746 मुख्ये गौणे च केनचित्प्रकारेण विद्यते । तत्र विनियोगः किं मुख्य एवार्थे भवत्युत गौणेऽपीति संदेहे नैव गौणो नाम कश्चिदस्तीति मन्वान आह—कः पुनर्मुख्यः को वा गौण इति । तत्सिद्धिसूत्रे तु सिद्धे गौणे तन्निमित्तभेदः स्वार्थापरित्यागवृत्तित्वं च व्याख्यातमित्ययमर्थाद्विचारः पूर्वं प्रत्येतव्यः । तत्र च ।

शब्दार्थस्यैव मुख्यत्वं मुखवत्प्रथमोद्गतेः ।
अर्थगम्यस्य गौणत्वं गुणागमनहेतुकम् ॥
शा692खादिभ्यो य इत्येवमिवार्थे मुख्य इत्ययम् ।
शब्दः शब्दाभिधेयत्वात्सर्वेष्वेव प्रसज्यते ॥

परगुणानां परत्राभावादवश्यं गुणेभ्य आयात इत्येवंलक्षणं गौणत्वमित्यतः सर्व एव शब्द उच्चरितेऽभिधीयमानत्वादनन्यगतिः शब्दशक्तिकल्पनां कुर्वन्नर्थान्तरेणाव्यवहितत्वात्प्रथममेव मुखमिव भवतीति मुख्यः । तत्र परपरिकल्पितानि तावद्गौणत्वकारणान्युपन्यस्यन्नाह—अथोच्येत । यस्मिन्निरुपपदादित्यादि ।

सर्वथा लक्षणं नाम यद्व्यवच्छेदकारणम् ।
693राधीनप्रवृत्तिश्च गौणो नित्यं प्रतीयते ॥

न हि यथा केवलादग्निशब्दाज्ज्वलनप्रत्ययो भवत्येवं माणवकप्रत्ययः । पदान्तराधीनत्वात् । यत्रापि पदान्तरं न श्रूयते तत्राप्यर्थप्रकरणादिलभ्यं तदेव व्याप्रियत इत्यव्यभिचारः । तदेव च सामान्यं नाम प्रवृत्तिहेतुर्गुण इति । नैतदेवम् । कुतः ।

  1. पा॰ सू॰ ( ५-३-१०३ ) ।

  2. पराधीना शब्दप्रवृत्तिर्यस्मिन्नर्थे स गौण इत्यर्थः ।