311
क्षोभस्फुरितचूडेन्दुखण्डप्रकरविभ्रमाः ।
ताण्डवाडम्बरे शम्भोरट्टहासाः पुनन्तु वः ॥ १ ॥
विविच्यमानगम्भीरमूलग्रन्थाकुलान्प्रति ।
इतोऽप्यतः परं व्याख्या संक्षेपेण निगद्यते ॥ २ ॥

क्रमप्राप्तार्थालंकारलक्षणाय तृतीयपरिच्छेदारम्भः । तत्र विभागोपयुक्तं सामान्यलक्षणमाह—

अलमर्थमलंकर्तुं यव्द्युत्पत्त्यादिवर्त्मना ।
ज्ञेया जात्यादयः प्राज्ञैस्तेऽर्थालंकारसंज्ञया ॥ १ ॥

अलमर्थमिति । विशिष्टा उत्पत्तिर्व्युत्पत्तिर्जातेरवच्छेदकः प्रकारः । आदिशब्दाद्विविधशक्तिप्रतिबन्धादयो विभावनाद्यवच्छेदास्त्रयोविंशतिः । अर्थालंकारसंज्ञयेति । अर्थशोभानिवृत्तिहेतुर्विच्छित्तिरर्थालंकार इति स्फुटलक्षणम् ॥

जातिर्विभावना हेतुरहेतुः सूक्ष्ममुत्तरम् ।
विरोधः संभवोऽन्योन्यं परिवृत्तिर्निदर्शना ॥ २ ॥

विभागान्दर्शयति—जातिरिति ॥

भेदः समाहितं भ्रान्तिर्वितर्को मीलितं स्मृतिः ।
भावः प्रत्यक्षपूर्वाणि प्रमाणानि च जैमिनेः ॥ ३ ॥

प्रत्यक्षानुमानोपमानशब्दार्थापत्त्यभावाख्यानि जैमिनेः प्रमाणानि षट् । तेनैव क्रमेण लक्षणान्याख्यातुं प्रत्यक्षपूर्वाणीत्युक्तम् । साहित्यस्य सर्वपरिषद्यत्वन्नानादर्शनरीत्युपजीवनमुचितमेव ॥