209 व्यवधानेन भवति स तस्याः कारणमुच्यते । ततश्चेन्द्रियादेः प्रमितिं प्रत्यव्यवहित
साधकत्वाभावात् न प्रमाणं । (३०१)
किन्तर्हि प्रमाणमस्तीत्याह (।)
तत्र रूपादौ कर्मणि ज्ञानस्यानुभवमात्रेणानुभवात्मनो सदृशात्मनस्तुल्यरूपस्य
तेनात्मना स्वरूपेण प्रतिविषयं व्यतिरेकिणा भाव्यं येन प्रतिकर्म्म प्रतिविषयज्ञानं
विभज्यते । नीलस्येदं पीतस्येदमिति । अन्यथानुभवमात्रतया सर्व्वत्र विषये सदृशं
ज्ञानं प्रतिविषयं कथं भेदेन व्यवस्थापयितुं शक्येत । (३०२)
स्यादेतदिन्द्रियादेर्हेतोः सव्यापा946 रतादिलक्षणो विशेषो ज्ञानानां भेदेन निया
मकमित्याह (।)
हेतुष्विन्द्रियादिषु भेदो विशेषः सव्यापारतादिलक्षणो विद्य
मानोप्यस्य ज्ञान947स्यानुभवमात्रात्मतया भिन्नस्य भिन्ने कर्म्मणि नीलादौ ग्राह्ये भेदेन नियामको न युक्तः । कस्मादित्याह (।) अनात्मभूतः । ज्ञानास्वरूपत्वादिन्द्रियस्य विशेषः
प्रतिकर्म्म न भेत्तुमर्हति । (३०३)
तस्मादस्य ज्ञानस्यात्मभेदात् यतोऽस्यार्थस्येयमधिगतिरिति क्रियाया अधि
गतेः कर्मणि वेद्ये नियमः सा क्रिया तत्प्रसाधना तत्करणाऽभ्युपगन्तव्या ।
(३०४)
स्यादेतद् (।) इन्द्रियादिरेव स्वभेदाद् भेद
को ज्ञानस्य प्रतिविषयमधिगते
र्नियामकः । ततश्चानुभवात्मत्वादविषय एवासिद्ध इत्याह (।)