2 इत्यर्थः । अनेन शब्दानुशासनादिभिर7स्यैककर्तृकत्वमाह । अधिकारार्थस्य च अथ-शब्द
स्यान्यार्थनीयमानकुसुमदामजलकुम्भादेर्दर्शनमिव श्रवणं मङ्गलायापि कल्पत इति । मङ्गले
च सति परिपन्थिविघ्नविघातात् अक्षेपेण शास्त्रसिद्धिः, आयुष्म8च्छ्रोतृकता च भवति ।
परमेष्ठिनमस्कारादि9कं तु मङ्गलं कृतमपि न निवेशितं लाघवार्थिना10 सूत्रकारेणेति ।


प्रकर्षेण संशया11दिव्यवच्छेदेन मीयते परिच्छिद्यते वस्तुतत्त्वं येन तत् प्रमाणं प्र
मायां साधकतमम्, तस्य मीमांसा--उद्देशादिरूपेण पर्यालोचनम् । त्रयी हि शास्त्रस्य प्रवृ
त्तिः--उद्देशो लक्षणं परीक्षा च । तत्र नामधेयमात्रकीर्त्तनमुद्देशः, यथा इदमेव सूत्रम् । उद्दिष्ट
स्यासाधारणधर्म्मवचनं लक्षणम् । तद् द्वेधा सामान्यलक्षणं विशेषलक्षणं च । सामान्य
लक्षणमनन्तरमेव सूत्रम् । विशेषलक्षणम् विशदः प्रत्यक्षम् १. १. १३ इति । वि12भा
गस्तु13 विशेषलक्षणस्यैवा14ङ्गमिति न पृथगुच्यते । लक्षितस्य इदमित्थं भवति नेत्थम् इति
न्यायतः परीक्षणं परीक्षा, यथा तृतीयं15 सूत्रम् ।


पूजितविचारवचनश्च मीमांसा-शब्दः । तेन न प्रमाणमात्रस्यैव विचारोऽत्राधि
कृतः, किन्तु तदेकदेशभूतानां दुर्नयनिराकरणद्वारेण परिशोधितमार्गाणां16 नयानामपि-प्र
माणनयैरधिगमः17
तत्त्वा॰ १. ६. इति हि वाचकमुख्यः, सकलपुरुषार्थेषु मूर्द्धाभिषिक्तस्य
सोपाय18स्य सप्रतिप19क्षस्य मोक्षस्य च । एवं हि पूजितो विचारो भवति । प्रमाणमात्र
विचारस्तु प्रतिपक्षनिराकरणपर्यवसायी वाक्कलहमात्रं स्यात् । तद्विवक्षायां तु अथ
प्रमाणपरीक्षा
प्रमाणपरी॰ पृ॰ १20त्येव क्रियेत । तत् स्थितमेतत्--प्रमाणनयपरिशो
धितप्रमेयमा22र्गं सोपायं सप्रतिपक्षं मोक्षं विवक्षितुं मीमांसाग्रहणमकार्याचार्येणेति ॥ १ ॥


तत्र प्रमाणसामान्यलक्षणमाह--


सम्यगर्थनिर्णयः प्रमाणम् ॥ २ ॥


प्रमाणम्-इति लक्ष्यनिर्द्देशः, शेषं लक्षणम्, प्रसिद्धानुवादेन ह्यप्रसिद्धस्य विधानं
लक्षणार्थः । तत्र यत्तदविवादेन प्रमाणमिति धर्म्मि प्रसिद्धं तस्य सम्यगर्थनिर्णयात्मकत्वं
धर्मो विधीयते । अत्र प्रमाणत्वादिति हेतुः । न च धर्म्मिणो हेतुत्वमनुपपन्नम्; भवति
हि विशेषे23 धर्म्मिणि तत्सामान्यं हेतुः, यथा अयं धूमः साग्निः, धूमत्वात्, पूर्वोपलब्ध
धूमवत् । न च दृष्टान्तमन्तरेण न गमकत्वम्; अन्तर्व्याप्त्यैव साध्यसिद्धेः, सात्मकं
जीवच्छरीरम्, प्राणादिमत्त्वात् इत्यादिवदिति दर्शयिष्य24ते ।

  1. अस्य--शास्त्रस्य ।

  2. आयुष्मन्तः श्रोतारोऽस्मिन् ।

  3. आदेः स्तुति-नामसङ्कीर्त्तने ।

  4. -॰र्थिना शास्त्रका॰
    डे॰ मु॰

  5. आदिग्रहणात् विपर्ययानध्यवसायौ ।

  6. सङ्ख्याद्वारेण भेदकथनं विभागः, यथा प्रमाणं द्वेधा ।
    प्रत्यक्षं परोक्षं च ।
    १. १. ९-१०

  7. -॰स्तु लक्ष॰-ता॰

  8. अङ्गम्-अवयवः कारणमिति यावत् ।

  9. -॰तीयसू॰-डे॰

  10. परिशोधितः प्रमाणानां मार्गोऽनेकान्तात्मकं वस्तु यैः ।

  11. अधिगमाय शास्त्रस्य प्रवृत्तिर्न
    वाक्कलहाय ।

  12. ज्ञानदर्शनचारित्ररूपोपायसहितस्य ।

  13. प्रतिपक्षः संसारः ।

  14. यथा अकलङ्केन 20

  15. ?
  16. इयं
    टिप्पणकारस्य भ्रान्तिः मूलादायाता भाति । वस्तुतः प्रमाणपरीक्षा न अकलङ्ककृता किन्तु विद्यानन्दकृता -सम्पा॰

  17. ?
  18. अनेकान्तात्मकवस्तुरूपो मार्गो यस्य मोक्षस्य ।

  19. व्यक्तिरूपे धर्मिणि, तद्यथा विवादाध्यासितं घटप्रत्यक्षं
    सम्यगर्थनिर्णयात्मकम्, प्रत्यक्षत्वादिति ।

  20. न दृष्टान्तोऽनुमानाङ्गम्१. २. १८ इति सूत्रे ।