चैत्रस्य शस्त्रौषधयोः सम्बन्धाद् व्रणे व्रणरोहणे च वृत्तेऽसम्बद्धस्य व्यापार
द्वारेणाप्रत्यासन्न
स्य स्थाणोः किं कारणत्वं न कल्प्यते निमित्तस्य समानत्वात् । (२४)
नन्वकारणावस्थातो व्यापारसमावेशादस्ति विशेषः कारणवस्थायामित्याह114 ।
स्वभावभेदेन विना न केवलं कारकत्वं (।) व्यापारोपि निर्व्यापारस्य नित्यस्य
न युज्यते (।)
किञ्च (।)
नित्यस्याव्यतिरेकित्वात् सामर्थ्यञ्च दुरन्वयं दुरवगमं न ह्यस्तीति कारणम्
(।)अपि तु यदभावात्कार्याभावः स तत्कारणमन्यथाऽकाशादीनामपि हेतुत्वप्रसङ्गः ।
(२५)
अपि च (।)
येषु कारणेषु सत्सु115 यत्कार्यम्भवत्येव तेभ्यः कारणेभ्योन्यस्य पदार्थस्य तत्कार्य
हेतुत्वेन क116ल्पने सर्व्वत्र कार्यहेतूनामनवस्थितिः प्राप्नोत्यपरापरकल्पनया (।)
तस्माद् दृष्टसामर्थ्या एव क्षितिबीजादयः कारणमङ्कुरस्य नेश्वरादिरदृष्टसा
मर्थ्यः । (२६)
ननु क्षित्यादिरप्यकारकावस्थातो न विशिष्टस्व117 भावः कारणावस्थायामङ्
कुरस्येत्याह (।)
उपसर्पणप्रत्यया118ददृष्टसह119 कारिणः प्राप्तकार्योत्पादानुगु
णातिशया भूम्यादिः
स्वभावपरिणामेनमे न कार्यानुगुणातिशयतारतम्यमुक्तापरापरक्षणलक्षणेनान्त्यावस्था