(२) पक्षहेतुवचनमसाधनम्
क. हेतुवचनं न साधनम्
यदि सा
क्षात् पारम्पर्येण वा पक्षवचनं साध्यप्रत्तिपत्तावुपयुज्यते । तदो-83a
च्येत किन्त्वेतन्नास्तीत्याह ।
2147 साक्षात् तावत पक्षाभिधानस्य हेत्वभिधानस्य च प्रतिपाद्येऽर्थे शक्तिर्न विद्यते (।) किं कारणमित्याह ।
अर्थाद् वचनप्रतिपाद्यादर्थ साध्यस्य गतेर्न वचनात् । तेन साक्षादर्थप्रतिपाद
कत्वाभावेन तयोः पक्षहेत्वभिधानयोः स्वतः स्वरूपेण साधनसंस्थितिः । साधनत्व
व्यवस्था नास्ति
2148यत
श्च पक्षवचनं साक्षादर्थे न प्रमाणं ॥ (१५)
ख. पक्षवचनमसाधनम्
तत्तस्मात् पक्षवचनं
वक्तुरभिप्रायनिवेदने प्रमाणं शब्दप्रामाण्यमा चा र्य स्य
वदतोऽभिमतमिति बोद्धव्यं । तत्पक्षवचनात् साध्येर्थ संशयोत्पत्तेरनिश्चयान्न साक्षात् साधनमर्थस्य तत् ॥ (१६)
परंपरया साध्यसाधनात् प्रमाणं पक्षवचनं वक्तुरभिप्रायनिवेदने प्रमाणन्तर्हि
स्यादित्याह ।