२
१।२ एतदाह।प्र मा ण स मु(च्च)योत्र शास्त्रकृता व्याख्यातुं प्रस्तुत
2b स्तत्र प्रथमं तन्नमस्कारश्लोकार्द्धं व्याख्यानार्हं द्वितीयपरिच्छेदेन व्याख्यातं । तृतीय
परिच्छेदेन तु प्रत्यक्षलक्षणं सप्रभेदमशेषविमतिनिराकरणेन यथास्वरूपतो विभक्तम्
। अवसरप्राप्तमनुमानं । तच्च द्विधा । स्वार्थं परार्थञ्च । तत्राद्यमा (दा)
वेव व्याख्यातं । प्रथमञ्च तद्व्याख्यानप्रयोजनमुक्तमर्थानर्थविवेचनस्यानु
मानायत्तत्वादित्यनेन प्रत्यक्षमपि ह्यनु(मान)बलादेव प्रामाण्यं लभते इत्यादि
व्याख्यातं । व्याख्येयसूत्रन्त्वनुमानं द्विधा त्रिरूपलिङ्गतोर्थदृगित्यादिकं प्र मा ण
स मु च्च ये द्वितीयपरिच्छेद उक्तं । तृतीयपरिच्छेदप्रोक्तन्तु परार्थमनुमानं
स्वदृष्टार्थप्रकाशनमित्यादिकं वार्तिकचतुर्थपरिच्छेदेन व्याख्याय इत्ययमेव
वार्तिकप्रथमादिपरिच्छेदानामनुक्रमनिर्देशः ।
वार्तिकञ्च विशेषाभिधानादिरूपं यथोक्तं सूत्राणामनुपपत्तिचोदनात्तत्प
रिहारो विशेषाभिधानमिति लक्षणमयमेवार्थः परोक्तः ।
स मु च्च य सूत्रे स्वदृष्टार्थपदं व्याख्यातुं शास्त्रकृदाह । परस्य प्रतिपाद्यत्वा
दित्यादि । सुवचार्थस्तु वृत्तावुच्यते । स्वार्थमिति स्वस्मै इदं स्वार्थमर्थेन न नित्य
समासः सर्वलिङ्गता चेति वाक्येन चतुर्थी समासः । स्वप्रयोजनमित्यर्थः । येन
स्वयमनुमेयं प्रतिपद्यते ज्ञानेन तत्स्वार्थं । परस्मै इदं परार्थं येन परेभ्यः प्रति
पादयति त्रिरूपवचनेन तत्परार्थं ।
ननु प्रमाणमविसम्वादीत्युक्तं अनुमानञ्च प्रमाणं ज्ञानं स्यात्कथं वचनं न दोषः
उपचारात् परमार्थतस्तु ज्ञानमेवात्रापि परिच्छेदकं त्रिरूपवचने तस्यैव सूचनात्
। वचनेनैव हि परोवबोध्यते न ज्ञानेन । महती चात्र विमतिः परेषामितीदं
विवेच्यते । स्वार्थानुमानमवसरप्राप्तमिति सङ्गत्यानन्तरं नेदिष्टत्वात्पूर्वमेवेति
2a प्रथमं भूतं पदद्वयं व्याचक्षाणेनान्वयव्यतिरेकविचारात्प्र मा ण स मु च्च यस्य चतुर्थ
परिच्छेदो [दृष्टान्तविचार उक्तोऽन्यापोहव्याख्यानेन पञ्चमपरिच्छेदोऽन्यापोह
विचारः समर्थितः सर्वस्य विशेषणविशेष्यादिशाब्दव्यवहारस्यान्यापोह एव
योगात् । हेत्वाभासास्ततो परइत्यनेन तु हेत्वाभासविचारः षष्ठः परिच्छेदः
समर्थितः ।
पुर्वापरपरिच्छेदयोरनुसन्धानं कु2b र्वन्नाचार्य दे वे न्द्र बु द्धिः । शिष्याणां
सुखबोधार्थं प्र मा ण वा र्ति क शरीरमाख्यातुमाशङ्कितञ्च परिहर्त्तुं प्रथम
परिच्छेदार्थानुसन्धानमप्याह । आचार्यीये त्यादि । इयञ्चात्राशङ्का। यद्याचार्य
517
ध र्म की र्ति ना प्र मा ण स मु च्च यो व्याख्यातुं प्रस्तुतस्तदा स एव व्याख्यायतां
किमित्यादावुत्क्रम्यानुमालक्षणं व्याख्यातवान् इति । अस्य परिहारः । आचार्यी
येत्यादि । आचार्योत्र दि ग्ना ग स्तेन प्रणीतं यत्प्रमाणलक्षणशास्त्रं प्रत्यक्षानुमानस्व
रूपप्रकाशकं प्र मा ण स मु च्च याख्यं तन्नीतेरेवोद्योतयितुं प्रस्तुतत्वात् तस्य विविध
प्रकारं विशेषेण च वार्तिकरूपेण पूर्वटीकाकारा सद्वयाख्यां तीर्थिकविम(ि)तञ्चाप
नीय यथास्थितव्याख्यानं व्याख्या । तस्या निबन्धनमनुमानं न प्रत्यक्षं तस्यान
भिलाप्यवस्तुभेदविषयत्वेन निर्विकल्पकतया स्वार्थोपयोगित्वात् ।
अनुमाने तु सा निबध्यते सर्वविमतिनिराकरणा(य) यथास्थिताविपरीतवस्तु
स्वरूपस्यानेनाख्यापनात् । व्यवस्थाप्येति विशेषेण प्रतिबन्धाख्यानतस्त्रिरूपतया
पूर्वमवस्थाप्येत्यर्थः । पूर्वकालभाविक्त्वाप्रत्ययेन हि पूर्वकालतास्य ज्ञाप्यते तथा 2b
चाशङ्कितचोद्यपरिहारः । स्वतः प्रामाण्यञ्चास्य सूच्यतेऽनुमानं हि सुनिश्चित
त्रिरूपतया विकल्पकत्वेनात्यन्तनिश्चायकत्वात् । स्वतः प्रमाणमनेनैव चाशेषविमत्य
पाकरणं तीर्थिकनिग्रहः (आ)प्तवचनार्थव्यवस्थानं सर्वज्ञतासाधनञ्च क्रियते न
प्रत्यक्षेणेति । एतदेव पूर्वं व्यवस्थापितं प्रत्यक्षस्याप्येतद्वलादेव प्रामाण्यनिश्चयः ।
प्रत्यक्षरूपं हि तदाभासेपि संभवति । बोधरूपताया अर्थाकार..............