393 धारणशक्तिमन्तरेण तत्कर्मासमर्थमिति तस्यपि शक्तिः कल्प्यते । सेयमर्थापत्तिपूर्विकार्थापत्तिः । यश्चायमर्थापत्तिविकल्पस्य मध्यस्योपलम्भाभावः सोऽपि प्रकारन्तरेणासंभवन् कान्तिकार्श्ययोरुत्कर्षं ब्रूते । सा चेयमभावपूर्विकानुपपत्तिर्भवति । न चैतदिह शाब्दमपि तु वाक्यार्थ- सामर्थ्याद्गम्यते ॥

अत्र स्तनभरेति । स्तनभरस्थितिः प्रत्यक्षगृहीता सा चाधारमन्तरेणानुपपद्यमाना मध्यं कल्पयति । सा च कल्पनार्थापत्तिः । अनुपलभ्यमानमिति । अन्यथा प्रत्यक्षगृहीतेऽर्थे किमर्थापत्त्या । अत्रैवोदाहरणेऽनेकशो व्याख्यातुं शक्यत इत्याह—इयमपीति । शक्तिर्मीमांसकनये नित्यातीन्द्रिया, अभावोऽभावेनैव गृह्यत इति मध्यानुपलम्भोऽभावप्रमाणपूर्वकः । कान्तीति । अद्भुतप्रभावतिरस्कृतं हि नयनमासन्नमपि न मध्यग्रहणसमर्थमिति भावः ॥

प्रत्यक्षादिपूर्विका अनेकशः यथा—

‘एतदालोक्य लोलाक्षि रूपमप्रतिमं तव ।
कल्पयामः कलातत्त्वगुरुतामादिवेधसः ॥ १७२ ॥’

तत्रेदं रूपमप्रतिमं तवेति प्रत्यक्षपूर्वता अभावपूर्वता च व्यक्तमेव प्रतीयते । तेनेयमनेकशः । अत्रापि येयं रूपस्याप्रतिमतान्यथानुपपद्यमाना कलातत्त्वगुरुविनिर्मितत्वमात्मनोऽवस्थापयति सोर्वश्यहल्यादिरूपोपमानज्ञानपूर्विका, या तत्कर्तुरर्थापत्तिकल्पिता कालातत्त्वगुरुता सापि तथाविधशक्तिकल्पनापूर्विकेत्युपमानपूर्विकार्थापात्तिपूर्विका चेयमर्थापत्तिः । सापि तत्कर्तुर्वेधसः कलातत्त्वगुरुता तथाभूतशक्त्याधारता वा, साप्यनुमानत आगमतो वाज्ञस्य कल्प्यत इत्यनुमानपूर्विका चेयमर्थापत्तिः । न चैतच्चतुष्टयमिहापि शाब्दमपि तु वाक्यार्थसामर्थ्याद्गम्यते ॥

अप्रतिममिति । प्रतिमाशून्यं रूपं विशिष्टमेव तत्र विशेषणांशेऽभावस्य व्यापारः, विशेष्यांशे प्रत्यक्षस्य । पूर्ववदिहापि व्याख्यानमाह—अत्रापीति । प्रतिमाभावज्ञानं प्रतिमाज्ञानपूर्वकम, प्रतिमा च सादृश्यं, तच्च सहशब्दद्वयदर्शनवेद्यामित्यस्ति पूर्वमुपमानम् ॥