431 त्नानन्तरीयकत्वादि2198 विरुद्धः स्यात् । प्रतिज्ञा --- विरुद्धा स्यात् । उपात्तो हेतुः
वादिनानिष्टं शास्त्रेष्टं बाधत इत्येव यदि विरुद्धः तदा गन्धभूगुणतां बाधमानस्य
कृतकत्वस्यं शब्दे विरुद्धता स्यात् । शास्त्रेष्टबाधकताया अ
विशेषात् । (४४)

अथ गन्धभूगुणताया साध्यत्वेनाप्रकृतेरप्रस्तुते तद्वाधनेपि शब्दे कृतकत्वं विरुद्धं
नो चेत् सा प्रकृतिरन्यत्राकाशगुणत्वेपि समा । न हि वादिना आकाशगुणत्वं
साधयितुमिष्टं किन्त्वनित्यत्वं । अतोऽप्रकृतस्यास्य बाधने न विरुद्धः स्याद्धेतुः ।

अथात्र धर्मी प्रकृतस्तत्र शास्त्रार्थबाधनम् ।
अथ वादीष्टतां ब्रूयाद् धर्मिधर्मादिसाधनैः ॥ ४५ ॥

अथात्राकाशगुणत्वादौ धर्मी शब्दः प्रकृतः । तत्र शास्त्रार्थस्याकाशगुण
त्वादेः साधनं तद्बाधने च विरुद्धता
हेतोः । भूगुणत्वे तु गन्धो धर्म्यप्रकृत इति
तद्बाधनेपि न विरोधः । नैष परिहारः । तथाहि न वादीष्टविपर्यासनेन दोष
उक्तः । किन्तु शास्त्रार्थविरोधेन तथा च प्रकृतत्वमनुपयुक्तं । अथ वाद्यनिष्टतयाऽ
प्रकृतत्वं तच्चाकाशगुणत्वयोः समानं । अथाकाशगुणत्वस्य वादीष्टतां परो ब्रूयात्
धर्म्मिधर्म्मादिसाधनैः
2199। साध्यधर्मिधर्मत्वात् तदेकदेशत्वाद्वाऽका
शगुणत्व
मिष्टं वादिनोऽनित्यत्ववदिति । (४५)

ननु (।)

कैश्चित् प्रकरणैरिच्छा भवेत् सा गम्यते च तैः ।
बलात् तवेच्छेयमिति व्यक्तमीश्वरचेष्टितम् ॥ ४६ ॥

कैश्चित् प्रकरणैर्व्विवादादिभिरिच्छावादिनः कस्मिश्चिद् धर्मे भवेत् ।
तैरेव च प्रकरणैः सा इच्छा गम्यते परेणापि । न तु तस्य धर्मिणो धर्म इत्येव वादि
नेष्यते । ततो धमिधर्मत्वादिसन्दिग्धविपक्षव्यतिरेकित्वात् शेषवत् । स्वयमनि
च्छतश्च वादिनः साधनस्य बलात् तवेच्छेयमिति यदुच्यते व्यक्तमिदमीश्वर

चेश्टित
मित्युपहसति । (४६)

किञ्च (।)

वदन्नकार्यलिङ्गां तां व्यभिचारेण बाध्यते ।
अनान्तरीयके चार्थे बाधितेन्यस्य का क्षतिः ॥ ४७ ॥
  1. कृतकत्वादिरादिना ।

  2. यो धर्मिणो विशेषः साध्यसमुदायैकदेशविशेषो वा स साध्यः ।