सर्वसमासा यथा—
अत्रोपमानोपमेयधर्माणामिन्दुसुन्दरादिपदैरिवार्थस्य समासेनैवाभिधानम्, सर्वं समासेऽस्यामिति सर्वसमासोपमानामेयं समासोपमासु पदोपमाभक्तिः ॥
शरदित्यादि । ईदृशी सा स्त्री मम मनः कथमनिशं दहति । कीदृशी । शरच्चन्द्ररम्यमुखी नीलनलिनपत्रदीर्घनेत्रा कदलीमध्यसुन्दरोरूश्च । इहोपमानमिन्दुः, उपमेयं मुखम्, तुल्यधर्मः सुन्दरत्वम् । एवमन्यत्रापि । शरदिन्दुरिव सुन्दरं मुखं यस्याः सा इतीवार्थस्यापि समासाभिधेयता । सर्वः समासो यस्यामित्यादिविग्रहे विवक्षितार्थालाभ इत्यत आह—सर्वमिति ॥
प्रत्ययोपमापि पदोपमाभेद एव न त्वधिकेत्याह—
येति । पदप्रत्ययोरनुबोधनेऽन्योन्यपेक्षिततयोपमायामपि तथेति न भिन्नता ॥
तत्र प्रत्ययस्योपमेयस्यार्थे यथा—
अत्र ‘कर्तयुपमाने ३।२।७९’ इत्यनेन यदोपमाने उपपदे ध्वाङ्क्ष इव विरौतीति सामानाधिकरण्येन कर्तर्येव प्रत्ययस्तदोपमेयस्यार्थे भ-