366

समर्थये इति । विभाविताप्रिय इति युक्तः पाठः, प्रियादिषु पुंवद्भावप्रतिषेधात् । नात्राभावारोपः स्फुटोऽवगम्यत इति प्रकरणमादाय व्याचष्टे—अत्राङ्गीकृतेति । न च वाच्यं दोलायमानतया संशयरूपमिदं ज्ञानमिति । यतो नास्त्येवात्र प्रियतमा तथापि तदारोपेण मनस्तापातिवाहनमुचितमिति जानतः पुरूरवसोऽनुबन्धप्रकर्षः पुष्यति नान्यथेति सहृदयहृदयसाक्षिकमिदम् । तदेतन्मनाक् स्फुटयति—पूर्वानुभूतैवंविधेति ॥

तत्त्वेऽप्यतत्त्वरूपोपेक्षाहेतुर्यथा—

‘चिक्रंसया कृत्रिमपत्रिपङ्क्तेः कपोतपालीषु निकेतनानाम् ।
मार्जारमप्यायतनिश्चलाङ्गं यस्यां जनः कृत्रिममेव मेने ॥ ११३ ॥’

अत्र तत्त्वरूपेऽपि मार्जारे कृत्रिमोऽयमिति बुद्धौ जातायां तस्यां प्रयोजकत्वेन यदुपेक्षणं सेयं तत्त्वेऽप्यतत्त्वरूपोपेक्षाहेतुर्भ्रान्तिः ॥

प्रयोजकत्वेन यदुपेक्षणमिति । या प्रवृत्तिं निवृत्तिं वा न प्रसूतेऽपेक्षा- बुद्धिं वेत्यर्थः ॥

भ्रान्तिमान्भ्रान्तिमाला च भ्रान्तेरतिशयश्च यः ।
भ्रान्त्यनध्यवसायश्च भ्रान्तिरेवेति मे मतम् ॥ ३८ ॥

भ्रान्तिमानिति । भूम्नि मतुप् । भूमार्थो द्विविधो बहूनां भ्रान्तीनामेकविषयतो भिन्नविषयाणां वा समानकर्तृता । आद्यो भ्रान्तिमतो विषयो, द्वितीयो भ्रान्तिमालायाः । न हि भ्रान्तिमति मालाक्रमनियमोऽस्ति युगपदपि भिन्नकर्तृकाणां जायमानत्वात् । भ्रान्तेरतिशयः शब्दोपनीतप्रकर्षा भ्रान्तिरिति स्वकार्यभूतं वितर्कमादाय प्रतीयमानो विपर्ययहेतुर्भ्रमान्तरानुबन्धी ॥

तत्र भ्रान्तिमान् यथा—

‘कपोले मार्जारः पय इति कराँल्लेढि शशिन- स्तरुच्छिद्रप्रोतान्बिसमिति करी संकलयति ।
रतान्ते तल्पस्थान्हरति दयिताप्यंशुकमिति प्रभामत्तश्चन्द्रो जगदिदमहो विभ्रमयति ॥ ११४ ॥’