15a राष्ट्राश्रयां भाषां वाचं प्रकृष्टं प्राकृतेषु शोभनतमं प्राकृतं विदुः उपदिशन्ति बहुज्ञाः । तदुक्तम्—

ऊहइ अ विविह भासा परिरि (?) हिअअं य मोत्तूणं ।
मरहअठिअया अ अत्थि गहिअं कइल्लेहि ॥ [?]
इति । कुत्रैतद् दृश्यते इति चेदाह-सागर इत्यादि । सेतुबन्धः प्रवरसेनरचितः । स्कन्धकमर्यः आदिर्यस्य मथनादेस्तत्सेतुबन्धादि काव्यम् यन्मयं यस्य प्राकृतस्य विकारः, तत्प्राकृतं प्रकृष्टमिति प्रकृतम् । तत्काव्यं सदिति प्रशंसयन्नाह—सागरः सूक्तरत्नानामिति । सूक्तानि शब्दार्थोत्कर्षयोगात् । तान्येव प्रीतिकरत्वादिसाधर्म्येण रत्नानि, तेषां सागर आस्पदम् । रत्नानां हि सागर आश्रयः, सूक्तानां च रत्नकल्पानां तत्काव्यमाश्रय इति सागर उक्त इति । ननु प्राकृतान्तरमयमपि सेतुबन्धादि, तत् किमुच्यते महाराष्ट्रप्राकृतमयमिति । न चात्र पठ्यते महाराष्ट्रप्राकृतमयमेवेति । प्राधान्यात्तत् तन्मयमुक्तम् । यथा हयमयमनीकमिति ततेन्नश्यत(?) इत्येवंपरमेतत् ॥

ननु सामान्यभाषापि प्राकृतप्रकारोस्ति । यदुक्तं हरिवृद्धेन—

अण्णेहि अ एएहि अ सरिसं च अ होइ सामण्णे इति ।
अन्योऽस्तीत्याह—

सौरसेनी च गौडी च लाटी चान्या च तादृशी ।
याति प्राकृतमित्येव व्यवहारेषु सन्निधिम् ॥ ३५ ॥

सूरसेनाश्रया सौरसेनो, गौडाश्रया गौडी, 37लाटाधिष्ठाना लाटी । अन्या च पाञ्चालीमागधीत्यादिका तादृशी तथाविधा एवंप्रकारा सामान्यभाषा प्राकृतमित्यनेनैव नाम्ना नापभ्रंश इत्यनेन सन्निधिं प्रयोगं याति । कुत्र, व्यवहारेषु नाटकादिषु । व्यवह्रियते [शि]क्षणं व्यवहारः [तत्र] प्रवर्तते एभिरिति सा च मुसुमुरिअ मूअच्छि

  1. लात इत्यादर्शे ।