402

सर्वसमासा यथा—

‘शरदिन्दुसुन्दरमुखी कुवलयलदीर्घलोचना सा मे ।
दहति मनः कथमनिशं रम्भागर्भाभिरामोरूः ॥ ४ ॥’

अत्रोपमानोपमेयधर्माणामिन्दुसुन्दरादिपदैरिवार्थस्य समासेनैवाभिधानम्, सर्वं समासेऽस्यामिति सर्वसमासोपमानामेयं समासोपमासु पदोपमाभक्तिः ॥

शरदित्यादि । ईदृशी सा स्त्री मम मनः कथमनिशं दहति । कीदृशी । शरच्चन्द्ररम्यमुखी नीलनलिनपत्रदीर्घनेत्रा कदलीमध्यसुन्दरोरूश्च । इहोपमानमिन्दुः, उपमेयं मुखम्, तुल्यधर्मः सुन्दरत्वम् । एवमन्यत्रापि । शरदिन्दुरिव सुन्दरं मुखं यस्याः सा इतीवार्थस्यापि समासाभिधेयता । सर्वः समासो यस्यामित्यादिविग्रहे विवक्षितार्थालाभ इत्यत आह—सर्वमिति ॥

प्रत्ययोपमापि पदोपमाभेद एव न त्वधिकेत्याह—

या प्रत्ययोपमेत्युक्ता काव्यविद्भिः पदोपमा ।
चतुर्धा भिद्यते सापि प्रत्ययार्थप्रभेदतः ॥ १० ॥

येति । पदप्रत्ययोरनुबोधनेऽन्योन्यपेक्षिततयोपमायामपि तथेति न भिन्नता ॥

प्रत्ययो ह्युपमेये स्यादुपमानेऽपि कश्चन ।
तत्सामान्ये भवेत्कश्चिदिवार्थे कश्चिदिष्यते ॥ ११ ॥
तेषां वशात्तदुपमा भवेत्तव्द्यपदेशभाक् ।
उदाहरणमेवास्या रूपव्यत्त्क्यै निदर्श्यते ॥ १२ ॥

तत्र प्रत्ययस्योपमेयस्यार्थे यथा—

‘हंसो ध्वाङ्क्षविरावी स्यादुष्ट्रक्रोशी च कोकिलः ।
खरनादी मयूरोऽपि त्वं चेद्वदसि वाग्मिनि ॥ ५ ॥’

अत्र ‘कर्तयुपमाने ३।२।७९’ इत्यनेन यदोपमाने उपपदे ध्वाङ्क्ष इव विरौतीति सामानाधिकरण्येन कर्तर्येव प्रत्ययस्तदोपमेयस्यार्थे भ-