207 तोऽन्यथा विद्य940माना नीलाद्याभासस्य द्विचन्द्राद्याभासस्य च ज्ञानस्य कारणी
भवन्तीति । (२९४)
स्यादेतत् (।)
मानसस्य प्रत्य941क्षस्येन्द्रियं पारम्पर्येण हेतुः । तेन विरोधाभावश्चेत्942 वा द
वि धि प्र करणे इन्द्रियज्ञानस्य प्रत्यक्षस्य गोचरे
विचार्यमाणे मानसस्य विकल्पस्य
इहावसरे कीदृशः प्रस्तावः । येन परम्परया तद्धेतुरिन्द्रियमुच्यते । (२९५)
तिमिरज्ञानं भ्रममनिच्छतोपि किं कीदृशमैन्द्रियज्ञानमिष्यते । यदक्षाणां भावा
भावयोरनुरोधि स्वभावाभ्यामनुवर्तकं तदैन्द्रियमिति चेत् । तत् इन्द्रियभावाभा
वानुरोधित्वं तैमिरिकज्ञानस्यापि तुल्यं (।) न हीन्द्रियव्यापारमन्तरेण तैमिरि
कज्ञानमुत्पद्यते । इन्द्रि943यविकारेण विक्रियावत् ज्ञानमैन्द्रियं चेत् द्वि
चन्द्रादिज्ञानानां
तिमिरादीन्द्रियविकारेण विक्रिया (।) सैवेयमभूतार्थोपदर्शनान्मिका भ्रान्तत्वनिमि
त्तमुक्ताऽस्माभिः किं निषिध्यते । (२९६)
यदि च द्विचन्द्रादिधीर्मानसी भ्रान्तिस्तदा सर्पोचितदेशे मन्दमन्दालोके रज्वादौ
संस्थानसाम्यग्रहात् उत्पन्नायाः सर्पादिभ्रान्तेरिव मरीचिषु जलभ्रान्तेरिव यथा
प्रत्यक्षं विचारात् । अस्य(ा) द्विचन्द्रादिभ्रान्तेरक्षविकृतावपि सा निवृत्तिः स्यात् ।
अक्षविप्लवो हि न तस्या हेतुः
(।) ततश्च सत्यपि तस्मिन् विमर्शान्निवर्तते
सर्पबुद्धिरिव । तथा ह्यक्षविप्लवेपि तिमिरादौ निवृत्तेपि तत्त्वमविचारयतो न
निवर्तते तद्द्विचन्द्रबुद्धिः । अक्षविप्लवस्य तत्कारणत्वाभावात् । अकारणनिवृत्तौ
च निवृत्त्ययोगात् । (२९७)
किञ्च (।)