1023 न च किंचित्कृतं स्यात् । तत्रैकैकमित्यस्य राजन्यचमसेऽनुवादासंभवात्तत्रान्ये राजन्या दश विधीयेरन्नितरत्र च ब्राह्मणशतं नवसु चमसेषु न विद्मः केन विभागेन स्यादिति । अथ सोमसंबन्धात्, ब्राह्मणा इति प्राप्तानुवादः कल्प्यते तथाऽपि फलचमसव्यावृत्त्या विशिष्टानुवादो दोषोऽस्त्येव । फलचमसे च पुनरपि न कश्चिद्व्यापार इति पूर्ववदेव प्रसङ्गः । न च सोमशब्दब्राह्मणशब्दयोरर्थान्तरेऽपि फलचमसे राजन्ये वा प्रयोग इति किंचित्प्रमाणम् । अविशेषितभक्षानुवादे पशुपुरोडाशादिभक्षेष्वपि शतप्रसङ्गः । न ह्यसौ प्रधानेन विशेष्यते । ‘सर्वेषां1211 वा शेषत्वस्यातत्प्रयुक्तत्वात्’ इत्येवमङ्गप्रधानार्थत्वप्रतीतेः । सोमशब्दश्चात्यन्तमेवानर्थकः स्यात् । अथ सोमानित्येतावन्मात्रमनूद्य शतं विधीयते ततः क्रयादारभ्य यावान्सोमसंस्कारः स सर्वः शतेन कर्तव्यस्तत्र भक्षयतिरनर्थक एव स्यात् । अथ भक्षयतौ शतब्राह्मणसंबन्धो विधीयते तथा पुरोडाशादिष्वपि प्रसङ्गात् । सोमशब्दानर्थक्यमस्त्येव । सोमे तु ब्राह्मणशतसंबन्धविधानमक्रियाशब्दत्वादेवाशक्यम् । पुनरपि फलचमसे स्तिभीरूपत्वेनासोमे राजन्यप्राप्तिर्नैव वार्यते । तेनैतद्वाक्यमनुपपन्नम् । तथा ‘दशदशैकैकम्’ इत्यस्याप्यनुपहतविधिशक्तेः स्वतन्त्रविधित्वावधारितस्यानुवादत्वं निष्फलमप्रमाणकं च । कथं हि पूर्वेण वर्तमानापदेशः सन्विधिः स्यादयं चानुवादः । न च निमित्तत्वादिभिर्विनाऽनेकाख्यातैकवाक्यत्वं घटते । न च यदिशब्दादिरहितस्य निमित्तत्वादिप्रतीतिरस्ति । न च ‘दश दशैकैकम्’ इत्यत्र काचित्स्तुतिः प्रतीयते । येन तदर्थोऽनुवाद एकवाक्यत्वं चोपपद्येत । तस्मात्पृथग्भूतस्य वाक्यस्य समस्तानुवादत्वमयुक्तमिति किंचिद्विधातव्यम् । तत्र यदि तावच्छतस्यानियमप्रसङ्गे दश दशेति विधीयते, ततश्च एकैकमित्यनुपपन्नं, विधा1212ने वाक्यभेदप्रसक्तेः । वषट्कर्तॄणां चानेकचमसप्राप्तौ सत्यामनुवाद1213त्वासंभवाद्ग्रहेष्वपि पूर्वेण1214 प्राप्तत्वाच्चमसशब्दोऽनर्थकः । विशिंषंश्च वाक्यं भिन्द्यात् । न च दश दशैकैकमित्यनुवादः संभवति । शतस्यापि चमससंस्कारार्थमुपादीयमानस्य प्रतिचमसं सामस्त्येन प्राप्तेः । कर्तृसंस्कारार्थे हि सति दक्षिणावद्विभागप्राप्त्या ‘समं स्यात्’ इति दश दशैकमिति प्राप्नुयात् । तत्र सत्यपि विधौ परिसंख्या

  1. ( अ० ३ पा० ७ अ० १ सू० २ )

  2. विधान इति—एकैकमित्यस्यापि विधाने विधेयानेकत्वप्रयुक्तवाक्यभेदापत्तेरित्यर्थः ।

  3. अनुवादत्वासंभवादिति—एकैकमित्यस्येति शेषः ।

  4. पूर्वेण प्राप्तत्वादिति—‘शतं ब्राह्मणाः सोमान् भक्षयन्ति’ इत्यनेन पूर्वतनवाक्येनाविशेषाद्ग्रहेष्वपि भक्षणस्य प्राप्तत्वादित्यर्थः ।