457 द्रव्याणां प्रधानक्रियाध्यारोपे धर्मिधर्माध्यासे मेलितं नाम समाधेरेव भेदो भवति ।
देहो व्व इत्यादि । ‘देह इव पतति दिवसः कण्ठच्छेद इव लोहितो भवति रविः । गलति रुधिरमिव संध्या घूर्णते केशकृष्णं शिर इव तिमिरम् ॥’ इह दिनमङ्गमिव पतति, रक्तः सूर्यः कण्ठच्छेद इव भवति, रक्तमिव संध्या गलति, तिमिरं केशश्यामं शिर इव घूर्णते इतस्ततो याति । अत्र पतनादयः क्रियाः, लौहित्यादयो गुणाः, प्रधानक्रियाः पततीत्यादिकाः, तदध्यारोपो दिवसादिषु । इति समाध्युक्त्यलंकारनिरूपणम् ॥
समासोक्त्यलंकारनिरूपणम् ॥
समासोक्तिं लक्षयति—
यत्रेति । यत्रातिप्रसिद्धतयोपमानादेवैतस्योपमेयस्य ज्ञानं सा समासोक्तिः । समसनं समासः संक्षेपस्तदुक्तिरित्यन्वर्थतापि । प्रतीयमाने ज्ञायमाने वाच्येऽभिधीयमाने च सादृश्ये । श्लाघां प्रशंसाम्, गर्हां निन्दाम् । उभे श्लाघागर्हे च, नोभे अश्लाघागर्हे चैतानुपाधीन्प्रयोजकान् समासोक्तौ वदन्ति । विशेष्यमात्राभ्यां युक्तायुक्ताभ्यां भिन्नापि विशेषणद्वयभेदवती एका तुल्याकारविशेषणा, उपरा तुल्यातुल्यविशेषणा । संक्षेपोक्तौ च प्रकारद्वयं भवति तदाह—अन्येत्यादि ॥
तत्र प्रतीयमानसादृश्या श्लाघावती यथा—