115b नानुकम्पादिमात्रम् । कश्चिद् अन्यतमो यदि विवक्ष्यते प्रका[शयितुमि]ष्यते तदा पुनरुक्तोऽपि वाक्येऽर्थतः शब्दतोऽपि वा न दोषः । एकार्थलक्षणेऽभिहिते विकारो नास्ति । गुणोऽपि न तादृशः कश्चिदिति चेदाह—प्रत्युतेति । विशेषविवक्षायां निपातसमुदाय एको वा निपातः । यदाह—इयं पुनरुक्तिरलंकृतिः काव्यशोभाकरत्वाज्जायते तादृशि विषये इति ॥

तदुदाहरति—

हन्यते सा वरारोहा स्मरेणाकाण्डवैरिणा ।
हन्यते चारुसर्वाङ्गी हन्यते मञ्जुभाषिणी ॥ १३८ ॥

सा काचिदिष्टा वरारोह स्त्री मुख्या हन्यते पीड्यते । चारु सर्वमङ्गमस्या इति चारुसर्वाङ्गी । हन्यते मञ्जुभाषिणी मधुरालापिनी हन्यते स्मरेण कामेन अकाण्डवैरिणा निर्निमित्तशत्रुणेति । ईदृशं पुनरुक्तमपि काव्यभूषणमवस्थाविशेषयोगात् । आह च—