66
यशस्करीं तां धुरमादिपौरुषांपुनः प्रवृत्तां विदधातु शाश्वतीम् ॥
निरस्तदौर्गत्यसमृद्धिशीकरःशुभोदयात्तृप्तसमस्तसज्जनः ।
पुनस्तथा सद्वरशास्त्रसंकथा-विनोदरम्यः सम[यः] प्रवर्तताम् ॥

प्रकृतमिदानीं समाप्यताम् । तदेवं काव्यरचनाकीर्तये काव्यव्युत्पत्तये च काव्यलक्षणशास्त्रस्य प्रयोजनमिति ।

मतं खिलप्रायमिहास्ति दण्डिनःतदेतदत्र प्रकृतं परिस्फुटम् ।
इतः पुरस्तात् सममेव वर्ततेतदत्र नास्माभिरभावितो विधिः ॥
अर्थप्रधाना प्रतिकर्मितेय-मर्थान्वयाऽऽस्ते गणिकेव टीका ।
शब्दप्रधाना अपि लब्धवर्णा[भवन्ति निष्काः सुमनः]प्रसिद्धाः ॥
स्वयं निरामोदमपीह किञ्चनप्रकर्षभूम्ना प्रथते सदाश्रयात् ।
प्रसिद्धतां पश्य जनेक्षणालयंकलङ्कमिन्दोः कियतीमुपागमत् ॥
आचार्यदण्डिकृतौ काव्यलक्षणे मार्गविभागपरिच्छेदटीका रत्नश्रीर्नाम समाप्ता ॥70
  1. कृतिरियं सिंहलाचार्य रत्नश्रीज्ञानस्य ॥
    सौजन्यगुणधोषस्य घोषलीग्रामसद्मनः ।
    भदन्तबुद्धदेवस्य सानाथ्यमिदमीदृशम् ॥
    घोषलीग्रामकायस्थदेवदत्तकृतात्मना ।
    कृतमेतन्मया यत्नादीदृशं सदृशं धियः ॥