85b व्याख्येयं शेषं समानम् ॥
तामुदाहरन्नाह—
जलैर्दर्भाङ्कुरैस्तृणोद्गमैः । आदिशब्देन तरुपल्लवादिभिरर्थैरुपकरणैर्वा अयत्नेन सेवापरिक्लेशादि[राहित्येन] सुलभैः [सुख]प्राप्यैरकृच्छ्राधिगतैरमृतायमानैरपरमन्यं कञ्चिदसेवमानाः परचित्ताराधनदुःखानभिज्ञाः स्वाधीनवृत्तयः सुखं निराकुलं [हरिणाः] वनेषु जीवन्ति । अपि नाम तादृशी वृत्तिरस्माकमपि स्यात् ? प्रतिपक्षपातः खलु प्रजायते । तादृशीं कल्याणीं वृत्तिं कल्पयतो हरिणेषु ईर्ष्या लक्ष्यत इति ॥
सेयमनन्तरोक्ता मृगाणां वृत्तिरयत्नसुलभजलदर्भाङ्कुररूपा जीविका, वर्तन्ते जीवन्त्यनयेति कृत्वा । अप्रस्तुता अप्रक्रान्तैव, न प्रस्तुतापि तादृशप्रकरणाभावात् । प्रशस्यते संराध्यते अत्र प्रयोगे केनचिद् राज्ञोऽनुवर्तनम् सेवा तदेव क्लेशः दुःखरूपत्वात् । ततो निर्विण्णेनातिविरक्तेन मनस्विनोदात्तेन केनचित्ततोऽप्रस्तुतापीयमीदृग्विषया [स्तुतिः] काव्यशोभाकरत्वादलङ्कारः । अयमपरोऽत्र उदाह्नियते—