390

अत्र यदानुभूतनायकसंदर्शनायास्तद्रूपालेख्यप्रदर्शनादेवंभूतः स इति विज्ञानमुत्पद्यते, गोपनार्थं च तथाभूतयोरेव देवकुलादिदृष्टविष्णुकामयोः प्रतीतिर्भवति, तदैतदनुभूतार्थविषयं भवति । यदा पुनरननुभूतनायकादिसंदर्शनाया इत्थमाप्तोपदेशः । एवंभूतः सुपर्णकेतुश्चक्रपाणिर्विष्णुर्भवति, एवंभूतो मकरध्वजः पुष्पचापः कामो भवति, यादृशाविमौ तादृशश्च ते मनोरथभूमिः; केवलमस्य गरुत्मदादयो न विद्यन्ते । तदा तदुत्तरकालमालेख्यगततदाकारदर्शनात् सोऽयं मम प्रेयानिति मद्विधया कयापि लिखितो भविष्यतीति तद्गोपायाम्येनं विष्णुचिह्नाभ्यामिति गरुत्मच्चक्रे अधःप्रदेशहस्तयोः केतुहस्तयोर्निवेशयति । अथापरा प्रतिविधित्सुर्गोपायन्ती प्रकाशयन्ती च प्रत्यासन्नोपमानं मन्मथाकारमाचिख्यासुः करे पौष्पं चापं मकरमुपरिष्टाच्च लिखति । अत्राकृतौ पदार्थे या इमास्तयोर्लोकानां सोऽयमिति विष्णुरिति काम इति च संज्ञासंज्ञिसंबन्धप्रतिपत्तयस्तदिदमनुभूतार्थविषयमुपमानमालेख्यमाख्यायते ॥

तवालेख्य इति । तदप्राप्तिकर्शिता चित्रप्रतिमादिना परिनोदनेन कथंचिदात्मानं धारयतीति तन्वीपदेन ध्वन्यते । न च जीवितमात्रार्थिनी सा किंतु त्वदाकृतिदर्शनकुतूहलेनोद्विग्ना सती निगूढमप्यभिप्रायमालेख्यनिर्माणेन व्यनक्तीति कौतूहलतरंलपदाभ्यां व्यज्यते । एकेति । या राधादिप्रणयपात्रं वशीकृतत्रिभुवनमाजानसुकुमारं देवकीनन्दनमागमेषु बहुधाश्रौषीत् । अथेति । सा निर्यन्त्रणप्रार्थनीयताविरोधिनं देवताभावमनुसंधत्ते, तया त्रैलोक्यातिशायिसौभाग्यप्रकर्षस्य पुष्पेषोश्चिह्नभूतौ चापमकरौ लिखिताविति, अथ स्विद्यत्पाणिस्त्वरितमित्येतेर्व्यज्यते । अत्रोदाहरणे द्विविधमप्युपमानं दर्शयति । तत्र मीमांसकपक्षे तावत्तन्व्यालेख्यमुन्मृदितं दृष्ट्वा काचिदनुभूतपूर्वं नायकं जानाति । सादृश्याविशेषाच्च कृष्णकामावपि प्रत्येति तदा सदृशात्प्रतियत्तिरुपमानं भवति । नैयायिकपक्षे यदा सामान्यतो नायकागमे उत्पन्नपूर्वानुरागाया विशेषतश्च प्रत्यङ्गलावण्यमजानन्त्या इत्थंभूताकारौ कृष्ण कामौ यादृशौ तादृशस्तव प्रेयानित्याप्तोपदेशश्नबणानन्तरं गृहीत-