7 शास्त्रादेव दृष्टार्थाददृष्टार्थाद् वेति सर्वशास्त्रस्थितिरेषा । काव्यमप्येतत् त्रिविधं चतु र्वर्गरूपं चतुर्वर्गस्तदुपायश्चानेन रसान्तरपरिग्रहेण प्रतिपाद्य[प्रतिपा]दकत्वात् । शब्दात्मकमपि काव्यशरीरं चतुर्वर्गस्तादर्थ्यात् । उपायोऽपि तादर्थ्याच्चतुर्वर्गः ।

मुख्यस्तावच्चतुर्वर्गः पुमर्थाशेषसंग्रहः ।
तदुपायेऽपि तादर्थ्याच्छास्त्रेष्वपि [समादरः] ॥

इति संग्रहश्लोकः ।

किं च काव्येनेष्टदेवताविषयविचित्रस्तोत्रलक्षणेन सम्यग्विरचितेन धर्मोऽप्रमेयः । तथात्वे च कदाचिद् वरलाभादिकोऽर्थः । सुख[म्]प्येतत्पुरुषार्थ[द्वय]निष्ठमुक्तम् ।

बुद्धस्तोत्रग्रन्थनव्यापृतानां भक्तिप्रह्वेष्विन्द्रियेषु द्रवत्सु ।
एकैकस्मिन् यः क्षणे पुण्यकोशो नासर्वज्ञस्तं प्रमातुं समर्थः ॥ इति ।

गुणज्ञराजादि[वर्णनातोःप्यर्याति]शयप्राप्तिस्तदर्थाच्च धर्मः सुखं च सम्पत्स्येते । किं बहुना, न सोऽस्ति पुरुषार्थः कश्चिद् यः काव्यात् परिगृहीताश्रयविशेषा[न्न जायते । इ]हानुषङ्गे गुणदोषविभागः करणीयः । स च शास्त्रादेव नान्यथेति विस्तरेण पूर्वमेव प्रतिपादितम् । ततः का[व्यक्रिया]विधिमिति प्रकृतम् । कस्य व्युत्पत्तिमभिसन्धायेत्याह-प्रजानामिति । लोकस्य सन्ताने का व्युत्पत्तिः कथं [केषां ?] नाम...... [व्युत्पादनक्रि]यामभिसन्धाय क्रियाविधिं निबबन्धुरित्याह-वाचां विचित्रमार्गाणामिति । विचित्रो नानाप्रकारः शब्दालंकारा[र्थालंकारादियुक्तो मार्गः] काव्यान्येव । ततः काव्यविषयां लोककर्तृकां काव्यगुणदोषविभागविज्ञानलक्षणां व्युत्पत्तिमुद्दिश्य [शास्त्रनिर्माणम्] । तत्संक्षेपत्वाद् इदमपि सप्रयोजनमिति कर्त्तव्यमेव । ततश्च सामान्येन काव्यलक्षणशास्त्राज्ज्ञेय इयता विशिष्योच्यते ॥

[काव्यल]क्षणमिदानीं कर्तुमारभते—

तैः शरीरं च काव्यानामलङ्कारश्च दर्शितः ।
शरीरं तावदिष्टार्थव्यवच्छिन्ना पदावली ॥ १० ॥

इह योनि कानिचित् काव्यानि संभवन्ति तेषां [शरीरमलङ्कारश्च] तैः पूर्वाचार्यैः लोकस्य काव्यव्युत्पत्तये क्रियाकल्पे निबद्धे । तयोः कीदृशं शरीरम् [शब्दरूपम् । अर्थे]