265 तद्व्यतिक्रमात् इत्यादि ईदृशं दुष्टं हेयम् ॥ अत्रापवादमाह—कार्येत्यादि । कार्याणि त्रिवर्गानुबन्धीनि कर्माणि स्वस्वकार्याणि । तद्विपरीतानि [अकार्याणि] आगमेनैव उत्पत्यादिना तत्प्रतिपादकेन पश्यन् यथार्हमनुतिष्ठन् । वश्यां विधेयामुर्वीमवति रक्षति नृप इति, एवंविधप्रयोगः शिष्टानामस्ति । न च नास्त्येव । तस्मादीदृशः साधुरेव ॥

ननु नियतस्थानपदच्छेदो यतिरिति हेतुपदैकदेशच्छेदः । तत् कथं न यतिभ्रष्टमित्यत आह—

लुप्ते यदान्ते शिष्टस्य पदत्वं निश्चितं यथा ।
तथा सन्धिविकारान्तं पदमेवेति वर्ण्यते ॥ १५४ ॥

पदस्यान्ते यथासम्भवं विभक्त्यादिरूपे लुप्ते सति शिष्टस्य व्यवस्थितस्य भागस्य पदत्वं निश्चितम् ।