32 गावो रश्मयो यस्य स वलक्षगुश्चन्द्रः अत्यर्जुनं [अति]शुक्लं [न] तथाऽनत्यर्जुनं नीलम् अप्सु जन्म यस्य तदब्जन्म तच्च नीलसन्निधानान्नीलोत्पलम् । तेन सदृक्षः समानः [अङ्कः] चिह्नं यस्य सः । तथा नीलोत्पलसमानचिह्नश्चन्द्र इत्येतावत्यर्थे इयती व्युत्पत्तिः कृतेति व्युत्पन्ना गौडा इति ॥

समत्वं निर्देशयन्नाह—

समं बन्धेष्वविषमं ते मृदुस्फुटमध्यमाः ।
बन्धा मृदुस्फुटोन्मिश्रवर्णविन्यासोनयः ॥ ४७ ॥

बन्धेषु रचनासु विषये यदविषमम् समम् आदिमध्यान्तेषु चतुर्णामपि पादानां सजातीयबन्धत्वादित्यनूद्य तत्समं काव्यं ज्ञेयमिति विधीयते । कियन्तस्ते बन्धा येष्वविषमं समं स्यादिति चेदाह—त इत्यादि । ते बन्धा मृदुस्फुटमध्यमाः त्रयः सम्भवन्ति । मृदुरशिथिलः कोमलः । शिथिलकोमलस्य श्लेषविपर्ययत्वात् । यथोक्तं प्राक् । मृदुश्रुतिरिति यावत् । स्फुटोऽधिमात्रश्रुतिः । क्रुद्धोद्यस्य सुकुमारविपर्ययत्वात् । यद् वक्ष्यति—न्यक्षेणेत्यादि48

  1. १. ७२