अथ विजातीयबन्धत्वसङ्करस्तदा विषमं काव्यं जायते विजातीयबन्धकृतवैषम्ययोगात् । तदेवमुदाहरन्नाह—
कोकिलानामालापैः कूजितैर्वाचालो मुखरो मृदुवसन्ते कोकिलालापस्य मलयानिलस्य च सम्भवादेवमुक्तम् । उच्छलन्तः शीकरा येषां विकीर्यमाणकणानामच्छ-33 च्छानामत्यन्तप्रसन्नानां निर्भ्फराणां प्रश्रवणानामम्भस उदकस्य कणैः बिन्दुभिरुक्षितः सिक्तः शीतः मलयानिलो दक्षिणमारुतः मामेति [मा]मुपसर्पतीति योज्यम् । एतद्द्वये मृदुस्फुटविजातीयवर्णसङ्कराद् विषमम् । एतदेव च [वि]जातीयबन्धपूरितमर्द्धद्वयं केवलमृदुबन्धं केवलस्फुटबन्धं च श्लोकद्वितयं भवत् समोदाहरणं सम्पद्यते । तद्यथा—