तृतीये प्रवचनप्रवेशे
षष्ठः प्रवचनपरिच्छेदः ।
अथ प्रमाणनयस्वरूपं निरूप्य इदानीं प्रमाणविशेषस्य आगमस्य स्वरूपं पृथक्
निरूपयितुमुपक्रमते, तत्र अनेकधा विप्रतिपत्तिसद्भावात् । तदादौ च शास्त्रस्य मध्य
मङ्गलभूतम् इष्टदेवताविशेषगुणस्तोत्रमाह–
कारिकार्थ–
प्रणिपत्य नत्वा । क7001म् ? वीरम् अन्ति7002मतीर्थकरं तीर्थकरसमुदायं वा ।
किंविशिष्टम् ? स्याद्वादेक्षणसप्तकं । स्यादस्तीत्यादिसप्तभङ्गमयो
वादः स्याद्वादः ईक्षणसप्तकं यस्य स तथोक्त तम् । ननु
स्याद्वादस्य ईक्षणव्यपदेशः मुख्यतः, उपचारतो वा स्यात् ? न तावत् प्रथमः पक्षः;
चक्षुष्येव मुख्यतः त7003द्व्यपदेशप्रसिद्धेः । द्वितीयपक्षोऽप्यनुपपन्नः, यतो रूपादिप्रतिपत्ते
हेतुभूतं चक्षुः ईक्षणं लोके प्रसिद्धम् । न च भगवतः त7004त्प्रतिपत्तौ स्याद्वादो हेतुभूत,
तत्कथम7005स्य उपचारतोऽपि ईक्षणव्यपदेशः ? अ7006थ अपरमनेना7007सौ7008 बोधयतीति तत्प्रति
पत्तेर्हेतुभूतत्वात् त7009द्व्यपदेशः; तर्हि परस्यैव त7010दीक्षणसप्तकं न भगवतः, अन्यदीयात्ततो
अन्यस्य प्रतिपत्तेरयोगात्; तदसमीचीनम्; अन्यथा व्याख्यानात् । स्याद्वाद एव
ईक्षणसप्तकं यस्माद् भव्यानां स तथोक्तस्तम् । यदि वा, ईक्षणसप्तकमिव ईक्षण-
-
–वक्रक्रमः श्र॰ ।
↩ - ↩
-
स्यादस्तीत्यादिसप्तभगमयो वाद स्याद्वाद ईक्षणाना सप्तकम् ईक्षणसप्तकम् स्याद्वाद
↩
एवेक्षणसप्तक यस्माद्विनेयाना भवत्यसौ तथोक्तस्तम् । न खलु निरुपकार प्रेक्षावता प्रणामार्होऽतिप्र
सङ्गात् । –लघी॰ ता॰ पृ॰ ७४ । - No Vivṛti for this verses↩
-
क वीरं आ॰ ।
↩ -
अन्तिमतीर्थकरसमुदय
↩
वा आ॰ । -
ईक्षणव्यपदेश ।
↩ -
रूपादिप्रतीतौ ।
↩ -
स्याद्वादस्य ।
↩ - ↩
-
स्याद्वादेन ।
↩ -
भगवान् ।
↩ -
ईक्षणव्यपदेश ।
↩ -
स्याद्वाद ।
↩