परेण तन्मात्रस्यैवारब्धत्वात् । सत्ताव्यवहारोऽपि हि
प्रसाधकप्रमाणाधीनः सिद्धः, तद्यदि हेतुफलभावेऽपि किञ्चित् प्रमाणं स्यात्, स्यात्
तद्भावः । तदभावे कथमेष इति ? तदयं हेतुफलभावः क्वचित् कदाचिदुपलम्भसं
भावनाविनाकृतो बहिरर्थेन सार्धं निरत्ययां मैत्रीमावहति ॥
तदस्य तन्मैत्रीकृतो विधिः प्रतिषेधो वावधेयो धीमतामस्तु, किमपरेण ?
ननु तथाप्यत उपपत्तेरेतदायातमिति निगमयतोऽपगत एव हेतुः, अवश्यं चान्ततोऽनुप
लम्भोऽपि समाश्रेयः, तत् कथं हेतुपरिहारेण कश्चिद् युक्तिन्यासः ? न हि तादृक्
प्रस्तावे शक्यं मूकेन स्थातुम् ॥
किं च स्ववचनव्याहतमप्येतत्, अतो हि वचनादर्थप्रतीतिरस्य स्यादिति
बचनोच्चारणमञ्जसा हेतुफलभावाभ्युपगमनान्तरीयकमिति कथमपवदेत् ? अपि च,
हेतुफलभावप्रभावितत्वात् सर्वव्यवस्थानां प्राणप्रयाणमायातमेतस्मिन् मत इति ।
एतदप्यसङ्गतम् । न हि सर्वथाध्यवसायसिद्धोऽपि नास्ति हेतुफलभाव इति, किं तु
तत्त्वतः । ततो,
न खलु पूर्वापरभावव्यापिभेदग्रहणविरोधिनि स्वसंवेदने च स्थितिः पूर्वापरी
भूतहेतुफलस्वभाववेदनं चेति सचेतसामादरविषयः, तद्वरं हेतुफलग्रहणमाञ्जसं मृष्यतां
विज्ञानवादव्यसनपरित्याग एव युक्तः । ततो यथा प्रकाशादिहेतवो निरालम्बन
साधनाः संवृतिमाश्रित्य व्यवहारस्मारणोपयोगिनः, तथा शक्तिसाधनान्यापि प्रमाण
वचनानि न विरुध्यन्ते । भेदग्रहणपूर्वकश्च हेतुफलभावो विदितः सांव्यवहारिकस्य ।
अभेदग्राहिणि प्रत्यक्षे उपजाते स्वयमेव परिगलति, कदाचिदभेदमेव न गृह्णीयात् ।
तत्र द्वयोरपि वादिनोर्यावद्धेतुव्यापारपरिस्फुरणं तावत् साधु, संवृतिस्थितयोरेव
विवादात् । तत्र च हेतुमन्तरेण क्व सिद्धिवार्ता ? तर्हि हेतुना हेत्वभावः साध्य इति
हेतुरात्मानमपाकरोतीत्यर्थः स्यात् । नायं विरोधः, परमार्थे तावद्धेतोरेवाभावात् ।
क्रमात् सर्वप्रपञ्चोपशम एव शिवं यतः2559 ॥
प्रतीत्योत्पन्नतामात्रं निरंशं स्वविदागतम् ॥
संवृतौ तु हेतुरपि सन् साध्यमपि साधयति, व्यवस्था अपि स्वस्थाः । क्वात्म
वधोपालम्भः ?
यथान्यत् तद्ग्राहिस्मृतिमपि तथा संप्रथयति ।
प्रपञ्चोऽयं चित्रः कथमिव तदापह्नवसहः ॥
इति संग्रहः ॥
कथं तर्हि हेतुना हेत्वभावसिद्धिरिति । अयमस्यार्थः । हेतुद्वारायातपरमार्थ
रूपानुकारिणि 88b विकल्पे यः पूर्वापराकारविरहप्रतिभासः स एव हेतुफल
भावग्रहाभावः, ततः सव्यापारप्रतीततामुपादाय निर्व्यापारोऽपि स्वप्रतिभास एतस्मिन्
सव्यापार इव लक्ष्यते । ततः स हेतुर्हेत्वभावहेतुरिति प्रख्यातिः । न च कल्पनाकार
विवर्तविशेषादन्यस्तत्त्वाभ्यधिगगोपायः । न तु स्वविदेकलक्षणपरमार्थनिष्ठायां कस्यचित्
क्वचिद् विवादः, साधनदूषणावतारो वा । संवृतौ च तस्य दूरभावेऽपि कथञ्चित्
तदाकारस्फुरणमेव शरणम् ।
अतएव च वचनादर्थप्रतीतिः स्यादिति जानानस्य हेतुर्नास्तीति प्रयोगस्तत्त्वत
इति विशेषणापेक्ष एव । तथा च न विरोधः सर्वथापह्नवे तु स्यादेष दोषः, यथा
अवाचकः शब्दः, नानुमानं प्रमाणमिति, तत्रापि तत्त्वत इति विशेषणान्न क्वचिद्
व्याधातः अनुमानमपीन्द्रियप्रत्यक्षवत् संव्यवहारत एव प्रमाणं, न तत्त्वतः, संबन्ध
ग्रहणाद्यपेक्षत्वात् । न च स्वविन्मात्रमग्नेन तच्च शक्यम्, स्वभावहेतावप्यन्वय
व्यतिरेकयोः प्रतीतिभेदसाध्यत्वात् । संवादाच्च प्रामाण्यं, न च क्वचिद् भिन्ने वस्तुनि
संवादः । तस्मात् स्ववेदनातिरिक्तस्य प्रामाण्यं सांवृतमेव, तथा हेतुफलव्यवहारोऽपि
सांवृत एव, एकप्रतीतिकत्वादुभयोः,
इदमितो जातमिति च,
तथा च सूत्रम्, 418
अनुत्पादमिति फलनिषेधः । चित्तमात्रस्थिति89a रेव हेतुफलनिषेधो
व्यक्तः ।
र्यावदेव बहिरध्यवसायः ।
व्यापृतिं न परतो न तु यद्वत् ॥
नानुमा च परमां विदं विना ।
स्वं परं च मम हेतवस्तथा ॥
रूपत्रयनिरूपणविशुद्धसाधनप्रभवं प्रकृत्या बहिर्मुखप्रवृत्तिकमनुमानमन्यवित्ति
नान्तरीयकमपि परबोधसाधनाय साधनीकुर्वन्तः क्वचित् प्रकरणे तदर्थानुवादिनमेव
विरोधदूषणेन चोदयन्तीति क एष न्यायः । केवलं यथा पृथग्जनो नानुमानप्रामाण्यं
परिहृत्य जीवितुं शक्तो द्वैताभिनिवेशात्, तथा तदवस्थापितसत्याधिमोक्षमपि । य
एव च तत्सिद्धस्वबोधमात्रतायां सत्याधिमोक्षः स एव बाह्यानुमानयोरपमानः । न
च तथा स्थातुं शक्यम्, अन्यथा तदैव साध्यसिद्धेरभ्यासलक्षणप्रयासनिरासप्रसङ्गात् ।
ततस्त एव विप्लवमहिम्न आत्माधिमोक्षादिव प्रवृत्तौ साक्षात्क्रियालाभे प्रतिषिद्धः
सर्वत्रगो धर्मधातुरिति नानुमानस्यापलापे पुनः प्रत्यावृत्तिः क्षोणेन्धनशिखिनः क्षयेऽपि
भस्मवत् । अत एव,
संवृतिसंज्ञिता विकल्पबुद्धिरित्यर्थः । अयमेव चार्थो हेतुफलविचारप्रस्तावे
अनूद्यते, नाधिकं विधीयते । यावदेव बहिर्मनोऽनुमानमाननं च, अयमेव हेतुफल
स्वीकारः, तदैव तदाश्रयस्यैव लिङ्गस्य, परोक्षे ज्ञापकत्वात्, तत्प्रतीतौ कारकत्वात् ।
यश्च पश्चादात्मवेदनमात्रस्थितौ तत्परिभवः स एव हेतुफलभावस्येति किमत्राभिनि
वेशेन ? कथं तर्हि विज्ञानवादे वार्तिककारस्य कारकज्ञापकव्यवस्था ? सत्यमवान्तर
व्यवस्थामात्रमेतत् । अतएव बुद्धिराश्रित्य कल्प्येतेति वचनरीतिः । तत्त्वनिष्कर्षे तु,
419
इत्यादि ।
तदयमर्थः, अद्वैतादर्वाक् प्रतिपाद्यजनस्य मृदुमध्याधिमात्रबुद्धिभेदाद् यथा
तथा वा व्यवस्था क्रियेत, क्रमेण मतिपाटवात् तत्र तत्रानवस्थितावद्वैते विश्वासः ।
अत एवोत्तरोत्तरपरमार्थवत्संवृतेर्नानात्वेऽपि तदपेक्षो हेतुफलभावावतारस्त्रिविधप्रत्यक्षा
नुपलम्भसंभव एव तत्त्वम् । स्वाभिप्रेतेऽपि वञ्चना मा भूदिति ततः संवृत्यन्तरादियमेव
संवृतिरुपादेया, न पुनरपरमार्थाभिनिवेशाविशेषेऽप्यधमा, अभिप्रायसंवादेतराभ्यां
विशेषात् । तदयमपर्यनुयोग एव कथमप्रमाणात् प्रतीतिमात्रादर्थसिद्धिः किं पुनर्विचार
बाधितादिति ? न हि तत्र काचिदर्थसिद्धिः पुरुषपरितोषमात्रादन्यत्र । यादृशी
सा प्रतीतिरेव प्रतीतिः, तथानर्थसिद्धिरेवार्थसिद्धिरिति यक्षानुरूपो बलिः । यद्यार्य
हृदयानुरोधः, अस्मदीयहृदयेन तु सर्वमस्ति, निपुणेन तु प्रतिपत्त्रा तथा प्रतिपत्तव्यम्,
यथा परितोषमात्रेऽपि विप्रलभ्येत । अत एवाह,
तस्मान्न सांव्यवहारिकस्य प्रतिनियतसाधनानुसारदोषः, अन्यस्य क्व परितर्षः ?
नन्वस्मन्मतेन तावत् सर्वमस्ति, तत्त्वसाक्षात्कारिणां तु नास्तीति क्वावस्थानमस्तु ?
सत्यम्,
तदत्र स्वातन्त्र्यमिच्छायाः ।
तस्मात् तत्त्वतः कार्यकारणभावाभावेऽपि संवृतावशक्यपरिहारत्वात् कथम्
अनवधेयः ? प्रकृतस्य फलस्य हेतुसंभारात् संभवः, सांव्यवहारिकस्यैव तदनुष्ठानार्थितया
तदनुसरणात् । तत्त्वसाक्षात्कारिणस्तु यथा न हेतुफलभावसिद्धिः क्वचित्, तथा
नुष्ठानमपि न क्वचित् । कथमनर्थकारिणः सत्त्वमिति चेत्—न, अस्मदपेक्षया स्त्रक्षणा
420
क्षीणपरार्थक्रियाप्रबन्धाविच्छेदात् । तत्त्वतस्तु प्रकाश एव वास्तवी सत्तेति व्यवस्थापितं
चित्रस्यैव रूपस्येति स्थितम् ।
ननु तथापि,
नानाकारं हि चित्रमभिधीयते, ततः परस्परविरुद्धधर्माध्यासिनामाकाराणां
कथमभेदः ? भेदोऽपि तर्हि कथमेकवेदनान्तर्गतानां भिन्नसन्तानवत् परस्परमसंवेदनात्
एकस्यैव कस्यचित् प्रतिभासप्रसक्तेः । तदयुक्तम्, विरुद्धधर्माध्यासस्य तदवस्थत्वात् ।
तस्मादनेकमेवेदम्, अभिन्नोपादानजन्यत्वात्तु परस्परमध्यक्षभावः साहित्यप्रतिभास
स्वभावः । सन्तानान्तरभुवां तु बुद्धीनामभिन्नोपादानताविरहान्नातिव्याप्तिः ।
अत्र चिन्त्यते,
न हि संवित् परसंविदमाविशति । एकसंविदर्गलविगमादेव च स्वपरविदाम्
अन्योन्यवेदनापवादः । स चाप्रच्युतः प्रस्तुतेऽपीति न विशेषः । ननु साहित्यप्रतिभासे
व्यवस्थाप्ये किमेकसंविदावेशेन, साध्यविरोधिना तमन्तरेणापि क्षतेरभावात् ? ननु
साहित्यमित्यपि सहचारमात्रं तद्देशकालोपनियते लक्षणं ख्यातम् । प्रतिभासश्च तेषां
स्वस्वरूपसाक्षात्करणमिति नान्योन्यवेदनमुपपादितम्, सन्तमसमग्रसन्निहितानेक
पुरुषवत् । ततः परस्परसंविदावेश एव परस्परवेदनव्यवहारोपयोगी किमत्र साहित्य
मात्रेण ? अथ सर्वेषां सर्वत्र प्रतिभास एव साहित्यप्रतिभासशब्देनाभिमतः, तदा
साहित्यप्रतिभासेऽपि साध्ये विरुद्धः सर्वत्रैकसंविदावेश इति रिक्ता वाचोयुक्तिः ।
तदर्थत्वे हि सहाय एवायम् ।
मा भूद् वा साहाय्यं साहित्यप्रतिभासस्य तु परस्परप्रतिभासार्थत्वे 90a
अभिन्नोपाद्वनत्वेऽपि भेदानिषेधात्, न हि स्वसंवित्परसंविदमाविशतीत्यत्र दूषणे
किमुत्तरींकृतमिति न विद्मः, पर्यायमात्रघोषणे विशेषापोषणात् ॥
आविशन्ति मिथो वित्तिमन्यथा भेद एव कः ॥
साक्षात्कुर्वन्ति चान्योन्यं किमप्येतन्महाद्भुतम् ॥
अपि च,
स्वभावस्याभेदो भवतु न तु भिन्नेऽप्यनुभवः ।
सृजेच्चेतस्तत् किं भयमुभयथा लक्षणहतेः ॥
एवं हि सत्युत्पत्तिसारूप्याभ्यां यद् ग्राह्यलक्षणं तस्य दूषणाद् भीतिर्न काचिद्,
बहिरर्थवादिनोऽन्यथैव ग्राह्यग्राहकभावस्य सुलभत्वात् । तत्रोपादानाभेदात् परस्परमनुभवः
सर्वेषामनुभवस्वभावत्वात् । एकसामग्रीजन्यत्वे तु जडानुभवयोः प्रतिनियतं वेद्यत्वं वेदकत्वं
च स्यात् । तत्प्रतिबन्धाच्च नातिप्रसङ्गः । अथ जडस्यापि तदानीं स्फुरणात् कुतः प्रति
नियमः ? जडोपादानत्वादेव ग्राह्यं, तदन्यद् ग्राहकमिति । इन्द्रियेणातिव्याप्तिरिति चेत्—
न, सामग्रीसामर्थ्यादेव नीलस्यैव वेद्यत्वेनोत्पत्तेः ।
अथ प्रकाशोत्पत्तेः साधारणत्वदोष इति चेत् ? वेद्यत्वेनोत्पत्तिर्न प्रकाशत्वेन ।
किमिदं वेद्यत्वमिति चेत् ? स्वसंविदितयोः किमिदं परस्परवेदनमिति समानम् । अथ न
वेद्यत्वं प्रकाशोत्पत्तेरन्यदिति चेत् ? तथापि साधारणत्वं सामग्रीबलादेव परिहरिष्यते ।
अथैकरूपत्वाद् वस्तुनो नीलत्ववत् प्रकाशेनाप्रकाशेनापि नन्वसाधारणेन अभूत्वा स्थातुम
शक्यम् । शक्यमेव सामग्रीबलादिति तूष्णीकामास्यताम् ।
अथ प्रमाणव्याहतोऽयमर्थ इति क्व सामग्र्याः शक्तिरुपनीयताम् ? यस्तर्हि
तदवतारमपि नापेक्षते स्वरूपनिरूपणे स्वयमेव परिगलति, तत्र कथमुपादानाभेदनिर्देशः ?
न हि द्वयोः प्रकाशयोरुत्पन्नयोरेकेनान्यः प्रकाश्यते, एकस्यान्यः प्रतिभाति, एकस्मिन् वेति
काचिदर्थसङ्गतिः । यथा हि प्रदीपस्य स्वप्रकाशः कथञ्चिद् विदितो ज्ञाने तदनुसारेणानु
गम्यते, तथा न प्रदीपानामन्योन्यप्रकाशतापि काचिदुपलब्धा, ततो यथा दीपेन दीपान्तरं
प्रकाशितमिति विप्लवस्तथा ज्ञानेन ज्ञानान्तरमिति । तत् कस्मिन्नर्थे एकोपादानमुत्तरमस्तु ?
एतेन स्वस्य वेदनमित्ययोगव्यच्छेदस्यापि नापह्नव एवातिव्याप्तिपरिहारश्चेत् सुलभ
इत्यपि निरस्तम्, परवेदनार्थस्यैवाप्रतिष्ठानात् ।
परप्रकाशोऽपि दृष्ट इति चेत् ? सोऽप्यप्रकाशोपादानस्य प्रकाशक्षणान्तरजनन
द्वारेणेत्यनवसर एव ज्ञानदीपादिषु । यस्तु तत्रापि सहभाविनमालोकं पटस्य प्रकाशक
मिच्छति सोऽपि न लोकाध्यवसायमात्रेण तत्त्वव्यवस्थेति, इदमस्येति व्यवस्था90b
निबन्धनानुमाने यदि तज्ज्ञानजननमाश्रयेत्, तत् तर्हि ज्ञानेन सहभुवार्थस्य प्रकाशनस्वीकारे
नास्तीति दुःस्था व्यवस्था । अथेहापि पृष्ठजविकल्पज्ञानापेक्षया साम्यम् ? तर्हीदमेव
ग्राहकं न पूर्वकम् । इदन्त्वभिन्नकालमिति सौत्रान्तिकमतावतारः ।
अथ नालोकस्य ज्ञानजननेऽपि तावता प्रकाशकत्वम्, ज्ञानमपि सहभाव्येव, किं तु
सामग्रीतः सहोत्पत्तिमात्रेण, तर्हि तदातनेन्द्रियाण्यपि प्रकाशकानि प्रसज्येरन्, तेषाम
प्रकाशरूपत्वादिति चेत् ? प्रकाशोऽपि प्रकाश एवास्तु, प्रकाशकस्तु कथम् ? न हि पीतस्य
सहभावमात्रेण नीलं पीतकं भवितुमर्हति । तस्मान्नाकिञ्चित्करं कस्यचित् संबन्धपद्धति
मध्यास्ते । कारणोपकारद्वारेण तु प्रदीपोऽप्रकाशस्वभावे घटादौ दृष्टः तद्व्यवहारभाक्,
ततस्तज्ज्ञानस्य ज्ञानान्तरं प्रकाशमिति गम्यमानैकोपादानभावे न षष्ठीं प्रयुञ्जीत नाम ।
न पुनरध्यक्षतापेक्षया, चैत्रस्य मैत्रः सुन्दर इत्यत्र यथा गम्यमानसौदर्यतापेक्षया, न तु
सौन्दर्यापेक्षयाध्यक्षता, सौन्दर्ययोरेकात्मनिष्ठत्वात् ।
नैवं कश्चित् प्रयुंक्त इति चेत् ? यदि परिभावकः स्यात् तदपि कथं प्रयुञ्जीत,
समानत्वात् न्यायस्य ? तदस्यान्धदुग्धन्यायेन ग्रहणे गतमेतद् ग्राह्यग्राहकलक्षणवैधुर्य
द्वारेणाद्वयसाधनं न्यायनायकस्य । न चायं न्यायः, तत् किमनेन वार्तिककारद्वेषात्
शुभगुप्तजुष्टलोटनेन ? अनेकप्रदीपवदेव तर्हि संविदः सहिताः प्रतिभान्ति भिन्नाश्चेति
वेदनेनापि कोऽर्थ इति चेत्—न, व्यतिरिक्तप्रतिपत्र्यपेक्षया हि सहिताः प्रकाशन्त इति
व्यवहारः । ननु तदभावेऽपि सहितानां प्रकाशनं न क्षीणम् । एवमेतत् । न तु
423
एकोऽप्यन्यस्य प्रकाश इत्यस्ति । स्वस्वप्रकाशरूपता पुनरयोघटीपिहितानामप्यस्तीति न
प्रस्तुतसिद्धिः । तस्मादन्योन्यसंविदन्तर्भाव एवान्योन्यवेदनव्यवहारसिद्धिः । न ह्येकदीप
प्रभवा अपि परस्परप्रकाशिनो दीपा इति वार्ताप्यस्ति ॥
क्वाप्यदृष्टेस्तथा हेतोरसाधारणता स्फुटम् ॥
बीजाभेदान्मिथो भासस्तत्र दृश्येत साध्विदम् ॥
तदयमेकसामग्रीसंभवोऽव्यभिचारद्वारेण क्वचिदेकदर्शनेऽन्यानुमानाय प्रभवेत्,
नान्याध्यक्षत्वाय, रसरूपादिवत् । एवमेकोपादानतापि सजायीयतामधिकां प्रसाधयेत्,
न स्वभावसङ्करसाध्यमन्यप्रकाशम् । अन्यथा क्वचिदेकमन्यस्य जडमित्यपि स्यादिति ।
एतेनाभिन्नोपादानत्वमेव परस्परप्रतिभास इत्यपि कल्पनमपास्तम्, एकोपादानानां
जडानामपि परस्परजडत्वप्रसङ्गात् । आत्मात्मरूपेण हि तेषामपि जडत्वम्, एवं
प्रकाशत्वमपि ॥
अपि च,
यथा हि, सौत्रान्तिकस्य सरूपजननमेव ग्राह्यत्वं, न तु तस्यापि स्फुरणम्,
एवमेकप्रतिभास एवान्यप्रतिभासः स्यान्न चित्रप्रतीतिः । किं च, एकोपादानत्वमपि
शुद्धावधेयमेतत्, स्वप्नजाग्रदवस्थयोश्चित्राकारस्यैव हेतुत्वावधारणात् । व्याकुल
कालेऽपि विकल्पस्यानेकाकारविवर्तत्वात्, एकवस्तुविकल्पनेऽपि प्रदेशभेदेनाकारस्य
चित्रत्वात् । पुञ्जात् पुञ्जोत्पत्तौ चान्यतमस्यैव सामर्थ्यकल्पने च क्वचिदनेकस्य जनकत्वं
भावाभावानुकारं समानम् । विच्छिन्नतीलाकारादपि नीलाकारोदयदर्शनादिति
नोत्तरमचित्रात् चित्रोत्पत्तिवादिनः । अशक्यसंख्यानत्वाच्च न न्यूनाधिकभावः । किं
च वटवत्,
तज्ज्ञानं तद्वदन्यदपि गाढस्वापाद्यवस्थानन्तरं चालयविज्ञानात् प्रदेशभेदेन
चित्रादेव चित्रान्तरोत्पत्तिः । अस्तु वा संमूर्च्छिताकारादेकस्मात् कदाचित् कुत्रचित्
चित्रस्य क्रमेणाक्रमेण वा भावः । यदा तावत् जागरानन्तरं यावत्कालमनवरुद्धो
मिद्धादिभिस्तावत् प्रथमक्षणभुवो विहाय नापरेषां परस्परमनुभवः स्यात्, उपादान
भेदात् । परम्परया तदेकप्रबोधादिति चेत् ? यथा यथा तर्हि व्यवधानं, तथा तथा
मन्दतातारतम्यादन्योऽन्यप्रकाशप्रणाशः कियताप्यन्तरेण स्यात् । चित्रप्रकाशा
विनाशश्च जागरादिभिरनेकं दिनमनुभूयते, नापि मन्दतातारतम्यम् । नैवं ज्ञानाकारे
शक्यमिति चेत् ? एकाकारसंवेदनेन भिन्नस्य संवेदनमित्यपि कथं शक्यं यदि नामो
पादानाभेदः, स्वगतस्यैव भेदाभेदस्य प्रयोजकत्वात् ? न च प्रसङ्गे तत्त्वमेव, विपर्यय
पर्यवसायित्वात् ।
किं च,
स्वभावविप्रकृष्टो हि परस्परस्य बोधः, तां च सीमानमतिक्रम्य सन्निकर्षः स्व
प्रभावमादर्शयति, स चोपादानेनैव सार्धं मुख्य इति एकसामग्र्यधीनानुमानवद्धेतुप्रतीति
द्वारक एव सहभुवो भिन्नस्यानुभवः स्यात् । अतीतत्वान्नेति चेत् ? स्वभावकालविप्रकर्षयोर्न
कश्चिद् विशेषः । अथोपादानस्य द्वयमप्येतत्, सहभुवस्तु स्वभावविप्रकर्षमात्रम् । अत्र
तर्हि सन्निकृष्टत्वमपि निकृष्टम् । उपादाने तु प्रौढमिति गोधाशशन्यायः । सन्निकर्षबलाच्च
ग्रहणस्थितिः । अथातीतस्फुरणे वर्तमानत्वमेव स्यात्, कथमतीतत्वम् ? ततो नातीत
स्फूर्तिः । यदीदृशी तत्त्वदृष्टिः परस्यात्मभूतया संविदा 91b संवेद्यमानं परं स्वरूपमेव
स्यात् कथं परवित्तिः ?
तत्रानुन्मीलिताक्षस्य सन्निकर्षघोषणमन्यत्राप्यस्तु । योगिवद् वातीतग्रहणमपि
स्यात् । एवं प्रबन्धप्रवृत्तौ पूर्वपूर्वसर्वक्षणवीक्षणप्रसङ्गो यावदेकमुपादानमनवधिर्वा ।
यथा व्यवधितारतम्यं तथा सन्निकर्षप्रौढितारतम्यमिति । एवं स्वोपादेयस्यापि प्रति
भासप्रसङ्गे सर्वं तद्वत् । अपि च यदि चित्रप्रतिभासस्य भेद एव तदा नीलपीतवन्नील
खण्डयोरपीति परमाणुपर्यन्तदर्शनात् न किञ्चिदेकं संविदितमस्ति यस्यान्यदेकोपादानं
स्यादित्यप्रतिरोधमान्ध्यमशेषस्य जगतः । न वा किञ्चिदित्येतत्पर्यवसानोऽयं वादः ।
425
तद् यदीदमेव विवक्षितं किमनेन फल्गुवल्गितेन ? ऋजुना क्रमेणानेकत्वमपि भावानां
नास्तीत्येतदेवोच्यताम् । आकाराणामवस्तुत्वमिष्टमेवेति चेत् ? तथापि किमनेन
न्यायमसहमानेन ?
अपि च,
प्रकाशमात्रस्य पुनर्भेदाभावेऽपि न क्षतिः ॥
मिथः प्रथायाः क्षान्तौ तु ग्राह्यग्राहकता परा ॥
इति सिद्धान्तविप्लवः । तदयमाचार्यनिरपेक्षमाख्यायमानोऽप्युपादानाभेदः स्वभावभेद
मनाक्षिपन्नैषामाकाराणां परस्परानुभवविभावनाय प्रभवति ।
बीजस्य स्वात्मनो वेति विचारमिदमर्हति ॥
नैकत्वं नापि नानात्वं बुद्धीनामुपपत्तिमत् ॥
तत् कोऽत्र परमार्थः ? तथा हि,
चेतश्चित्रमनेकमेव यदि तत् कुत्रैक्यमास्थीयताम् ।
भासन्ते च परस्परव्यतिकरं कोऽप्येष मायाविधिः ॥
तस्मात्,
इति । स्वप्नमायामरीचिगन्धर्वनगरप्रतिभासवत् सर्वधर्मशून्यतैव न्यायप्राप्तेति पर
मार्थः । ननु भगवन्तमधिकृत्य प्रक्रान्तो विचारः, तत् किमीदानीं बुद्धोऽपि भगवान्
मायोपमः स्वप्नोपम इति चेत् ? कस्य पुनरत्रोपालम्भः स्वयमेव भगवता तथा प्रथनात्,
सोल्लासं तद्व्याहृतेश्चार्यैरुद्योतनात्, तथतया च तथागतपृथग्जनयोरविशेषस्वीकारादागमो
पगीतगाम्भीर्यौदार्यविशेषादन्यत्र ? ननु व्यापकानुपलब्धिबाधितत्वात् लक्षणाद्याकाराणाम
लीकत्वात् क्वौदार्यमसत्ख्यातिप्रसङ्गश्च ? असत्प्रतिभासिज्ञानस्वभावत्वेन भ्रान्तत्वात् क्व
गाम्भीर्यम् ? तदयुक्तम्,
पूर्वं विस्तरेण निरस्तत्वात् ।
दनङ्गमङ्गीकृतमेतदेव ।
परिस्फुरद्दुःखसुखादि चेतः ॥
नात्र किल बाधकावतारो देशवितानीभावादिति । तदपि विप्लुतम् । यतः,
व्यक्तिविशेषमेव हि ज्ञानस्याकारं विद्मः । देशवितानाभावश्च देशस्याल्पत्वं
वा स्यादभाव एव वा ? तत्र परमाणुपरिमाणेऽपि देशे प्रसङ्गी दोषः कियत्यल्पे प्रति
हन्येतेति न प्रथमः पक्षः । द्वितीयस्तु असंभवी संभविनः, संभविना हि नियमेन
क्वचिद् भाव्यम् । क्वचिदप्यभावेऽभाव एव विभावितो भवति । संवेद्यन्ते चासुख
सौमनस्यादयो देहान्तस्तद्वहिर्देशव्यवच्छेदेन स्फुरन्तः । अन्यथा प्रकाशवन्नीलादिभिः
अभेदे तद्वदेव दोषः ।
तत्र च काये कियन्तमभिव्याप्य देशमासत इति किमनेन ? का वा सदेशता,
रूपेऽपि स्वरूपातिरेकिणो देशसंज्ञितस्य क्वचिदनुपलब्धेः ? नाप्याधार एव देशो,
वातातपयोरप्यदेशताप्रसक्तेः । न च तदपेक्षया बाधकप्रवृत्तिः, किं तु स्वरूपापेक्षया ।
स्वरूपं च निरङ्गमपि कल्पनाबुद्धौ यथा व्यतिरिक्तैरिव धर्मान्तरैः परिकरितमाभाति,
तथा इहेदमिति कालाकारविमर्शप्रत्यनीकप्रत्ययकल्पितो नभोगतिप्रतिद्वन्द्वीव देशो
न नाम व्यवहारमवतरति । न चेयं गतिरन्तःसुखसौमनस्यादिवेदने दूरवर्तिनी
स्पर्शान्तवदित्युक्तप्रायम् । अथ यथा नीलादौ विशदतरोर्ध्वाधरादिभागत्वं वितस्तिः
हस्तहस्तिपुरुषादिपरिमाणपरिच्छेद्यत्वं चोपलभ्यते, न तथा सुखादिष्विति मतिः, ततः
किं देशवत्तामात्रपरिज्ञाने ? एवं ह्यस्पर्शनेन्द्रियगन्धरसध्वनिप्रभृतीनामप्यदेशताप्रसङ्गः ।
न च परोक्षे वह्न्यादावपि प्रतिनियतदेशतादि शक्यम् ।
अथ यत्र फले गन्धरससंभवस्तावति वर्तमानौ नियतदेशावूहितुं शक्यौ, पर
पूर्वादिभागेन च ग्रहणकाले चेन्द्रियशेषपरिमाणेनेति चेत् ? सुखाद्यपि देहान्तर्गता
भोगाद्देशपरिमाणेन किं न शक्यं प्रतिपत्तुम् ? अव्याप्तिस्तु फले गन्धरसयोरुपलब्धा ।
भोक्तुर्नियतदेशोपलम्भ इति चेत् ? सोऽपि स्थूलग्राही नाणुशः प्रतिनियमेन देशमव
सातुं शक्तः । तस्मादत्र तावद् वर्तते कियन्तमपि देशमभि92b व्याप्येति समानम् ।
एवं ग्रहणकालेऽपीन्द्रियदेशपरिमित्यस्य प्रतिनियमनिश्चय एव । सुखादेरपि वा स एव
न्यायो दर्शनश्रवणजनितस्यापि । अप्रियावलोकनतप्तं हि लोचनमेव प्रियदर्शने शीतली
भवदनुभूयते । खरांशुतप्तस्य तडागावगाहने तु व्यक्तः परिमाणविशेष ऊर्ध्वाधर
भागो वा । अन्यदेशोदयस्य तत्रारोपकल्पनेऽपि स एव देशः स्यात् । परिमाणनियमो
भूमिषु भूभुजामुचितः । इदमेव च नृसुखं यच्छाब्दं संवेदनमिति न भिन्नसिद्धिः,
स्पष्टप्रतिभासाद् वा । सौमनस्यस्य तु मानसत्वादस्पष्टप्रतिभासेऽपि तदनुसारेण
428
संभविन इहैव क्वचिद् देश इति सामान्येन सिद्धेरप्रतिबन्धात् । नापि निर्बन्धः
तत्रोपयोगी, साध्यस्यापि विकल्पकत्वप्रसङ्गात् ।
किं च परिमाणनियमानवधारणे यदि देशवत्तानिषेधः क्वचित्, कालवत्ता
तु सर्वस्य मा भूत् क्षणस्य परिमाणेनावधारयितुमशक्यत्वात् । केवलं पूर्वं नासीत्
पश्चाच्च न भवतीति प्रतिनियतकालतामुपस्थापयति स्थवीयसी बुद्धिः । इहापि न
बहिर्देहादिहैव तु सौमनस्यादीति निश्चयः स्थित एव । किं च, कालयोगस्तावदिष्ट
एव सौमनस्यादेः, अन्यथा कदाप्यभवतः साध्वी बाधकयुक्तिः, स एव च देशवत्ता
मुपनयति, क्वचिदभवतः कदाचिद् भावयोगात् । यत्रैव चास्ति स एव देशः, स तु
स्थूलः सूक्ष्मो वेति किमनेन ? काले तु प्रयोजनान्तरापेक्षया नियमस्थापनमिति ॥
प्रदेशनियमस्त्वसावणुतयाधिमात्रेण वा ।
निराकृतगिरा कृतं किमु विशेषपराकृतेः ॥
तदेवं सत्तामात्रानुबन्धिनी कालवत्तेव देशवत्ता न क्वचिद् व्यापकानुपलम्भ
संभवं भयमनवकाशयितुं शक्नोति मैवं वा स्वयमपि सत्ताव्यवहारसिद्धिः कथं
सुखादौ ?
यथा हि, नीलस्येव पुरोऽवस्थिताकारस्य सुखादेरप्रतिभासनात् एकानेकरूप
व्यतिरेकः प्रतिपत्तुमशक्यः, तथा तत एव तयोरन्यतरसंभवोऽपि पुरःस्फुरत्येवेदमेकमनेकं
वेति निरूपणोपलब्धेः । परोक्षेऽपि दर्शनानुसारेण तथा व्यवस्थायाम् अपुरःस्फुरत्यपि
रूपे पुरःस्फुरद्रूपानुसारेण देशप्रतिनियमात्तिग्मभङ्गजाग्निकणिकादिवत्तयोरभावोऽपि
व्यवस्थाप्यताम् ।
सता अवश्यमेकधा भाव्यमिति चेत्—न, व्यापकत्वात् तयोरन्यतरसन्देहे
सत्त्वस्यैव सन्देहात् । स्वसंवेदनस्य तु शक्तिं श्वेतादिवदेव दूरीकुरु, मा तत्प्रत्याशया
स्थाः । न च प्रमाणान्तरमस्तीति परस्य सन्दिग्धासिद्धिमुद्भावयतोऽपि न स्वयं सद्
व्यवहारः । साधकबाधकवैधुर्ये 93a सन्देहस्य न्यायप्राप्तत्वात् । स्वसंविदिते च
429
नीलादिज्ञानस्वरूपराशौ बाधादर्शनमेव बलवद् बीजमस्य । तत एव तर्हि भवतु
स्वसंविदोऽप्रामाण्यम्, बाधाया अभावे तु प्रामाण्यमिति चेत्—नैवम्, अदर्शन
मात्रेणाभावसिद्धेः । बहिः समस्तमभ्यस्तमबाधकस्य च साधकसंभवान्नापरो दृश्यानुप
लम्भः । शास्त्र एव तु चिन्तितोऽयमबाधवाद इत्यास्तां तावत् ।
उत्सर्गसिद्धं मानत्वमित्यपि ग्रस्तमग्रिमैः ॥
बहिः समस्तमभ्यस्तमसदन्तस्तु चिन्त्यते ॥
ननु ग्राहकाकारबलादलीकस्यापि ग्राह्याकारराशेरवभास इत्यशक्यापह्नवः
सुखादिरिति चेत्— न,
इति बहिरर्थदूषणे प्रागेव निरूपणात् । न चाभिमानमात्राद् वस्तुस्थितिरिति । किं
चात्र मते दुःखादिवन्निराकारज्ञानरूपतया,
अलोकाकारयोगो हि भ्रान्तिर्भवताम् । तदभावादविद्यादयः स्वभाव एव भव
भाजां भवेयुः, आलम्बनद्वारेणालीकत्वे सुखादेरपि प्रसङ्गात् । ततोऽनिष्टतया हान
मुपादानमन्यथा केषाञ्चिदिति साकारपक्ष एवाक्षरान्तरेणोक्तः । आकारचक्रैकदेशदृश्य
स्पृश्यपर्यवसानं तु वैमत्यमिति न किञ्चिदेतत् । यथा भ्रान्तित्वेऽप्यनिष्टतया कस्यचित्
त्यागः तथालीकत्वेऽपीष्टतया आकारविशेषस्य स्थितिरस्त्विति साध्यक्षतिः । चैत्ताश्चैते
सुखादय इष्यन्ते, चित्तं विषयग्राहितया आकारस्वरूपं हेयम्, चैत्तं चावस्थायीति
नायं संप्रयुक्तधर्म इत्यागमविरोधः । अभेदे च चित्तवदेवालीकत्वं तेषां तद्वद् वा
चित्तस्यापि सत्यतेति कथमनाकारस्य साध्यस्य सिद्धिः ?
ननु यद् यथा भाव्यते तत् तथा स्फुटीभवतीति व्योमाकारमपि चित्तं भाव्य
मानं तथा स्फुटीभविष्यति, प्रसिद्धाकारविरहाच्च निराकारं तदेवेति कथं साध्यसिद्धिः ?
न, प्रयोजनाभावात्,
आत्मभावं विहाय त्वं विहायस्त्वं यदीच्छसि ॥
धर्मकायस्य लाभेच्छुर्भजेद् व्योमोपमं वपुः ॥
इति चेत् ? तत्तर्हि न तावत् साध्यं, यथोक्त एवेच्छापरिसमाप्तेः । नापि साधनं
कस्यचिदर्थस्य, निराकारात् क्वचिदर्थसिद्धेरसिद्धेः । परार्थसिद्धिरपि विशिष्टाकार
प्रतिबद्धैवेत्युक्तप्रायम् । इदानीमाकारादेवार्थसिद्धिः परतस्तु निराकारादिति क एवं
प्रत्येष्यति स्याद्वादादन्यत्र ? आगमादेवमिति चेत् ? क्व युक्तिबाधितेऽर्थे शरण
मागमः ? पुण्यज्ञानसं23b वलिताकारविशेषेण विशिष्यमाणार्थशक्तिः तत्प्रकर्ष
पर्यन्ते स्वयमपि प्रकर्षपर्यन्तवर्तिन्येव स्यात्, कथं ततो विच्छिद्येत, अन्यतो वा
संभवेत् ? कस्य कदाचित् प्रतीतिरेवासंभविनी, न चागमोऽपि मुख्याक्षर ईदृगर्थः,
व्याख्यान्तराश्रयस्तु युक्तिप्रागल्भ्ये भवेत्, सा च क्षीणेति चिन्तितम् । तथापि बाध
भयात् भक्तव्यमेव तद्वपुः, अबाधत्वाच्च तदेवार्थसमर्थमित्यपि सिध्यतु, तत एव च
प्रागपि तदुपायिन्येवार्थशक्तिरिति चेत् ?
तथा हि, यद्व्योमोऽयमनलाकारम्,
तद्वदेवेति संबन्धः ।
भविष्यति ? रूपविरागिणो हि सम्यङ्मार्गपरिचयादेव शुद्धिबुद्ध्या तज्ज्ञानम् । न
तद्भावनादेव व्यापकानुपलम्भसंभवभयभ्रंशभागी । किं भूयः ?
तस्माद् बाधाभयभ्रंशशंसिनापि तद्भाव्यमशक्यं च । प्रवचनोक्तत्वाद् भाव्य
मेवेति चेत् ? तत् किमिदानीं पितृकूप इति क्षारवारिपानम् ? किं वा धातुगतियोनि
श्रावकादिमार्गो न तदुक्तः ? अत्र च यस्यापि हेयतया निर्देशः, तस्यापि नाज्ञतया
हेयत्वम्, अपि तु विनेयस्याभिलाषादिवशात् । स्वर्गोपदेशादेव हि भगवान् प्रमाणम् ।
तस्मात् तत्रोपयोगबुद्धेरभावात् स्वयमदृश्यस्य बाधातिक्रमाकारनिदर्शनस्याभावाच्च
कुतो भावनामयी सिद्धिरिति संभोग एव पर्यवसानं व्यापारस्य,
मनोऽथ शून्यं ननु सर्वथास्तु ।
त्यागोऽपि किं न प्रणयी प्रियस्य ॥
आगन्तुकमलप्रपञ्चविगमेनैव हि विहायःसादृश्यमिति दर्शितं प्राक् । अतएव
महायानोतरतन्त्रे निर्दिष्टेनैव साधर्म्येण सर्वत्र व्योमोपमा, यथा व्यपगतविकल्पं
गगनवदित्यादि । तस्मान्नाकारविरहेण । यत्तु,
चक्षुष्यथ व्यतिक्रान्तेऽप्यरूपिण्यनिदर्शने ॥
बुद्धेष्वपि तथा सर्वं दृश्यते न च तत् तथा ॥
इति । तत्राकिञ्चनादिविशेषणं व्योम्न एव रजोनीहारादादिकृतस्य निम्नो94a न्नतस्य
दर्शनेऽप्यभावविभावनायेति व्यक्तमेतत् । संबुद्धेऽपीत्यनुक्त्वा बुद्धेष्विति सामानाधि
करण्यं बाधकबहुवचननिर्देशयत्नात् । सुगते तु भगवति यथोक्ताकारे एवापवादसमारोप
लक्षणस्य निम्नोन्नतस्य दर्शनेऽपि न भाव इतीयदेव विवक्षितम् । अस्तु वा वचन
परिणामेन भगवत्यपि योजनम् । यथा त्वाचार्यवसुबन्धुपादैर्धर्मधर्मिताप्रविभागे
निर्विकल्पज्ञानलक्षणप्रस्तावे द्वयेन ग्राह्यग्राहकभावेन निरूपयितुमशक्यत्वादरूपि,
सविषयत्वादनाभासमिति विभक्तम्, तथेह बुद्ध इति प्रयुक्तेऽप्यस्तु । अकिञ्चनत्व
मप्यागन्तुकरागादिविगमाज्ज्ञेयम् । शेषमविरुद्धम् । अतएव धर्मधर्मिताप्रविभागे
एव,
ख्यातिरध्यवसायार्था बोद्धव्येति निराकुलम् ॥
इत्यादिवद् विकल्पेऽपि ख्यात्युक्तिर्न विरुध्यते ॥
मध्यान्तविभागे च सुव्यक्तत्वात् ।
अवश्यं हि प्रकाशमानमेतच्चित्रं शून्यतया साक्षात्कर्तव्यम्, तावतैव बोधि
सिद्धिरिति किमपरेण ? न च स्वसंवेदनादन्यत् साक्षात्कारि । सा च तथता संक्लेश
व्यवदानावस्थासाधारणश्चित्तधर्म इति स्वाभाविकः सहजः प्रकृतिरिति चाभिधीय
मानोऽपि व्यवदानापेक्षया धर्मकायव्यवहारगोचरः । तत्र क्षणिकता तावदाकार
विशेषानपेक्षासौ भाव्यमाना यो य एवाकारः सन्निधीयते, तं तमेव प्रतिविध्यतीति
धर्मितानियततल्लक्षणादिनिष्पादकपुण्यसंभारसहकारिकारणोपनीतमन्तिमं तमेवाकारम्
आश्रयीकरोति । तत्र प्रागवस्थायां चित्रमेव तत्परतन्त्रमुच्यते । अभूतपरिकल्पो
विकल्प इति चोक्तः । पर्यन्ते तु चित्र एव वितथकल्पनायामप्रयोजकत्वान्न तथोच्यते ।
तद्रूपरहितस्तूच्यते । 94b हेतुपारतन्त्र्यमात्रसंभवेऽपि चासद्वासनापारतन्त्र्याभावे
परतन्त्रोऽपि नाभिधीयते, किं तु संभोग इति, धर्मसंभोगाद् दशभूमिभिः संभुज्य
मानत्वाच्च । तत्त्वतो वा हेतुफलभावात् क्व पारतन्त्र्यमिति ? तस्माद् धर्मरूप एव
धर्मकायः । ननु,
इति सिद्धान्तः, कथं परोक्ताकारस्य शून्यताख्यो धर्म इत्युच्यते ? तदयुक्तम् । न खलु
शून्यतातोऽन्या प्रकृतिर्धर्माणामागमे श्रुतिपथावलम्बिनी, स्थितिभेदेन तु यथाधिमुक्ति
वेदितव्या । तथाहि,
तर्कचिन्तायाश्च क्रमेण तदेकप्रवणत्वात् ॥
न च लक्षणादिमात्रस्यैव धर्म इति ब्रूमः । किं तु यावन्तः स्वलक्षणधारिणः
चित्तप्रकाराः शरीरबुद्धिसंख्यातरूपास्तेषां सर्वेषामेव संभोगपोषणं तूपलक्षणं तदपि
परित्यागेन बोधिबोधनार्थम् । अभिसमयालङ्कारे च,
इति सामान्येन निर्देशात् न संभोगत्यागः, स तु पृथक्कायत्वेन व्यवस्थाप्यत इति ।
सर्वाकारज्ञतार्ण्यन्तपरिगणनात् पृथगेव परिगणितः । तस्माद् धर्मधर्मिभावेन भित्त्वा
कायद्वयव्यवस्थेयम् । तदस्य भगवति तादात्म्यं संबन्धो, निर्माणस्य तु तदुत्पत्तिः ।
यदा तु सदातनं तद्रूपं सकलशुक्लधर्माकारतया विवक्षितम्, तदा तत्रापि तदुत्पत्तिरेव ।
यथोक्तम्,
इति । एवं च सति यद्यपि साधनमपि तत्, तथापि न तन्मात्रेण तत्रादरः, किं तु
तत्त्वमित्येव । साध्यसाधनयोरनन्तभावोऽपि कुत इति चेत् ? तत्त्वसाक्षात्कारस्यैव
साध्यत्वात्, तद्भावनाया एव च साधनत्वात्, तदभावेऽनिश्चये वा तयोरेव लोपा
शक्तेः । तस्य च प्रतिभासिनैव धर्मिणा चरितार्थत्वान्निश्चायकप्रमाणपर्येषणैव परमव
शिष्यत इति समाप्तः पुरुषार्थः । तच्च सामान्यरूपमेव भाव्यम्, क्षणिकत्वादिवदिति
स्वभावान्तरमवस्थाप्यते । तदधिगमाधीनश्च बुद्धध्वनिरिति तदेव प्रधानं बुद्धरूपम्,
स एव वा बुद्ध उच्यते, प्रताप एव राजेत्यादिवत् । लक्षणादिचित्रता हि चक्रवर्तिनी
त्युत्तरतन्त्रम् । न चैवमर्थान्तरस्य कथञ्चित् सत्त्वेऽपि कश्चिदुपयोगः । ततो धर्मकाय
संज्ञाप्यस्य याचितकमण्डनमिति न निराकारदर्शनानुरोधः कश्चित् । अत एव 95a
देहभोगप्रतिष्ठाविशेषशालिनि,
435
तस्मात्,
स्ववित्तिसाक्षात्कृतधर्मकायः ।
बाध्ये तु बन्ध्यो विविधः प्रयासः ॥
तथा च सति,
क्षणिकालीकयोश्च साधारणीति न दोषः कश्चित् । क्षणिकत्ववद्धेतुपराधीनताद्यपि
द्रष्टव्यम् । तदलमस्थानकातरतया । अपि च,
मध्यमावतारपरिच्छेदस्तृतीयः ॥