324

अत्र क्रियानाविष्टतयैवेन्दुमत्यां महीपतीनां शृङ्गारचेष्टा भवन्त्यो लक्ष्यन्ते । सोऽयं लक्षणहेतुः प्रतिना योगे द्वितीयामुत्पादयति ॥

इह पञ्चैव लक्षणे विभक्तयो विहिताः । तद्यथा । ‘अनुर्लक्षणे १।४।८४’, ‘लक्षणेत्थंभूत १।४।९०’ इत्यादिना कर्मसंज्ञां विधाय ‘कर्मप्रवचनीययुक्ते २।३।८’ इति द्वितीया । ‘येनाङ्गविकारः २।३।२०’, ‘इत्थंभूतलक्षणे २।३।२१’ इत्येताभ्यां तृतीया । ‘उत्पातेन ज्ञापिते च १।४।४४ वा.’ इति चतुर्थी । ‘यस्य च भावेन भावलक्षणम् २।३।३७’ इति सप्तमी । ‘षष्ठी चानादरे २।३।३८’ इति षष्ठी । तदेतदाह—द्वितीया चेति । षष्ठीमग्रे वक्ष्यति । ‘षष्ठी चानादरे २।३।३८’ इति सूत्रे चकारस्य समुच्चेयतया न प्रधाना सेति नात्र तुल्यकक्षतया गणिता । क्रियानाविष्टं स्वव्यापारशून्यं तटस्थमेव यव्द्याप्रियते, तेन कारकाद्भेदः । अत्र हि क्रियानाविष्टस्यैव इन्दुमत्यामितीन्दुमतीमालम्बनविभावीकृत्य (विधीय)मानाः शृङ्गारचेष्टास्तयैवावच्छिद्यन्ते, तदवस्था एव च लक्ष्यन्ते, ततो भवति हेतुत्वं लक्षणत्वमवधित्वं चेति । ननु कथमत्र द्वितीया, यावता हेतुत्वात्तृतीयया भवितव्यमित्यत आह—द्वितीयामिति । नाप्राप्तायां तृतीयायामियं विधीयमाना बलवती तां बाधत इत्यर्थः ॥

तृतीयावाच्यमित्थंभूतलक्षणं यथा—

‘कण्ठेकालः करस्थेन कपालेनेन्दुशेखरः ।
जटाभिः स्निग्धताम्राभिराविरासीद्वृषध्वजः ॥ २६ ॥

अत्र कण्ठेकाल इत्यादीनि क्रियायामनिविशमानान्येव वृषध्वजं ज्ञापयन्ति यथा जटाभिस्तापस इति ॥

कण्ठेकाल इत्यादीनीति । यद्यपि कपालेन जटाभिरित्येवोदाहरणं तथापि प्रसङ्गादितरव्द्याख्यानं ज्ञापकत्वम् । उभयत्रापि तुल्यविभक्तिवाच्यतायां तु विशेषः । तेनान्योऽप्येवंजातीयो लक्षणप्रकारः स्वयमूहनीय इत्युक्तं भवति, यद्वक्ष्यति ‘उपलक्षणं चैतत्’ इत्यादिना । उक्तमेव प्रसिद्धोदाहरणेन द्रढयति—यथा जटाभिरिति । यथाहीत्थंभूतस्य तेनैव प्रकारेण प्रकारवतो लक्षणं जटा भवन्ति तथेहापि कपालादिकमिति भावः ॥

तृतीयावाच्य एवाङ्गविकारलक्षणं यथा—

‘स बाल आसीद्वपुषा चतुर्भुजो मुखेन पूर्णेन्दुनिभस्त्रिलोचनः ।
युवा कराक्रान्तमहीभृदुच्चकैरसंशयं संप्रति तेजसा रविः ॥ २७’