383

कार्यभूतविरहिणीनामिति । पथिकगेहिनीनां दशम्यवस्था ज्ञायमाना वाक्यार्थः । अतः फलोपन्यासदत्तभरमेवेदं काव्यमित्यभिप्रायः । आयातश्चेज्जलदागमस्तदा पूर्वप्रवृत्त इव पथिकनारीविनाशो लक्ष्यत इति निष्ठाप्रत्ययेन द्योत्यते ॥

यत्र कार्यं दृष्ट्वा कारणमनुमीयते तच्छेषवद्यथा—

‘सावज्ञमागमिष्यन्नूनं पतितोऽसि पादयोस्तस्याः ।
कथमन्यथा ललाटे यावकरसतिलकपङ्क्तिरियम् ॥ १५२ ॥’

अत्र यावकरसतिलकपङ्क्ते कार्यभूतायाः कारणभूतं पादपतनमनुमीयते । तेनैतच्छेषः कार्यमिहास्तीति शेषवदुच्यते ॥

कथमन्यथेति । नेयमर्थापत्तिः; किंतु तथाभूता नायकस्य ललाटेऽलक्तकबिन्दुविशेषपङ्क्तिः प्रमदापदावपातप्रतिबद्धेति । न चालक्तकबिन्दुपङ्क्तिज्ञानं तथा स्वदते यथा विपक्षचरणावनमनानुमेयस्य ज्ञानं फलभूतम्, तत्किल विपक्षगोचरामीर्ष्यां व्यञ्जयद्विप्रलम्भप्रकर्षं पुष्णाति ॥

यत्र न कार्यं न कारणं केवलमविनाभावमात्रं प्रतीयते तत्सामा- न्यतो दृष्टं यथा—

‘गज्जन्ते खे मेहा फुल्ला णीवा पणद्दिआ मोरा ।
णट्ठो चन्दुज्जोओ वासीरन्तो हला पत्तो ॥ १५३ ॥’
[गर्जन्ति खे मेघाः फुल्ला नीपाः प्रनर्तिता मयूराः ।
नष्टश्चन्द्रोद्दयोतो वर्षर्तुः सखि प्राप्तः ॥]

अत्र वर्षर्तुरविनाभूतैर्मेघगर्जितादिभिः सामान्येनैवानुमीयत इति सामान्यतो दृष्टमिदम् । तान्येतानि भावसाधनेऽनुमानशब्दे फलपक्षे उदाहरणानि भवन्ति ॥

गज्जन्त इति । अत्र समसमये मेघगर्जितादिभिः कालोपाधिभिरनुमानं तेन कार्यकारणभावः । अत्र हि न पृथङ्रमेघगर्जितादिज्ञानं तथा चमत्क्रारमावहति यथा वर्षारात्रिज्ञानप्रतिबद्धम् । स हि ज्ञातः केतककर्णपूरादिविदग्धनेपथ्यपरिग्रहौत्सुक्यं प्रवासिनायकागमनौत्सुक्यं वा जनयतीति फल एव भरः ॥