153

स्यादेतदत्र (।) यत्र दृष्टान्तदार्ष्टान्तिकयोर्भेदस्तत्र सामान्यतो दृष्टमनुमानं
इह तु ।

निदर्शनं तदेवेति सामान्याग्रहणं यदि ।
निदर्शनत्वात् सिद्धस्य प्रमाणेनास्य किं पुनः ॥ ११९ ॥

तदेव दार्ष्टान्तिकं निदर्शनमिति सामान्याग्रहणं यद्युच्यते तदा निदर्शनत्वा
त्सिद्धस्य
निश्चितस्यास्य दार्ष्टान्तिकस्य प्रमाणेन किं कर्तव्यं । (११९)

विस्मृतत्वाददोषश्चेत् तत एवानिदर्शनम् ॥
दृष्टे तद्भावसिद्धिश्चेत् प्रमाणाद्;

नाप्रसिद्धो दृष्टान्तः स चेत् सिद्धः किमनुमानेन गृहीतस्यापि
विस्मृतत्वात् ।
पुनरनुमानप्रतीतावदोषश्चेत् । ततो विस्मृतत्वादेवानिदर्शनं । न हि गृहीतविस्मृ
तस्य दृष्टान्तता । पूर्व्वप्रत्ययेन दृष्टेऽर्थ प्रमाणाद्विशेषदृष्टानुमानाद्य एव प्राग्दृष्टः
स एवायमिति तद्भावस्य पूर्व्वस्य सिद्धिश्चेदिष्यते (।)

नन्वयं तद्भावः किमन्यवस्तुनि साध्यते उत तत्रैव ।

अन्यवस्तुनि ॥ १२० ॥
तत्त्वारोपे विपर्यासस्तत्सिद्धरेप्रमाणता ।
प्रत्यक्षेतरयोरैक्यादेकसिद्धिर्द्वयोरपि ॥ १२१ ॥

तत्रान्यवस्तुनि (१२०) वर्तमाने तत्त्वस्यातीतवस्त्वात्मकस्यारोपे स्वीक्रिय
माणे विपर्यासो
ऽयथार्थत्वं स्यात् । न ह्यन्यस्यान्यात्मत्वमस्ति तदशक्यप्रापण29b
मुपदर्शयदप्रमाणं स्यात् । अथ तत्रैव तद्भावसिद्धिरिति द्वितीयः पक्षः । तदा
तत्सिद्धेरेकसिद्धेर्व्विशेषदृष्टस्यानुमानस्याप्रमाणता गृहीतग्राहित्वात् । न ह्येकस्य
निर्भागस्य किञ्चिदगृहीतं नाम । तथा हि प्रत्यक्षेतरयोरध्यक्षानुमानविषययौरै
क्यात् द्वयोरपि प्रत्यक्षेऽनुमाने च एकस्यार्थस्य सिद्धिः । (१२१)

ततश्च दृष्टान्तग्राहिणैवा
भ्रष्टस्मृतिसंस्कारेण प्रत्यक्षेण सिद्धत्वात् विफल
मनुमानं । प्रत्यक्षसंस्कारभ्रंशे तु नादृष्टान्तमनुमानमस्ति (।) तस्माद् (।)

सन्धीयमानं चान्येन व्यवसायं स्मृतिं विदुः ।
तल्लिङ्गापेक्षणान्नो चेत् स्मृतिर्न व्यभिचारतः ॥ १२२ ॥

अन्येनातीतदर्शनेन एकविषयतया सन्धीय718 मानं घट्यमानं परं व्यवसायं719

  1. अभ्रष्टदर्शनसंस्कारं ।

  2. निश्चयं ।