86b कलत्रमिव कलत्रं मेदिनी, पालनादिना । मेदिनी पृथिवी जघन्यजातीया च स्त्री । भुजङ्गशब्देनात्र श्लेषः, फणधरो धूर्तश्च विवक्षित इति श्लिष्टम् । तस्य भोगः यथाक्रमं कामः संभोगश्चेति पुनः श्लिष्टम् । तत्र संसक्ता व्यवस्थिता तेन सा ध्रियते इति श्रुतेः । निरता चेत्युभयत्र योज्यम् । यत एवं तत् कुतः