356 योगिनं परिकल्प्य ततो व्यतिरेकोऽपीति स्वजातिव्यतिरेकः प्रथमः प्रकारः । द्वितीयस्तु सैव व्यक्तिर्विधर्मेति । एतत्प्रकारद्वयं यथासंख्यमभिधीयमानसादृश्ययोरिति मूलभेदद्वयं तथैवापरमेकानेकलक्षणं प्रकारद्वयं तत्रैवान्यत्सादृश्यवैसादृश्यरूपं द्वयमिति क्रमेण षोढा भेदो विवक्षितः । यथा च स्वजातिव्यतिरेंकयोः प्रतीयमानाभिधीयमानसादृश्यगामिता न संभवति तथाग्रे वक्ष्यते ॥

तत्र शब्दोपात्तसादृश्ये स्वजातिव्यतिरेको यथा—

‘अरत्नालोकसंहार्यमवार्यं सूर्यरश्मिभिः ।
दृष्टिरोधकरं यूनां यौवनप्रभवं तमः ॥ ९० ॥’

अत्र यौवनप्रभवस्य तमसस्तमोजात्या सह दृष्टिरोधकरमिति सादृश्यमुक्त्वा, अरत्नालोकसंहार्यमवार्यं सूर्यरश्मिभिरिति व्यतिरेको विहितः, सोऽयं स्वजातिव्यतिरेकः ॥

अत्र यौवनप्रभवस्येति । यौवनकृतमज्ञानलक्षणमन्यदेव तमोऽन्यच्चान्धकाररूपं तयोस्तद्भावापत्तिरियमेव कल्पनास्माभिरुक्ता । अनेन तु प्रकारेण रसः पुष्यतीत्यलंकारमध्ये गणनम् ॥

प्रतीयमानसादृश्ये स्वव्यक्तिव्यतिरेको यथा—

‘अण्णोण्णेहिं सुचरिअसअहिं अणुदिण वड्ढिइअ माणु ।
अप्पणवि ण हु महुवि अह अप्पाणेण समाणु ॥ ९१ ॥’
[अन्योन्यैः सुचरितशतैरनुदिनं वर्धते मानः ।
अस्यापि न खलु महानपि अथात्मना समानः ॥]

अत्र प्रतीयमानोपमानसादृश्योपचरितभेदादात्मव्यक्तेरन्यैरन्यैश्च सुचरितशतैः स्वव्यक्तित एव भेदोऽभिहितः । सोऽयं स्वव्यक्तिव्यतिरेकः ॥

अण्णोण्णेहिं अन्योन्यैर्मानोऽहंकारः पूजा वा । यौ तु कल्पितभेदाधिकरणत्वे- नोपात्तौ विरोधिधर्मवत्तया शब्दात्प्रतीयेति तयोर्निर्यन्त्र133णत्वादिकमिति भवति सादृश्यं प्रतीयमानम् ॥

  1. अत्र ‘निर्यत्नं णत्वा-’ इति पाठ आसीत्तत्र निर्थन्त्रणत्वादिकमिति कल्पितोऽस्ति ।