प्रतीयमानगुणेन यथा—
अत्र प्रियदर्शनसुखेन मुकुलितयोरेव लोचनयोस्तस्याः कर्णकुवलयं लक्ष्यते नत्वमुकुलितयोरिति वस्तुना वस्त्वन्तरतिरस्कारः प्रतीयमानगुणतयोपपादित इति प्रतीयमानगुणेन वस्तुना मीलितमिदम् ॥
ननु पिअदंसणेणेत्यादि कथं मीलितं, न ह्यत्र तिरस्कारः केनापि शब्देन प्रत्याय्यत इत्यत आह—नत्वमुकुलितयोरिति । यदि मुकुलिते न स्यातां कथं कुवलयं लक्ष्यत इति तर्कस्य तिरस्कारपर्यवसानादिति भावः । मूर्तिरूपादिकः प्रतीयमानो गुणः ॥
पिहितं यथा—
अत्र प्रकटितस्नेहविभ्रमतया त्वामवलोक्य नैतदन्यो जनो जानात्विति सर्वत्र स्निग्धदृष्टिपातेन पिहितमप्येतन्मीलितभेद एव ॥
अपिहितं यथा—